जनमेजयः
तच्छ्रुत्वा कर्णहननं पुत्रांश्चैव पलायितान्
धृतराष्ट्रो नृपश्रेष्ठो द्विजश्रेष्ठ किमब्रवीत्
प्राप्तवान्व्यसनं घोरं पुत्रव्यसनजं महत्
काले यदुक्तवांस्तस्मिंस्तन्ममाचक्ष्व तत्त्वतः
वैशम्पायनः
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
अब्रवीत्सञ्जयं सूतं शोकेनाकुलचेतनः
धृतराष्ट्रः
दुष्प्रणीतेन मे तात सुतस्यादीर्घदर्शिनः
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति
तस्य मे संशयं छिन्धि शोकपारं तितीर्षतः
कुरूणां सृञ्जयानां च के नु जीवन्ति के हताः
सञ्जयः
हतश्शान्तनवो राजन्दुराधर्षः प्रतापवान्
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः
तथा द्रोणो महेष्वासः पाञ्चालानां रथव्रजान्
निहत्य युधि दुर्धर्षः पञ्चाद्रुक्मरथो हतः
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः
विविंशतिर्महाराज राजपुत्रो महारथः
आनर्तयोधाञ्शतशो निहत्य निहतो युधि
तथा पुत्रो विकर्णस्ते क्षत्रधर्ममनुस्मरन्
क्षीणबाणो हतश्शूरस् स्थितो ह्यभिमुखः परैः
घोररूपानतिक्लेशान्दुर्योधनकृतान्बहून्
प्रतिज्ञां स्मरता तेन भीमसेनेन पातितः
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ
कृत्वा सुदुष्करं कर्म गतौ वैवस्वतक्षयम्
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि भारत
यस्य तिष्ठन्ति वचने यस्स्थितस्तव शासने
अक्षौहिणीर्दशैकां च विनिर्जित्य शितैश्शरैः
सोऽर्जुनेन हतो राजन्महावीर्यो जयद्रथः
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः
वर्तमानः पितुश्शास्त्रे सौभद्रेण निपातितः
तथा दौश्शासनिर्वीरो बाहुशाली रणोत्कटः
द्रौपदेयेन विक्रम्य गमितो यमसादनम्
किरातानामधिपतिस्सागरानूपवासिनाम्
देवराजस्य धर्मात्मा प्रियो बहुमतस्सखा
भगदत्तो महीपालः क्षत्रधर्मरतस्सदा
धनञ्जयेन विक्रम्य गमितो यमसादनम्
तथा कौरवदायादस्सौमदत्तिर्महायशाः
हतो भूरिश्रवा राजञ्शूरस्सात्यकिना युधि
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरन्धरः
चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना
तव पुत्रस्सदाऽमर्षी कृतास्त्रो युद्धदुर्मदः
दुश्शासनो महाराज भीमसेनेन पातितः
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम्
सुदक्षिणस्स सङ्ग्रामे निहतस्सव्यसाचिना
कोसलानामधिपतिर्हत्वा बहुशतान्परान्
सौभद्रेणेह विक्रम्य गमितो यमसादनम्
बहुशो योधयित्वा तु भीमसेनं महारथः
चित्रसेनस्तव सुतो भीमसेनेन पातितः
मद्रराजात्मजश्शूरः परेषां भयवर्धनः
असिचर्मधरश्श्रीमान्सौभद्रेण निपातितः
समः कर्णेन समरे स कर्णस्यैव पश्यतः
वृषसेनो महातेजाश्शीघ्रास्त्रो कृतनिश्रमः
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः
धनञ्जयेन विक्रम्य गमितो यमसादनम्
नित्यप्रयुक्तवैरो यः पाण्डवैः पृथिवीपतिः
विश्राव्य वैरं पार्थेन श्रुतायुस्स निपातितः
शल्यपुत्रस्तु विक्रान्तस्सहदेवेन मारिष
हतो रुक्मरथो राजन् स्यालो मातुलजो युधि
राजा भागीरथो वृद्धो बृहत्क्षत्रश्च केकयः
पराक्रमन्तौ च मित्रार्थे निहतौ वीर्यवत्तरौ
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः
श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः
पितामहस्तव तथा बाह्लीकस्सह बाह्लिकैः
निहतो भीमसेनेन महाबलपराक्रमः
जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः
मागधो निहतस्सङ्ख्ये सौभद्रेण महात्मना
पुत्रस्ते दुर्मुखो राजन्दुष्षहश्च महारथः
गदया भीमसेनेन निहतौ शूरमानिनौ
दुर्मर्षणो दुर्विषहो दुर्मनाश्च महारथः
कृत्वा सुदुष्करं कर्म गता वैवस्वतक्षयम्
असिचर्मधरश्शूरः परेषां भयवर्धनः
अग्निचक्रवदाघूर्णन् सोमदत्तो विपातितः
उभौ कलिङ्गवृषभौ भ्रातरौ युद्धदुर्मदौ
कृत्वा सुदुष्करं कर्म गतौ वैवस्वतक्षयम्
सचिवो वृषपर्वा ते शूरः परमवीर्यवान्
भीमसेनेन विक्रम्य गमितो यमसादनम्
तथैव पौरवो राजा नागायुतबलो महान्
सगणः पाण्डुपुत्रेण निहतस्सव्यसाचिना
वसातयो महाराज द्विसाहस्राः प्रहारिणः
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः
अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः
शिबयश्च रथोदाराः कालिङ्गसहिता हताः
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः
गोपालाः कृतवीर्याश्च निहतास्सव्यसाचिना
श्रेणयो बहुसाहस्रास् संशप्तकगणाश्च ये
ते सर्वे पार्थमासाद्य गदा वैवस्वतक्षयम्
श्यालौ तव महाराज राजानौ वृषकाचलौ
त्वदर्थं तौ पराक्रान्तौ निहतौ सव्यसाचिना
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा
साल्वराजो महाराज भीमसेनेन पातितः
अंशुमांश्च महाराज बृहन्तसहितो रणे
पराक्रमी च मित्रार्थे गतौ वैवस्वतक्षयम्
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते
निहतो गदया राजन्भीमसेनेन संयुगे
तथा राजन्महेष्वासो जलसन्धो महाबलः
सुमहत्कदनं कृत्वा हतस्सात्यकिना युधि
अलायुधो राक्षसेन्द्रो बकबन्धुश्च यानवान्
घटोत्कचेन विक्रम्य गमितो यमसादनम्
विक्रान्ता बलवन्तश्च भ्रातरस्सह भारत
केकयास्सर्वतश्चापि निहतास्सव्यसाचिना
राधेयास्सूतपुत्राश्च कर्णस्य भ्रातरस्तथा
रिपूणां कदनं कृत्वा गता वैवस्वतक्षयम्
मद्रका मालवाश्चैव द्रविलाश्चोग्रविक्रमाः
यौधेयाश्च लिलिन्ध्राश्च क्षुद्रकाश्चाप्युशीनराः
मच्चिल्लकास्तुण्डिकेरास् सावित्रीपुत्रकास्तथा
प्रागुदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भारत
पत्तीनां निहतास्सङ्घा हयानामर्बुदानि च
रथव्राताश्च निहतास् तथा वै वरवारणाः
सध्वजास्सायुधाश्शूरास् सवर्माम्बरभूषणाः
कालेन महतायत्ताः कुशलैर्येऽभिवर्धिताः
ते हतास्समरे राजन्पार्थेनाक्लिष्टकर्मणा
अन्ये तथाऽमितबलाः परस्परममर्षिणः
एते चान्ये च बहवो राजानस्सगणा रणे
हतास्सहस्रशो राजन्यन्मां त्वं परिपृच्छसि
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः
यथा कृष्णेन नरको मुरुश्च निहतो रणे
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः
सज्ञातिबान्धवश्शूरस्समरे युद्धदुर्मदः
रणे कृत्वा महद्युद्धं घोरं त्रैलोक्यविश्रुतम्
यथा स्कन्देन महिषो यथा रुद्रेण चान्तकः
तथाऽर्जुनेन निहतो द्वैरथे युद्धदुर्मदः
सामात्यबान्धवश्शूरः कर्णः प्रहरतां वरः
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे
प्रोच्यमानं महाराज बन्धुभिर्हितकाङ्क्षिभिः
न कृतं च त्वया पूर्वं दैवेन विधिना बलात्
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम्
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा
अहितान्येव चीर्णानि तेषां ते फलमागतम्