सञ्जयः
श्रिया कुलेन यशसा तपसा च श्रुतेन च
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम्
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः
धृतराष्ट्रः
दैवमेव परं मन्ये धिक्पौरुषं तु निरर्थकम्
यत्र सालप्रतीकाशः कर्णोऽवध्यत संयुगे
हत्वा यौधिष्ठिरं सैन्यं पाञ्चालांश्च महारथान्
प्रताप्य शरवर्षेण दिशस्सर्वा महारथः
मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान्
कथं स निहतश्शेते वातनुन्न इव द्रुमः
शोकस्यान्तं न पश्यामि पारं जलनिधेरिव
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च
अश्रद्धेयमिदं मन्ये वधं कर्णस्य सञ्जय
वज्रसारमयं नूनं हृदयं मम दुर्भिदम्
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते
आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः
धिग्जीवितमिदं चैव सुहृद्धीनस्य सञ्जय
अद्य चाहं दशामेतां गतः सञ्जय कुत्सिताम्
कृपणं वर्तयिष्यामि शोच्यस्सर्वस्य मन्दधीः
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः
परिभूतः पुनस्सूत कथं शक्ष्यामि जीवितुम्
दुःखाद्दुःखतरं मन्ये प्राप्तवानस्मि सञ्जय
भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः
नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि
सहि पारं महानासीत्पुत्राणां मम सञ्जय
युद्धे हि निहतश्शूरो विसृजन्सायकान्बहून्
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
रथादातिरथिर्नूनमपतत्सायकार्दितः
पर्वतस्येव शिखरं वज्रपातावदारितम्
स शेते पृथिवीं नूनं शोभयन्रुधिरोक्षितः
मातङ्ग इव मत्तेन मातङ्गेन निपातितः
यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्
स हि वीरो महेष्वासः पुत्राणामभयङ्करः
शेते विनिहतश्शूरश्शक्रेणेव पुरा बलः
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामिता
दुर्योधनस्य लोभश्च समान्येतानि सञ्जय
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः
पलायमानः कृपणो दीनात्मा दीनपौरुषः
कच्चिन्न निहतस्सूत पुत्रो दुश्शासनो मम
कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे
पुत्रो दुर्योधनस्सङ्ख्ये न हतो मम सञ्जय
कच्चित्ते निहताश्शूरा यथा ते क्षत्रियस्तथा
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम्
शरतल्पे शयानेन भीष्मेण सुमहात्मना
पानीयं याचितः पार्थस्सोऽविध्यन्मेदिनीतलम्
जलस्य धारां जनितां दृष्ट्वा तां पाण्डवेन च
अब्रवीत्सुमहाबुद्धिस्तात संशाम्य पाण्डवैः
प्रशमाद्धि भवेच्छ्रेयो मदन्तं युद्धमेव च
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैस्सहतदिदं
अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः
समनुप्राप्तं वचनं दीर्घदर्शिनः
अहं तु निहतामात्यो हतपुत्रश्च सञ्जय
द्यूतेन कृच्छ्रमापन्नो लूनपक्ष इव द्विजः
यथा गृहीत्वा शकुनिं पक्षौ लुप्त्वाऽथ सञ्जय
विसर्जयन्ते संहृष्टाः क्रीडमानाः कुमारकाः
लूनपक्षतया तस्य गमनं नोपपद्यते
तथाऽहमपि सम्प्राप्तो लूनपक्ष इव द्विजः
क्षीणस्सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिसङ्क्षये
कां दिशं प्रतिपत्स्यामि दीनश्शोकवशं गतः
वैशम्पायनः
इत्येवं धृतराष्ट्रोऽथ विलप्य बहुदुःखितः
प्रोवाच सञ्जयं भूयश्शोकव्याकुलमानसः
धृतराष्ट्रः
दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत् प्रभुः
स जितः पाण्डवैश्शूरैस् समर्थैर्वीर्यशालिभिः
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे
उक्तं त्वया पुरा सूत यथा शूरौ निपातितौ
भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः
पातयामास समरे सर्वशस्त्रभृतां वरम्
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि
धर्मराजवचश्श्रुत्वा अश्वत्थामा हतस्त्विति
युक्तयोगो महेष्वासश्शरैर्बहुभिराचितः
निहतः खड्गमुद्धृत्य धृष्टद्युम्नेन सञ्जय
अन्तरेण हतावेतौ च्छलेन च विशेषतः
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम्
न्यायेन युध्यन्समरे तद्वै सत्यं ब्रवीमि ते
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च लघूनि च
कथमिन्द्रोपमं वीरं मृत्युर्वीरं समस्पृशत्
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम्
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः
यस्य सर्पमुखो दिव्यश् शरः काञ्चनभूषणः
स शेते निहतः पत्त्री समरेष्वरिसूदनः
भीष्मद्रोणमुखान्वीरान्योऽवमत्य महारथान्
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षयत्
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः
यश्च नागायुतप्राणं वातरंहसमच्युतम्
विरथं सहसा कृत्वा भीमसेनमपाहसत्
सहदेवं च निर्जित्य शरैस्सन्नतपर्वभिः
कृपया विरथं कृत्वा नावधीद्धर्मवित्तमः
यश्च मायासहस्राणि ध्वंसयित्वा घटोत्कचम्
रणोत्कटं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान्
एतांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः
नागमद्द्वैरथं वीरस्स कथं निहतो रणे
रथभङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत
न चेदस्त्राणि नष्टानि कथं स निहतः परैः
को हि शक्तो रणे कर्णं विधून्वानं महद्धनुः
विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे
जेतुं पुरुषशार्दूल शार्दूलमिव वेगितम्
ध्रुवमस्य धनुश्छिन्नं रथो वाऽभिगतो महीम्
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम्
न ह्यन्यदनुपश्यामि कारणं तस्य पातने
न हन्यामर्जुनं यावत्तावत्पादौ न धावये
इति यस्य महाघोरं व्रतमासीन्महात्मनः
यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः।
त्रयोदशसमा निद्रां न लेभे पुरुषर्षभः
यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः
मम पुत्रस्सभां भार्यां पाण्डूनां नीतवान्बलात्
तत्रापि च सभामध्ये पाण्डवानां स्म पश्यताम्
दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत
यस्य नासीद्भयं पार्थात्सपुत्रात्सजनार्दनात्
स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय
तस्य नाऽहं वधं मन्ये देवैरपि सवासवैः
प्रतीपमभिधावद्भिः किं पुनस्तात पाण्डवैः
न हि ज्यां संस्पृशानस्य तलत्रे चापि गृह्णतः
पुमानतिरथेस्स्थातुं कश्चित्प्रमुखतोऽर्हति
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः
न वधः पुरुषेन्द्रस्य सत्त्वयुक्तस्य संयुगे
येन मन्दस्सहायेन भ्रात्रा दुश्शासनेन च
ब्रुवतो वासुदेवस्य प्रत्याख्यानमरोचयत्
स नूनं वृषभस्कन्धं दृष्ट्वा कर्णं निपातितम्
दुश्शासनं च निहतं मन्ये शोचति पुत्रकः
हतं वैकर्तनं दृष्ट्वा द्वैरथे सव्यसाचिना
जयतः पाण्डवांश्चापि किंस्विद्दुर्योधनोऽब्रवीत्
दुर्मर्षणं च निहतं जयत्सेनं च संयुगे
प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः
पराङ्मुखांश्च नृपतीन् पलायनपरायणान्
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः
अनयश्चातिमानी च बालबुद्धिरमर्षणः
हतोत्साहं बलं दृष्ट्वा किंस्विदुर्योधनोऽब्रवीत्
स्वयं वैरं महत्कृत्वा वार्यमाणस्सुहृद्गणैः
प्रधने हतभूयिष्ठे बले किंवाऽब्रवीदसौ
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे
रुधिरे पीयमाने च किंस्विद्द्रुर्योधनोऽब्रवीत्
सह गान्धारराजेन सभायां यदभाषत
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत्
द्यूतं कृत्वा पुरा हृष्ठो वञ्चयित्वा च पाण्डवान्
शकुनिस्सौबलस्तात हते कर्णे किमब्रवीत्
कृतवर्मा महेष्वासस् सात्वतानां महारथः
हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः
दिव्यरूपेण सम्पन्नो दर्शनीयो महायशाः
अश्वत्थामा हते कर्णे किमभाषत सञ्जय
आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः
स कृपस्तात तेजस्वी हते कर्णे किमब्रवीत्
मद्रराजो महेष्वासश्शल्यस्तत्र किमब्रवीत्
दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः
किमभाषत सौवीरो मद्राणामधिपो बली
दृष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः
ये च केचन राजानः पृथिव्यां योद्धुमागताः
वैकर्तनं हतं दृष्ट्वा कान्यभाषन्त सञ्जय
कर्णे विनिहते वीरे रथव्याघ्रे नरर्षभे
के वा मुखमनीकानामासीत्सञ्जय भागशः
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे
वामं चक्रं ररक्षुर्वा के वा सन्नस्य पृष्ठतः
के कर्णं न जहुश्शूराः के क्षुद्राः प्राद्रवन् भयात्
कथं च वस्समेतानां हतः कर्णो महारथः
पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथाः
सृजन्तश्शरवर्षाणि वारिधारा इवाम्बुदाः
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा
व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय
मामकस्यास्य सैन्यस्य हतोत्साहस्य सञ्जय
अवशेषं न पश्यामि ककुदे मृदिते युधि
तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवितौ
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे
पुनः पुनर्न मृष्यामि वधं कर्णस्य पाण्डवैः
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतैश्शतैः
द्रोणे हते च यद्वृत्तं कौरवाणां परैस्सह
सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय
यथा च कर्णः कौन्तेयैस्सह युद्धमयोजयत्
तथा वा द्विषतां हन्ता हतो युद्धे तदुच्यताम्