जनमेजयः
श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः
वैशम्पायनः
श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम्
भूतसम्मोहनं भीमं मेरोः पर्यसनं यथा
चित्तमोहमिवायुक्तं भार्गवस्य महामत्मनः
पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः
दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः
महीवियद्दिवाम्बूनां सर्वनाशमिवाद्भुतम्
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम्
प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च
शोकाग्निना दह्यमानो धम्यमान इवाशयः
विस्रस्ताङ्गश्श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः
धृतराष्ट्रः
सञ्जयातिरथिर्वीरस्सिंहद्विरदविक्रमः
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः
वृषभो वृषभस्येव यो युद्धे न निवर्तते
शत्रोरपि महेन्द्रस्य सिंहसंहननो युवा
यस्य ज्यातलशब्देन शरवृष्टिरयेण च
रथाश्वनरमातङ्गा न च तिष्ठन्ति संयुगे
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम्
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे
निहतः पुरुषव्याघ्रः प्रसह्यामितविक्रमः
यो नामन्यत वै नित्यमच्युतं सधनञ्जयम्
न वृष्णीन्नाहितानन्यान्स्वबाहुबलमाश्रितः
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे
इति यस्सततं मन्दमवोचल्लोभमोहितम्
दुर्योधनमवाचीनं राज्यकामुकमातुरम्
योऽजयत्सर्वकाम्भोजानाम्बष्ठान्केकयैस्सह
गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान्
पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान्
सुह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान्
वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि
शबरान्परहूणांश्च प्रहूणान्सरलानपि
म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा
जित्वैतान्समरे वीरस्सुतीक्ष्णैः कङ्कपत्रिभिः
करमाहारयामास जित्वा सर्वानरींस्तथा
उच्चैश्श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः
यं लब्ध्वा मागधो राजा सान्त्वमानोऽथ सौहृदैः।
अरौत्सीत् क्षत्रमतुलम् ऋते कौरवयादवान्
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना
शोकार्णवे निमग्नोऽहमप्लवस्सागरे यथा
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम्
ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराभवम्
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम्
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे
महाप्रस्थानगमनं जलं प्रायोपवेशनम्
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय