धृतराष्ट्रः-
साङ्गो वेदो यथान्यायं येनाधीता महात्मना
यस्मिन्साक्षाद्धनुर्वेदो श्रीनिकेते प्रतिष्ठितः
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये यथा
नीचं कर्म कृतं तेन क्षुद्रेण गुरुघातिना
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा
नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षिताम्
पार्थास्सर्वे च राजानः पृथिव्यां ये धनुर्धराः
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय
सञ्जयः-
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः
तूष्णीं बभूवू राजानस्सर्व एव विशां पते
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम्
सबाष्पमतिनिश्श्वस्य धिग्धिगिति चाब्रवीत्
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे
आसन्सुव्रीडिता राजन्सात्यकिस्त्वब्रवीदिदम्
सात्यकिः-
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम्
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम्
कथं च शतधा जिह्वा न ते मूर्धा च शीर्यते
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे
वध्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः
यत्कर्म कलुषं कृत्वा श्लाघसे राजसंसदि
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्
वध्यस्त्वं न त्वयाऽर्थोऽस्ति मुहूर्तमपि जीवता
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधम
निगृह्य केशेषु वधं गुरोर्धर्मात्मनस्सतः
सप्तावरे तथा पूर्वे बान्धवास्ते निमज्जिताः
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम्
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभ
तथाऽन्तो विहितस्तेन स्वयमेव महात्मना
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः
नान्यः पाञ्चालपुत्रेभ्यो लोके विद्येत पापकृत्
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः
पाञ्चालाश्चलिता धर्मात्क्षत्रधर्मगुरुद्रुहः
त्वां प्राप्य सहसोदर्यं धिक्कृतास्सर्वसाधुभिः
पुनश्चेदीदृशीर्वाचो मत्समीपे वदिष्यसि
शिरस्ते पोथयिष्यामि गदया वज्रकल्पया
सञ्जयः-
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्
संरब्धं सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव
धृष्टद्युम्नः-
श्रूयते श्रूयते चेति क्षम्यते चापि माधव
सर्वोऽनार्यश्शुभं साधुं पुरुषं क्षेप्तुमिच्छति
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः
आकेशाग्रान्नखाच्चैव वक्तव्यो वक्तुमिच्छसि
वरं हि ते मृतिः पाप न च ते वृत्तमीदृशम्
श्रोतुं वक्तव्यतामूलं नीचा वक्ष्यन्ति मानवाः
परान्क्षिपन्ति दोषेण स्वेषु दोषेष्वदृष्टयः
यस्स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया
वार्यमाणेन निहतस्ततः पापतरं नु किम्
प्रेषमाणो मया द्रोणो दिव्यान्यस्त्राणि संयुगे
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम्
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत्
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान्
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः
यदा तदा हतश्शूरस्सौमदत्तिः प्रतापवान्
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्
किरञ्छरसहस्राणि तत्र तत्र प्रयाम्यहम्
स त्वमेवंविधं कृत्वा कर्म चण्डालवत्स्वयम्
वक्तुमिच्छसि वक्तव्यः कस्मात्सुपरुषाण्यथ
कर्ता त्वं कर्मणोऽग्रस्य नाहं वृष्णिकुलाधम
कर्मणां च त्वमावासः पापानां मा पुनर्वद
जोषमास्स्व न मा भूयो वक्तुमर्हस्त्वमुत्तरम्
अधरोत्तरमेतद्धि यन्मां त्वं वक्तुमिच्छसि
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम्
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम्
न चैव मूर्ख धर्मेण केवलेनैव शक्यते
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम्
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः
द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके
प्रव्राजिता वनं सर्वे पाण्डवास्सह कृष्णया
सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश
अधर्मेणापकृष्टश्च मद्रराजः परैरितः
अतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः
एवं परैराचरितं पाण्डवेयैश्च संयुगे
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरथ सात्वत
दुर्ज्ञेयः परमो धर्मस्तथाऽधर्मश्च दुर्विदः
युध्यस्व कौरवैस्सार्धं मा गाः पितृनिवेशनम्
सञ्जयः-
एवमादीनि वाक्यानि क्रूराणि परुषाणि च
श्रावितस्सात्यकिश्श्रीमानाकम्पित इवाभवत्
तच्छ्रुत्वा क्रोधताम्राक्षस्सात्यकिस्त्वाददे गदाम्
विनिश्श्वस्य यथा सर्पः प्रणिधाय रथे धनुः
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत्
सात्यकिः-
न त्वा वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम्
सञ्जयः-
तमापतन्तं सहसा महाबलममर्षणम्
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकालान्तकोपमम्
चोदितो वासुदेवेन भीमसेनो महाबलः
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत्
द्रवमाणं तथा क्रुद्धः पाण्डवं सात्वतो बली
प्रस्पन्दमानमादाय जगाम बलिनं बलात्
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः
निगृहीतः पदे षष्ठे बलेन बलिनां वरः
अवरुध्य बलात्तं तु ह्रियमाणं बलीयसा
उवाच श्लक्ष्णया वाचा सहदेवो विशां पते
सहदेवः-
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते
परमन्धकवृष्णिभ्यः पाञ्चलेभ्यश्च माधव
तथैवान्धकवृष्णीनां तव चैव विशेषतः
कृष्णस्य च तथाऽस्मभ्यं मित्रमन्यन्न विद्यते
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचित्य गाम्
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः
स भवानीदृशं मित्रमस्यैष भवतस्तथा
भवन्तश्च यथाऽस्माकं भवतां च तथा वयम्
स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन्
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव
पार्षतस्य क्षम त्वं वै क्षमतां चैव पार्षतः।
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत्
सञ्जयः-
प्रशाम्यमाने शैनेये सहदेवेन मारिष
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत्
धृष्टद्युम्नः-
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम्
आसादयतु मामेष धराधरमिवानिलः
यावदस्य शितैर्बाणैस्संरम्भं विनयाम्यहम्
युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे
किं नु शक्यं मया कर्तुं यत्कार्यमिदमुद्यतम्
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः
अथवा फल्गुनस्सर्वान्वारयिष्यति संयुगे
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे
उत्सृजैनमहं वैनमेष मां वा हनिष्यति
सञ्जयः-
शृण्वन्पाञ्चालवाक्यानि सात्यकिस्सर्पवच्छ्वसन्
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बलात्
तौ तूर्णं वासुदेवश्च धर्मराजश्च मारिष
यत्नेन महता वीरौ वारयामासतुस्ततः
निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ
युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः