सञ्जयः-
ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात्
ततस्स्निग्धाम्बुदाभासं वेदाव्यासमकल्मषम्
आवासं च सरस्वत्यास्स वै व्यासं ददर्श ह
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह
बाष्पकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्
अश्वत्थामा-
किन्नु माया यदृच्छेयं दैवं वा किमिदं भवेत्
एतदस्त्रं कथं मिथ्या मम कश्च व्यतिक्रमः
अधरोत्तरं प्रवृत्तं हि लोकानां वा पराभवः
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः
न नागायक्षपतगा न मनुष्याः कथञ्चन
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्
तदिदं केवलं हत्वा एकमक्षौहिणीं ज्वलत्
कथं मानिषधर्माणौ नाधाक्षीत्केशवार्जुनौ
एतच्च ब्रूहि भगवन्मया पृष्टो यथातथम्
व्यासः-
महान्तमेवमर्थं मां यं त्वं पृच्छसि संशयात्
तत्तेऽहं सम्प्रवक्ष्यामि सावधानमनाश्शृणु
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः
आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः
आद्यस्सर्वस्य लोकस्य अनादिनिधनोऽच्युतः
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह
अतोऽजय्यस्सर्वभूतैर्मनसाऽपि जगत्पतिः
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः
मा शुचः पुरुषव्याघ्र विद्धि तद्वदिहार्जुनम्
तस्य शक्तिरसौ पार्थस्तस्माच्छोकमिमं त्यज
विश्वेश्वरोऽथ लोकादिः परमात्मा ह्यधोक्षजः
सहस्रसम्मितादंशादेकांशोऽयमजायत
देवानां हितकामार्थं लोकानां चैव सत्तम
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वधृक्
समास्थाय तपस्तीव्रं मैनाकं गिरिमाश्रितः
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्
स तेन तपसा तात ब्रह्मभूतो यदाऽभवत्
ततो विश्वेश्वरं योनिं विश्वस्य जगतः प्रभुम्
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम्
अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तमम्
रुद्रमीशानमृषभं चेकितानमजं परम्
गच्छतस्तिष्ठतो वाऽपि सर्वभूतहृदि स्थितम्
दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम्
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम्
तं देवदेवं परमाणुमीढ्यं सङ्ख्ये दिव्याविषुधी आददानम्
हिरण्यवर्माणमनन्तवीर्यं पिनाकिनं वज्रिणं दीप्तशूलम्
परश्वथिं गदिनं व्यायतासिं बभ्रुं जटामण्डलचन्द्रमौलिम्
व्याघ्राजिनं परिघिणं दण्डपाणिं शुभाङ्गदं नागयज्ञोपवीतम्
विश्वेशानं शोभितं भूतसङ्घैरेकीभूतं तपसां सन्निधानम्
वचोधिकैस्सुष्टुतमिष्टवाग्भिर्विश्वैर्गणैश्शोभितं प्रेतसङ्घैः
जलं दिवं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रमिमाणं जगच्च
हुताशवायुप्रतिमं सुरेशं नालं द्रष्टुं भिन्नवृत्ता नरा वै
ये चानृता नास्तिकाः पापशीला ब्रह्मद्विषो वाऽप्यमृतस्य योनिम्
पश्यन्त्येनं ब्राह्मणास्साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः
तन्निष्ठात्मा तपसा देवमीड्यं तद्भक्त्या वै विश्वरूपं ददर्श
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैस्संहृष्टात्मा मुमुदे वासुदेवः
दिव्यमालापरिक्षिप्तं तेजसां परमं निधिम्
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम्
वरदं सह पार्वत्या प्रियया दयितं प्रियम्
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्
अजमीशानमव्यक्तं कारणात्मानमव्ययम्
स्वजानुभ्यां महीं गत्वा कृत्वा शिरसिचाञ्जलिम्
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान्
नारायणः-
त्वत्सम्भूता भूतकृतो वरेण्य गोप्तारो ये भुवनस्यास्य गोपाः
