सञ्जयः
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे
बृहत्यौ सम्प्रजह्राते देवासुरचमूसमे
ततो नानारथाश्वेभाः पत्तयश्च माहाहवे
सम्प्रहारं महच्चक्रुर्देहपाप्मविनाशनम्
पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतस्समैः
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम्
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः
परश्वथैस्त्वपाकृन्तन्नुत्तमाङ्गानि युध्यताम्
गदाभिरन्ये गुर्वीभिर्यष्टिभिर्मुसलैरपि
व्यायतायतबाहूनां व्यायतायतबाहुभिः
बाहवः पातिता रेजुस्साङ्गदा रुधिरोक्षिताः
तैस्स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा
गरुडप्रहारतो रुग्णैः पञ्चास्यैरिव पन्नगैः
द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः
विमानेभ्यो यथा पुण्ये क्षीणे स्वर्गसदस्तथा
पोथिताश्शतधा पेतुर्वीरा वरशितैश्शरैः
रथा रथैर्विनिहताः पातिताश्च द्विपैर्द्विपाः
सादिभिस्सादिनश्चैव तस्मिन्परमसङ्कुले
रथैर्नागा रथा नागैरश्वारोहाश्च पत्तिभिः
अश्वारोहैः पदाताश्च निहता युधि शेरते
रथाश्वपत्तयो नागैरश्वैर्नागैश्च पत्तयः
रथपत्तिद्विपाश्चाश्चैर्नृभिश्चाश्वरथद्विपाः
रथाश्वेभनराणां तु नराश्वेभनरैः कृतम्
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः
धृष्टद्युम्नश्शिखण्डी च द्रौपदेयाः प्रभद्रकाः
सात्यकिश्चेकितानश्च द्रमिलैस्सैनिकैस्सह
भृता वित्तेन महता पाण्ड्याश्चोलास्सकेरलाः
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः
नानाविरागवसाना गन्धचूर्णावचूर्णिताः
बद्धासयः पाशहस्ता वारणप्रतिवारणाः
समानमृत्यवो राजन्प्रसक्ताश्च परस्परम्
कलापिनः पाशहस्ता दीर्घकेशाः प्रहारिणः
पत्तयस्सायकैर्विद्धा घोररूपपराक्रमाः
अथापरे पुनश्शूराश्चेदिपाञ्चालकेकयाः
कारूशाः कोसला वङ्गा मागधाश्चापि दुद्रुवुः
तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च
तस्य सैन्यस्य महतो महामात्रशतैर्वृतः
मध्ये वृकोदरोऽभ्यायान्नागप्रवरधूर्गतः
स नागप्रवरो ह्युग्रो विधिवत्कल्पितो बभौ
उदयाग्रांशुभवनं यथाऽभ्युदितभास्करम्
तस्यायसं वर्मवरं वररत्नविभूषितम्
तारोद्भासस्य नभसश्शारदस्य समं त्विषा
स तोमरप्रासकरश्चारुमौलिस्स्वलङ्कृतः
शरन्मध्यन्दिनार्काभस्तेजसा प्रादहद्रिपून्
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिस्स्थितो द्विपे
आह्वयानोऽभिदुद्राव प्रहसन्पृतनामुखे
तयोस्समभवद्युद्धं द्विपयोरुग्ररूपयोः
यदृच्छया द्रुतवतोर्महापर्वतयोरिव
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्
बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः
व्यतिसृत्य च नागाभ्यां मण्डलानि विचेरतुः
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम्
क्ष्वेळितास्फोटितरवैर्बाणशब्दैश्च सर्वशः
तौ जनान् हर्षयन्तौ च सिंहनादं प्रचक्रतुः
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ
वातोद्धूतपताकाभ्यां युयुधाते महाबलौ
तावन्योन्यस्य धनुषी पुनश्छित्त्वा विनेदतुः
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे
निर्बिभेदाशुवेगेन षड्भिश्चाप्यपरैर्नदन्
भीमसेनस्तु शुशुभे तोमरैरङ्गसंश्रितैः
क्रोधदीप्तवपुर्मेघैस्सप्तसप्तिरिवांशुमान्
ततो भास्कररश्माभमञ्जोगतिमयस्मयम्
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान्
ततः करूशाधिपतिश्चापमायम्य सायकैः
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम्
अथ कार्मुकमादाय महाजलदनिस्स्वनम्
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवश्शरैः
स शरौघार्दितो नागो भीमसेनेन संयुगे
निगृह्यमाणो नातिष्ठद्वाध्वस्त इवाम्बुदः
तमभ्यधावद्द्विरदं भीमसेनस्य नागराट्
महावातेरितं मेघं वातोद्धूत इवाम्बुदः
स निवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः
विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम्
ततस्साधुविसृष्टेन क्षुरप्रेण सकार्मुकम्
छित्त्वा नरर्षभश्शत्रोर्नागं चापि प्रमार्दयत्
ततश्शलाकया भीमं क्षेमधूर्तिः पराभिनत्
जघान चास्य द्विरदं नाराचैस्सर्वमर्मसु
ततः पपात नागेन्द्रो भीमसेनस्य मारिष
पुरा नागस्य पतनात्सोऽवप्लुत्य स्थितो महीम्
भीमसेनोऽपि तन्नागं गदया समपोथयत्
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः
उद्धृत्य खड्गं निशितमभ्यधावत्स पाण्डवम्
उद्यतासिमुपायान्तं गदयाऽहन्वृकोदरः
स पपात हतस्सासिर्व्यसुस्तमभितो द्विपम्
वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा
तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम्
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