धृतराष्ट्रः-
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्
सञ्जयः-
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम्
मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम्
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ
अर्जुनः-
सङ्ग्रामे शात्रवान्निघ्नञ्शरौघैर्विमलैरहम्
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामते
पद्भ्यां न स्पृशते भूमिं न च शूलं विमुञ्चति
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम्
व्यासः-
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसन्निभः
प्रजापतीनां प्रथमं तेजसां प्रवरं प्रभुम्
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम्
तं गच्छ शरणं वीर वरदं भुवनेश्वरम्
महादेवं महात्मानमीशानं जटिलं विभुम्
त्र्यक्षं महाभुजं रौद्रं शिखिनं चीवराससम्
दातारं चैव भक्तानां प्रसादविहितान्वरान्
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः
महाकाया महानासा महाकर्णास्तथाऽपरे
आननैर्विकृतैश्चान्यैः पार्थ वेषैश्च वैकृतैः
ईदृशैस्स महादेवः पूज्यमानो महेश्वरः
स शिवस्तात तेजस्वी प्रसन्नो याति तेऽग्रतः
तस्मिन्घोरे महारौद्रे सङ्ग्रामे रोमहर्षणे
द्रौणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः
कस्तां सेनां नरः पार्थ मनसाऽपि प्रधर्षयेत्
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतस्स्थिते
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च
तस्मै नमस्तु कुर्वाणा देवास्तिष्ठन्ति वै दिवि
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्
सङ्ग्रामेषु जयं प्राप्य पालयन्ति महीमिमाम्
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम्
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे
कपर्दिने करालाय हर्यक्ष्णे वरदाय च
याम्यायाव्यक्तकेशाय सद्वृत्ताय कपर्दिने
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च
हरिकेशाय मुण्डाय कृशायोत्तारणाय च
भास्कराय सुतीर्थाय देवदेवाय रंहसे
बहुरूपाय शर्वाय विश्वरूपाय वेधसे
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
नमो वृक्षाय सेनान्ये मध्यमाय नमो नमः
गिरिशाय प्रशान्ताय पतये चीरवाससे
हिरण्यबाहवे चैव उग्राय पतये दिशाम्
पर्जन्यपतये चैव भूतानां पतये तथा
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च
स्रुवहस्ताय देवाय धन्विने भार्गवाय च
बहुरूपाय पतये पार्वत्याश्चीरवाससे
सहस्रशिरसे राजन्सहस्रचरणाय च
सहस्रबाहवे नित्यं सहस्रवदनाय च
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम्
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम्
वृषायुधं वृषशरं वृषभूतं महेश्वरम्
महोदरं महाकायं द्वीपिचर्मनिवासिनम्
लोकेशं वरदं पुण्यं ब्रह्मण्यं ब्राह्मणप्रियम्
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्
पिनाकखड्गपरशुं लोकानां पतिमीश्वरम्
प्रपद्ये शरणं देवं शरण्यं चीरवाससम्
नमस्तस्मै सुरेशाय गणानां पतये नमः
सुवाससे नमो नित्यं सुव्रताय सुधन्विने
उग्रायुधाय देवाय नमस्सुरवराय च
नमोस्तु बहुरूपाय भगघ्नाय च वै नमः ||
वनस्पतीनां पतये नराणां पतये नमः
गवां च पतये नित्यं यज्ञानां पतये नमः
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः
कर्माणि चैव घोराणि महादेवस्य धन्विनः
तानि ते कीर्तयिष्यामि तथाप्रज्ञं यथाश्रुतम्
न सुरा नामरा लोके न गन्धर्वा न राक्षसाः
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः
दक्षस्य यजमानस्य विधिवत्सम्भृतं पुरा
विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा
धनुषा बाणमुत्सृज्य सघोषं विननाद च
तेन शर्म कुतश्शान्तिं लेभिरे स्म सुरास्तदा
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे
तेन ज्यातलघोषेण सर्व लोकास्समाकुलाः
बभूवुर्विवशाः पार्थ निपेतुश्च सुरासुराः
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः
अन्धेन तमसा लोका न व्यकाशन्त संवृताः
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः
चुक्षुभुर्भयभीताश्च चक्रुश्शान्तिं तथैव च
ऋषयस्सर्वभूतानामात्मनश्च सुखैषिणः
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव
पुरोडाशं भक्षयतो दशनांश्च व्यशातयत्
ततो निश्चक्रमुर्देवा वेपमाना भयार्दिताः
पुनश्च सन्दधे दीप्तं देवानां निशितं शरम्
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन्
भयेन त्रिदशा राजन्शरणं प्रतिपेदिरे
तेन चैव हि कोपेन स यज्ञस्स्तम्भितस्तदा
यत्ताश्चापि सुरा आसन्यत्ताश्चान्येऽपि तं प्रति
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
आयसं राजतं चैव सौवर्णं परमं महत्
आयसं तारकाक्षस्य कमलाक्षस्य राजतम्
सौवर्णमपरं चापि विद्युन्मालिन एव च
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि
अथ सर्वेऽमरा रुद्रं जग्मुश्शरणमर्दिताः
ते तमूचुर्महात्मानं सर्वे देवास्समागताः
देवाः-
रुद्र रौद्रा भविष्यन्ति पशवस्सर्वकर्मसु
निपातयिष्यसे चैनानसुरान्भुवनेश्वर
व्यासः-
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम्
शल्यमग्निं च वै कृत्वा मुखे सोममपां पतिम्
स कृत्वा धनुरोङ्कारं सावित्रीं ज्यां महेश्वरः
हयांश्च चतुरो वेदांश् चतुर्वेदमयं रथम्