आविश्येमां धरणीं ये ह्यरक्षन्पुरा पुराणीं तव देव सृष्टिम्
सुरासुरा यक्षरक्षःपिशाचा नागास्सुपर्णानथ गन्धर्वसिद्धैः
पृथग्विधा भूतसङ्घांश्च विश्वे त्वत्सम्भूता ये मनो मोहयन्ते
ऐन्द्रं याम्यं वारुणं वैश्रवण्यं मैत्रं त्वाष्ट्रं कर्म सौम्यं च रौद्रम्
रूपं ज्योतिश्शब्द आकाशवायू दिव्यस्पर्शं सलिलं गन्ध उर्वी
कालो धर्मो ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूतास्स्थास्नु चरिष्णु चेदम्
अद्भ्यिर्लोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं सङ्क्षये यान्ति भूयः
एवं विद्वान्प्रभवं चाप्ययं च त्वसम्भूतं तव सायुज्यमेति
दिव्यामृतौ मानसौ द्वौ सुपर्णाववाक्शाखः पिप्पलस्सप्त गोपाः
वाचश्चार्था देवता लोकपाला लोकानन्ये ये पुरा धारयन्ति
गता हि तेभ्यः परमं तत्परं च त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम्
त्वमात्मनाऽऽत्मानमनन्याभवं विद्वानेवं गच्छति ब्रह्म शुक्रम्
भूतं भव्यं भविता चाप्रधृष्यं त्वत्सम्भूतास्सप्त चेमे हि लोकाः
भक्तं च मां भजमानं भजस्व प्रीत्या मां वै लोकपितामहेश
अस्तौषं त्वां तव सम्मानमिच्छन्विचिन्वन्वै सवृषं देवमीड्यम्
सुदुर्लभान्देहि परान्ममेष्टानभिष्टुतो यानकार्षीिह त्वम्
व्यासः-
तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत्
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः
श्रीरुद्रः-
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु
अप्रमेयबलात्मा च नारायण भविष्यसि
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः
न पिशाचा न गन्धर्वा न नरा न च राक्षसाः
न सुपर्णास्तथा नागा न विश्वे विश्वयोनयः
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति
न शस्त्रेण न वज्रेण नाग्निना न च वारिणा
नार्द्रेण न च शुष्केण चरेण स्थावरेण च
न हस्तेन न पादेन न काष्ठेन न लोष्टुना
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन
अपि चेत्समरं प्राप्तो भविष्यसि ममाधिकः
व्यासः-
एवमादिवराँल्लब्ध्वा प्रसादादथ शूलिनः
स एष देवश्चरति मायया मोहयञ्जगत्
तस्यैव तपसा जातो नरो नाम महामुनिः
तुल्यस्तेनैव देवेन तं जानीह्यर्जुनं सदा
तावेतौ पूर्वदेवानां परमोपचितावृषी
लोकयात्राविधानार्थं दानवानां वधाय च
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे
तथैव कर्मणस्तात तपसो महतोऽपि च
तेजोवाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते
स भवान्ज्ञानवान्प्राज्ञो ज्ञात्वा भवमयं जगत्
कुरु कर्म त्वमात्मानं नियमैस्तत्प्रियेप्सया
शुभ्रमौर्वं नवं कृत्वा महापुरुषविग्रहम्
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत्
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान्
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः
सर्वरूपं भवं ज्ञात्वा लिङ्गेऽर्चयति तं प्रभुम्
आत्मयोगात्तमीशानं शास्त्रयोगाच्च शाश्वतम्
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः
प्रार्थयन्ते परं लोके स्थानमेव च शाश्वतम्
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम्
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः
सञ्जयः-
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः
नमश्चकार कृष्णाय बहुमेने च केशवम्
हष्टरोमा च वश्यात्मा नमस्कृत्य महर्षये
वरूथिनीमथाविश्य सोऽपवहारमकारयत्
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते
कौरवाणां च दीनानां द्रोणे युधि निपातिते
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः