धृतराष्ट्रः
आख्याता मामकास्तात निहता युधि पाण्डवैः
मामकैर्निहतान् ब्रूहि पाण्डवेयांस्तु सञ्जय
सञ्जयः
कृतिनो युधि विक्रान्ता महासत्वा महाबलाः
सानुबन्धास्सहामात्या भीष्मेण युधि पातिताः
नारायणा वल्लवाश्च रामाश्च शतशोऽपरे
अनुरक्ताश्च वीरेण भीष्मेण निहता रणे
समः किरीटिना सङ्ख्ये वीर्येण च बलेन च
सत्यजित्सत्यसन्धेन द्रोणेन निहतो युधि
पाञ्चालाश्च महेष्वासाः प्रायो राजन्नमर्षिणः
द्रोणेन सह सङ्गम्य गता वैवस्वतक्षयम्
तथा विराटद्रुपदौ वृद्धौ सहसुतैर्नृपौ
पराक्रान्तौ च मित्रार्थे द्रोणेन निहतौ युधि
यो बाल एव समरे सम्मितस्सव्यसाचिना
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः
परेषां कदनं कृत्वा महद्रणविशारदः
परिवार्य मदामात्रैष्षड्भिः परमकै रणे
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्
दौश्शासनिर्महाराज सौभद्रं हतवान्रणे
पटच्चरान्निहन्ता तु महत्या सेनया वृतः
अम्बष्ठस्सहितश्श्रीमान्मित्रहेतोः पराक्रमी
आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे
सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम्
बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः
दुश्शासनेन विक्रम्य गमितो यमसादनम्
सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत
समुद्रसेनो बलवान् गमितो यमसादनम्
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ
पराक्रान्तौ तु मित्रार्थे द्रोणेन युधि पातितौ
अंशुमान्भोजराजस्तु सहसैन्यो महारथः
दुश्शासनेन विक्रम्य गमितो यमसादनम्
सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत
समुद्रसेनेन बलाद्गमितो यमसादनम्
अनूपवासी नीलश्च व्याघ्रदत्तश्च वीर्यवान्
अश्वत्थाम्ना विकर्णेन गमितौ यमसादनम्
चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत्
चित्रमार्गेण विक्रम्य विकर्णेन हतौ युधि
वृकोदरसमो युद्धे वृकः केकयजो युधि
केकयेन च विक्रम्य भ्राता भ्रात्रा निपातितः
जनमेजयो हि विक्रान्तः पार्वतीयः प्रतापवान्
दुर्मुखेन महाराज तव पुत्रेण पातितः
रोचमानौ नृपश्रेष्ठौ रोचमानौ ग्रहाविव
द्रोणेन युगपद्राजन्दिवं सम्प्रापितौ शरैः
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता महीपते
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्
पुरुजित्कुन्तिभोजश्च मातुलौ सव्यसाचिनः
सङ्ग्रामनिर्जिताल्ँलोकान्गमितौ द्रोणसायकैः
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः
वसुदानस्य पुत्रेण त्याजितो देहमाहवे
अमितौजा जयत्सेनो जयानीकश्च वीर्यवान्
निहत्य शतशश्शूरानस्मदीयैर्निपातिताः
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च भारत
द्रोणेन परमेष्वासौ गमितौ यमसादनम्
शिखण्डितनयो युद्धे क्षत्रदेवो युधांवरः
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत
सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ
प्रहरन्तौ रणे वीरौ द्रोणेन निहतौ नृप
वार्धक्षेमिर्महाराज समुद्र इव पर्वणि
आयुधक्षयमासाद्य प्रशान्तिं परमां गतः
सेनाबिन्दुर्नृपश्रेष्ठश् शास्त्रवान्प्रतपन्युधि
बाह्लिकेन महाराज कौरवेन्द्रेण पातितः
धृष्टकेतुर्महाराज चेदीनां प्रवरो रणे
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्
तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम्
पुत्रश्च शिशुपालस्य सुकेतुः पृथिवीपतिः
निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो रणे
विराटपुत्रश्शङ्खस्तु उत्तरश्च महारथः
कुर्वन्तौ सुमहत्कर्म गतो वैवस्वतक्षयम्
तथा सत्यधृतिर्मात्स्यो मदिराश्वश्च वीर्यवान्
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः
मात्स्यादवरजश्श्रीमाञ्शतानीको निपातितः
श्रेणिमांस्तु महाराज युध्यमानः पराक्रमी
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्
तथैव युधि विक्रान्तो बलवानतिवीर्यवान्
मागधः परमास्त्रज्ञो गमितो यमसादनम्
द्रोणेन निहतो राजञ् सहदेवः प्रतापवान्
वसुदानश्च कदनं कुर्वाणो दिवसं रणे
भारद्वाजेन विक्रम्य गमितो वै यमक्षयम्
पाण्ड्यराजश्च विक्रान्तो बलवान् बाहुशालिना
अश्वत्थाम्ना हतस्तत्र गमितो वै यमक्षयम्
एते चान्ये च बहवः पाण्डवानां महारथाः
हता द्रोणेन भूयिष्ठं यन्मां त्वं परिपृच्छसि