सञ्जयः-
भीमसेने समाकीर्णमस्त्रं दृष्ट्वा धनञ्जयः
तेजसः प्रतिघातार्थं वारुणेन समावृणोत्
नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम्
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः
यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति
समाजग्मुस्तथा बाणा भीमसेनरथं प्रति
स हि भीमो रथश्चास्य हयास्सूतश्च मारिष
संवृता द्रोणपुत्रेण पावकान्तर्गता इव
यथा दग्ध्वा जगत्सर्वं समये सचराचरम्
गच्छेदग्निर्विभोरास्यं तथाऽस्त्रं भीममावृणोत्
सूर्यमग्निः प्रविष्टस्स्याद्यथा चाग्निं दिवाकरः
तथा प्रविष्टं तत्तेजो न प्राज्ञायत पाण्डवः
तदस्त्रं भीमहुङ्कारादपयाति पुनः पुनः
पुनः पुनस्तमायाति हुङ्कारात्तं विमुञ्चति
ततो देवास्सगन्धर्वा भीमं दृष्ट्वा सुविस्मिताः
विकीर्णमस्त्रं तद्दृष्ट्वा भीमसेनरथं प्रति
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे
सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम्
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथनान्
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम्
विगाह्य तौ सुबलिनौ माययाऽऽविशतां तदा
न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोऽस्त्रजोऽनलः
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः
ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात्
आकृष्यमाणः कौन्तेयो नदत्येव महारवम्
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम्
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन
वार्यमाणोऽपि कौन्तेय युद्धात्तवं निवर्तसे
यदि युद्धेन जेयास्स्युरिमे कौरवनन्दनाः
वयमप्यत्र युध्येम तथैवेमे नरर्षभाः
अवतीर्णा रथेभ्यश्च सर्व एव स्म तावकाः
तथा त्वमपि कौन्तेय रथात्तूर्णमपक्रम
एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमपातयत्
निश्श्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्
यदाऽपकृष्टस्स रथान्न्यासितश्चायुधं युधि
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम्
तस्मिन्प्रशान्ते विधिना तेन तेजसि दुस्सहे
बभूवुर्विमलास्सर्वा दिशो विदिश एव च
प्रववुश्च शिवा वाताश्शान्ताश्च मृगपक्षिणः
वाहनानि प्रहृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये
व्यपेते तु ततो घोरे तस्मिंस्तमसि दारणे
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः
हतशेषं बलं तत्तु पाण्डवानामतिष्ठत
अस्त्रं व्युपरमाद्धृष्टं तव पुत्रजिघांसया
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्
दुर्योधनः-
अश्वत्थामन्पुनश्शीघ्रमेतदस्त्रं प्रयोजय
अवस्थिता हि पाञ्चालाः पुनरेते जयैषिणः
सञ्जयः-
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष
सुदीनमभिनिश्श्वस्य राजानमिदमब्रवीत्
अश्वत्थामा-
नैतदावर्तते राजन्नस्त्रं द्विर्नोपश्यते
आवर्तयन्हि दह्येत प्रयोक्तैव न संशयः
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान्
अस्य तु ह्येष वै दाता मानुषेषु न विद्यते
परावरज्ञो लोकानां न तदस्ति न वेत्ति यत्
तदेतदस्त्रं प्रशमं यातं कृष्णस्य मन्त्रितैः
अन्यथा विहितस्सङ्ख्ये वधश्शस्त्रोर्जनाधिप
पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः
निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः
दुर्योधनः-
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर
त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा
जह्येतान्सुमहावीर्य शात्रवान्युद्धकोविद
धृतराष्ट्रः-
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समुपस्थितान्
नारायणास्त्रनिर्मुक्तान्विचरन्तो ह्यभीतवत्
सञ्जयः-
जानन्पितुस्स निधनं सिंहलाङ्गूलकेतनः
सङ्क्रुद्धो भयमुत्सृज्य अभिदुद्राव पार्षतम्
तमार्छत्पञ्चविंशत्या क्षुद्रकाणां नरर्षभ
तच्चाशु भुजवेगेन विचकर्त शरासनम्
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम्
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्
सारथिं चास्य विव्याध स्वर्णपुङ्खैश्शिलाशितैः
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैश्शरैः
विद्ध्वा विद्ध्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम्
आददत्सर्वलोकस्य प्राणानिव महारणे
पुनश्च पार्षतो राजन्कृतास्त्रः कृतनिश्रमः
द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम्
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि
अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः
तं द्रौणिस्समरे वीरं छादयामास पत्रिभिः
विव्याध चैनं दशभिर्पितुर्वधमनुस्मरन्
द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैस्समार्पयत्
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे
तस्य चानुचरान्सर्वान्द्रौणिर्व्यायच्छदाशुगैः
ततः प्रदुद्रुवे सैन्यं पाञ्चालानां विशां पते
सम्भ्रान्तमार्तरूपं च न परस्परमवैक्षत
दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम्
शैनेयश्चोदयत्तूर्णं रथं द्रौणिरथं प्रति
अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत्
विंशत्या पुनराहत्य नानारूपैरमर्षणम्
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान्
सोऽतिविद्धो महेष्वासो नानारूपैरमर्षणः
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत्
अश्वत्थामा-
शैनेयाभ्युपपत्तिं ते जानाम्याचार्यघातिनि
न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च
स्वयं शपेयं शैनेय सत्येन तपसा तथा
अहत्वा सर्वपाञ्चालान्यदि शान्तिममवाप्नुयाम्
यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम्
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान्
सञ्जयः-
एवमुक्त्वाऽर्करम्याभं सुपर्वाणं शरोत्तमम्
व्यसृजत्सात्यके द्रौणिर्वज्रं वृत्रे यथा हरिः
स तं निर्भिद्य तेनास्तस्सायकस्सशरावरम्
विवेश वसुधां भित्त्वा श्वसन्निव महोरगः
स भिन्नकवचश्शूरस्तोत्रार्दित इव द्विपः
विमुच्य सशरं चापं भूरिव्रणपरिश्रमः
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत्
सूतेनापहृतो दूरं द्रोणपुत्राद्रथान्तरम्
अथान्येन सुपुङ्खेन शरेण नतपर्वणा
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः
पूर्वमेवानुविद्धश्च भृशं पश्चाच्च पीडितः
ससादा युधि पाञ्चाल्यस् सोऽपाश्रयत वै ध्वजम्
तं नागमिव सिंहेन राजन्कुञ्जरमर्दिना
जवेनाभ्यद्रवन्योधाश्शूराः पाञ्चालपाण्डवाः
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः
युवराजश्च चेदीनां मालवश्च सुदर्शनः
एते हाहाकृतास्सर्वे प्रगृहीतशरासनाः
वीरं द्रौणायनिं शूरं सर्वतः पर्यवारयन्
ते विंशतिपदे यत्ता गुरुपुत्रममर्षिणम्
पञ्चभिः पञ्चभिर्बाणैराजघ्नुस्सर्वतस्समम्
आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरान्
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान्
सप्तभिश्चापि तं बाणैः पौरवं द्रौणिरार्दयत्
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम्
ततस्ते विव्यधुस्सर्वे द्रौणिं राजन्महारथाः
युगपच्च पृथक्चैव रुक्मपुङ्खैश्शिलाशितैः
युवराजं तु विंशत्या पुनर्विव्याध पत्रिभिः
पार्थश्च पुनरष्टाभिस्तथा सर्वांस्त्रिभिस्त्रिभिः
ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम्
भीमं दशार्धैर्युवारजं चतुर्भिर्द्वाभ्यां कार्मुकं च ध्वजं च
सूतं विद्ध्वा भीमसेनस्य षड्भिर्द्वाभ्यां विद्ध्वा कार्मुकं च ध्वजं च
पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद
तस्यास्यतस्तान्निशितान्पीतधारान्द्रौणेश्शरान्पृष्ठतश्चाग्रतश्च
सर्वा दिशः प्रदिशो वै वियच्च च्छन्ना बाणैरभवन्घोररूपैः
अथान्यतस्तस्य रथे स्थितस्य सुदर्शनस्येन्द्रकेतुप्रकाशौ
भुजौ शिरश्चेन्द्रसमानकल्पं त्रिभिश्शरैर्युगपत्सञ्चकर्त
स पौरवं रथशक्त्या निहत्य रथं तथा तिलशश्चूर्णयित्वा
छित्त्वाऽस्य बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त
युवानमिन्दीवरदामवर्णं चेदिप्रभुं युवराजं प्रसह्य
बाणैस्त्वरावाञ्ज्वलनाग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम्
तं निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः
दध्मौ प्रमुदितश्शङ्खं बृहन्तमपराजितः
ततस्सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः
धृष्टद्युम्नरथं त्यक्त्वा भीतास्सम्प्राद्रवन्दिशः
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान्
अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम्
ते वध्यमानास्समरे द्रोणपुत्रेण क्षत्रियाः
द्रोणपुत्रभयाद्राजन्दिक्षु सर्वासु भेजिरे