प्रजापतिं रथश्रेष्ठे विनियुज्य च सारथिम्
अतिष्ठत्स्थाणुभूतस्स सहस्रं परिवत्सरान्
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्
देव्यास्स्वयंवरे वृत्तं शृणुष्वान्यद्धनञ्जय
बालमङ्कगतं दृष्ट्वा स्वयं पञ्चशिखं पुनः
उमा जिज्ञासमाना वै कोयमित्यब्रवीत्सुरान्
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः
स एष भगवान्देवस्सर्वलोकेश्वरः प्रभुः
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम्
सप्रजापतयस्सर्वे बालार्कसदृशप्रभम्
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम्
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः
तेषां प्रसन्नो भगवान्सपत्नीको महेश्वरः
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः
स वै रुद्रस्स च शिवस्सोऽग्निस्सर्वस्सर्वकृत्
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः
स भवस्स च पर्जन्यो महादेवस्स चानघः
स चन्द्रमास्स चेशानस्स सूर्यो वरुणश्च सः
स कालस्सोऽन्तको मृत्युस्स यमो रात्र्यहानि सः
मासार्धमासा ऋतवस्स च संवत्सरश्च सः
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत्
विश्वेषां देवतानां च धारयत्यवपुर्वपुः
सर्वदेवैस्स्तुतो देवस्सैकधा बहुधा च सः
शतधा सहस्रधा चैव तथा शतसहस्रधा
ईदृशस्स शिवो देवो भूयांश्च भगवानजः
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्
स मोचयति सुप्रीतश्शरण्यश्शरणागतान्
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्
स ददाति मनुष्येभ्यस्स चैवाक्षीयते पुनः
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते
स चैव वेत्ति लोकेषु मनुष्याणां शुभाशुभे
ऐश्वर्यं चैव कामानामीश्वरः पुनरुच्यते
महेश्वरश्च भूतानां महतामीश्वरश्च सः
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्
अस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम्
एकाक्षो जाज्वलन्नास्ते सर्वतोऽक्ष इवेक्षते
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च
सकामानां प्रभुर्देवो ये दिव्या ये च मानुषाः
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्
तिस्रो देव्य यदा चैनं भजन्ते भुवनेश्वरम्
द्यौरापः पृथिवी चैव त्र्यम्बकश्च ततस्स्मृतः
एष चैव श्मशानेषु देवो वसति निर्दहन्
यजन्ते तं जनास्तत्र वीरस्थाननिवासिनम्
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च
नामधेयानि लोकेषु बहून्यस्य यथार्थवत्
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा
वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम्
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः
क्रोधाद्यमाविशँल्लोकास्तेन शर्व इति स्मृतः
स विभुस्स प्रभुर्देवो विश्वं व्याप्नुवते महत्
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्
सर्वान्यच्च पशून्पाति तैश्च यद्रमते पुनः
तेषामधिपतिर्यच्च तस्मात्पशुपतिस्स्मृतः
सत्येन ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम्
तमर्चयन्ति लोश्च महेश्वर इति स्मृतः
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्
ऊर्ध्वलिङ्गस्ततश्चोक्तो भगवान्ब्राह्मणैस्सदा
पूज्यमाने च तस्मिंश्च पूज्यते च महेश्वरः
सुखं प्रीतिश्च भवति प्रभवश्चैव शङ्करः
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा
स्थावरं जङ्गमं चैव बहुरूपस्ततस्स्मृतः
एकाक्षो विज्वलन्नास्ते सर्वतश्शोभनं विशेत्
विश्वे देवाश्श्रयन्त्यस्माद्विश्वरूप इति स्मृतः
शिवमिच्छन्मनुष्याणां तस्मादेष शिवस्स्मृतः
सहस्राक्षोऽयुताक्षो वा सर्वतोक्ष इवेक्षते
यच्च विश्वं महत्पाति महादेवस्ततस्स्मृतः
दहत्यदूर्ध्वं स्थितो यच्च प्राणवत्तत्स्थितं च यत्
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः
पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते
ऊरुभ्यामर्धमाग्नेयं सोमोऽर्धं च शिवा तनुः
आत्मनोऽर्धं च तस्याग्निस्सोमोऽर्धं पुनरुच्यते
तैजसी महती दीप्ता दैवीऽस्य शिवा तनुः
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते
ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तथा
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः
सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृत्
स एष भगवान्देवस्सङ्ग्रामे याति तेऽग्रतः
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम्
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्
सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम्
सर्वपापप्रशमनं सर्वदुःखभयापहम्
चतुर्विधमिदं स्तोत्रं यश्शृणोति नरस्सदा
विजित्य शात्रवान्सर्वान्रुद्रलोके महीयते
चरितं महात्मनो नित्यं साङ्ग्रामिकमिदं शुभम्
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः
भक्तो विश्वेश्वरं देवं मानुषेषु च यस्सदा
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः
सञ्जयः-
एवमुक्त्वाऽर्जुनं सङ्ख्ये पराशरसुतः प्रभुः
जगाम भरतश्रेष्ठ यथागतमरिन्दम
वैशम्पायनः-
एतदाख्याय वै सूतो राज्ञस्सर्वं तु सञ्जयः
प्रयातश्शिबिरायैव द्रष्टुं कर्णस्य वैशसम्
धूम्रं रूपं च यत्तस्य धूर्जटिः पुनरुच्यते
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततस्स्मृतः