सञ्जयः-
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः
न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया
ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च
एक एव च बीभत्सुस्सोमकावयवैस्सह
मात्स्यैरन्यैश्च सन्धाय कौरवान्सन्न्यवर्तत
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्
अर्जुनः-
या शक्तिर्यच्च ते ज्ञानं यद्वीर्यं यच्च पौरुषम्
धार्तराष्ट्रेषु या प्रीतिर्प्रद्वेषोऽस्मासु यश्च ते
यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय
एष द्रोणस्य हन्ता ते दर्पं छेत्स्यति पार्षतः
कालानलसमप्रख्यं द्विषतामन्तकं युधि
समासादय पाञ्चाल्यं मां चापि सहकेशवम्
धृतराष्ट्रः-
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः
अभूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् |
अथ कस्मात्स कौन्तेयस्सखायं क्रूरमुक्तवान्
सञ्जयः-
युवराजे हते राजन्वृद्धक्षत्रे च पौरवे
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो
अभूतपूर्वो बीभत्सोरतिमन्युरजायत
तस्मादनर्हमशिवमप्रियं द्रौणिमुक्तवान्
मान्यमाचार्यतनयं क्रूरं कापुरुषं यथा
एवमुक्तश्श्वसन्क्रोधान्महेष्वासोऽसमो नृषु
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशां पते
संयत्तो द्वैरथे स्थित्वा वार्युपस्पृश्य वीर्यवान्
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम्
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा
ततस्तुमुलमाकाशे विनेदुरभिसङ्गताः
ववुश्च परुषा वाता सूर्यो नापि तताप च
क्रव्यादाश्चापि चाक्रन्दन्दिक्षु सर्वासु भारत
ववर्ष रुधिरं चेन्द्रो विनेदुस्तोयदाऽम्बरे
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः
परमव्यथितात्मानो न शान्तिमुपलेभिरे
भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम्
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम्
अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा
निश्श्वसन्तस्समुत्पेतुस्तेजोराशिं मुमुक्षवः
जलजानि च सत्त्वानि दह्यमानानि भारत
न शान्तिमुपजग्मुश्च तप्यमाने जलाशये
दिग्भ्यः प्रदिग्भ्यः खाद्भूमेर्दिवश्च शरवृष्टयः
उच्चावचाश्च सम्पेतुर्गरुडानिलरंहसः
तैश्शरैर्द्रोणपुत्रस्य वज्रवेगैस्समाहताः
प्रदग्धाश्शत्रवाः पेतुरग्निदग्धा इव द्रुमाः
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः
रवन्तो भैरवं नादं जलदोपमनिस्वनाः
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः
भ्रेमुस्तत्र यथाऽरण्ये नागा दावाग्निसंवृताः
द्रुमाणां शिखराणीव दावदग्धानि मारिष
अश्वबृन्दान्यदृश्यन्त रथवृन्दानि चाभि भो
अापतन्ति नरौघाश्च तत्र तत्र सहस्रशः
तत्सैन्यं भृशसंविग्नं ददाह युधि भारत
युगान्ते सर्वभूतानि संवर्तक इवानलः
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे
ततस्तूर्यनिनादोऽभून्नानावादित्रमिश्रितः
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः
तमसा संवृते लोके नादृश्यन्त महाहवे
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह
प्रववौ चानिलश्शीतो दिशश्च विमला भवन्
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं मृधे
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ
सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ
सपताकध्वजवरस्सानुकर्षवरायुधः
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः
ततः किलकिलाशब्दश्शङ्खभेरीविमिश्रितः
पाण्डवानां प्रहृष्टानां क्षणेन समजायत
हताविति च तत्रासीत्सेनयोरुभयोर्मतिः
तरसाऽभ्यधिकौ दृष्ट्वा सहितौ केशवार्जुनौ
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ
दृष्ट्वा च प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन्
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिस्सुदुःखितः
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः
निश्श्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा