धृतराष्ट्रः
सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा
तथोक्तस्तु स्वयं राज्ञा स्निग्धो भ्रातृसमो हि सः
हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः
किमकार्षीन्महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय
सञ्जयः
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ
योगमाज्ञापयामास नान्दीतूर्यपुरस्सरम्
महत्यपररात्रे च तव सैन्यस्य मारिष
योगो योग इति ह्याशु प्रादुरासीन्महास्वनः
कल्पतां नागमुख्यानां रथानां च वरुथिनाम्
सन्नह्यतां पदातीनां वाजिनां च विशाम्पते
क्रोशतां चापि योधानां त्वरितानां परस्परम्
बभूव तुमुलश्शब्दो दिवस्पृक्सुमहांस्ततः
ततश्श्वेतपताकेन बलाकावर्णवाजिना
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना
तूणीरशतपूर्णेन सगदेन वरूथिना
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा
कार्मुकैरुपपन्नेन विमलादित्यवर्चसा
रथेनापतता तेन सूतपुत्रो व्यदृश्यत
ध्मापयत्वा रणे शङ्खं हेमजालविभूषितम्
विधून्वानं महच्चापं हेमपृष्ठं दृढं नृप
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम्
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम्
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष
कर्णो निष्कर्षयामास कौरवाणां महद्बलम्
व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया
मकरव्यूहमास्थाय दंशितो रविनन्दनः
मकरस्याथ तुण्डे तु कर्णो राजन्व्यवस्थितः॥
नेत्रयोश्शकुनिश्शूर उलूकश्च महारथः
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः
मध्ये दुर्योधनो राजा बलेन महता वृतः
वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः
नारायणबलैर्गुप्तो गोपालैर्युद्धदुर्मदैः
पादे तु दक्षिणे राजन्गौतमस्सत्यविक्रमः
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः
महत्या सेनया सार्धं नानादेशसमुत्थया
दक्षिणे तु महाराज सुषेणस्सत्यसङ्गरः
वृतो रथमहस्रैश्च दन्तिनां च शतैस्तथा
पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवात्मजौ
विचित्रश्चित्रसेनश्च महत्या सेनया वृतौ
ततः प्रयाते राजेन्द्र कर्णे रथवरोत्तमे
धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम्
युधिष्ठिरः
पश्य पार्थ महासेनां धार्तराष्ट्रीं तु संयुगे
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः
फल्गुशेषा महाबाहो तृणैस्तुल्यतमा मता
एको ह्यत्र महेष्वासस्सूतपुत्रो व्यरोचत
सदेवासुरगन्धर्वैस्सकिन्नरमहोरगैः
चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः
तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन
उद्धृतं च भवेच्छल्यं मम द्वादशवार्षिकम्
एतज्ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि
सञ्जयः
श्रुत्वा तद्वचनं भ्रातुः कौन्तेयश्श्वेतवाहनः
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम्
वामशृङ्गे तु राजेन्द्र भीमसेनो व्यवस्थितः
दक्षिणे तु महाबाहुर्धृष्टद्युम्नो व्यवस्थितः
मध्ये व्यूहस्य राजेन्द्र पाण्डवश्च धनञ्जयः
नकुलस्सहदेवश्च धर्मराजश्च पृष्ठतः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
पार्थं न जहतुर्युद्धे पाल्यमानौ किरीटिना
शेषा नृपतयो वीरास्स्थिता व्यूहस्य दंशिताः
यथाभागं यथोत्साहं यथासन्नं च भारत
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः
तावकाश्च महेष्वासा युद्धायैवावत्थिरे
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे
निहतान्पाण्डवान्मेने सकृष्णान् वै जनाधिपः
तथैव पाण्डवीं सेनां दृष्ट्वा व्यूढां युधिष्ठिरः
धार्तराष्ट्रान्हतान्मेने सकर्णान्ससुयोधनान्
ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
पटहाश्चाभ्यहन्यन्त झर्झर्यश्च समन्ततः
सेनयोरुभयो राजन्डिण्डिमाश्च महास्वनाः
सिंहनादाश्च सञ्जज्ञुश्शूराणां जयगृद्धिनाम्
हयहेषितशब्दाश्च वारणानां च बृंहितम्
रथनेमिस्वनाश्चोग्रास्सम्बभूवुर्जनाधिप
न द्रोणव्यसनं केचिद्विजग्मुस्तत्र भारत
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम्
उभे सेने महाराज प्रहृष्टनरकुञ्जरे
योद्वुकामे स्थिते यत्ते हन्तुमन्योन्यमञ्जसा
विजये जातसंरम्भे दृष्ट्वाऽन्योन्यमवस्थिते
अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ
नृत्यन्त्याविव ते सेने प्रजग्मतुरभीतवत्
तयोः पक्षप्रपक्षेभ्यो निर्ययुश्च युयुत्सवः
ततः प्रववृते युद्धं नरवारणवाजिनाम्
रथानां च महाराज त्वन्योन्यं निघ्नतां भृशम्