धृतराष्ट्रः-
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्
मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्
येन रामादवाप्यैव धनुर्वेदं महात्मना
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुणकाङ्क्षिणा
एकमेव हि लोकेऽस्मिन्नात्मतो गुणवत्तरम्
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्
तानि पुत्राय वा दद्युश्शिष्यायानुगताय वा
स शिष्यः प्राप्य तत्सर्वं सविशेषं च सञ्जय
शूरश्शारद्वतीपुत्रस्सङ्ख्ये द्रोणादनन्तरः
रामस्यानुसमश्शस्त्रे पुरन्दरसमो युधि
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ
महीधरसमो धृत्या तेजसाऽग्निसमो युवा
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः
स रथप्रवरो लोके जितधन्वा जितक्लमः
शीघ्रोऽनिल इवाक्रन्दे वीरः क्रुद्ध इवान्तकः
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता
मेघस्तनितनिर्घोषं कम्पते भयविक्लवा
यो न व्यथति सङ्ग्रामे वीरस्सत्यपराक्रमः
वेदस्नातो व्रतस्नातो धनुर्वेदपरङ्गतः
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्
धृष्टद्युम्नस्य यो मृत्युस्सृष्टस्तेन महात्मना
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्
तं नृशंसेन भावेन क्रूरेणादीर्घदर्शिना
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्
सञ्जयः-
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ
तस्य क्रुद्धस्य राजेन्द्र वपुरन्यत्प्रकाशते
अन्तकस्येव भूतानि दिधक्षोः कालपर्यये
तोयपुर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः
उवाच कोपान्निश्श्वस्य दुर्योधनमिदं वचः
अश्वत्थामा-
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः
धर्मध्वजवता पापं कृतं तद्विदितं मम
अनार्यं च नृशंसं च धर्मपुत्रेण मे श्रुतम्
युद्धेष्वभिप्रवृत्तानां ध्रुवौ जयपराजयौ
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते
न्यायवृत्तो वधो यस्य मतो मे युध्यतो भवेत्
न स दुःखाय भवति तथा दृष्टो हि स द्विजैः
गतस्स वीरलोकाय पिता मम न संशयः
न शोच्यः पुरुषव्याघ्रस्तदा स निधनं गतः
यत्तु धर्मप्रवृतस्सन्केशग्रहणमाप्तवान्
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति
कामात्क्रोधादवज्ञानाद्वर्षाद्बाल्येन वा पुनः
विधर्मिकाणि कुर्वन्ति तथा परिभवन्ति च
तदिदं पार्षतेनेह महदधार्मिकं कृतम्
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना
तस्यैवाद्य वधः क्षुद्रो धृष्टद्युम्नस्य दारुणम्
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्
यश्चासौ छद्मनाऽऽचार्यं शस्त्रं सन्न्यासयद
यदर्थं पुरुषव्याघ्राः पुत्रानिच्छन्ति मानवाः
प्रेत्य चेह च सम्प्राप्तात्त्रायन्ते महतो भयात्
पित्रा तु मम साऽवस्था प्राप्ता निर्बन्धुना यथा
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम्
यन्मां द्रोणस्सुतं प्राप्य केशग्रहमवाप्तवान्
स तथाऽहं करिष्यामि यथा भरतसत्तम
परलोकगतस्यापि भविष्याम्यनृणः पितुः
आर्येण हि न वक्तव्या कदाचित्स्तुतिरात्मनः
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्यैव पौरुषम्
अद्य पश्यन्तु मे वीर्यं पाण्डवास्सहकेशवाः
मृद्नतस्सर्वसैन्यानि युगान्तमिव कुर्वतः
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वाऽस्त्रवित्तमः
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः
भृशाश्वतनया ह्यद्य मत्प्रयुक्ता महाहवे
दर्शयन्तोत्मना रूपं प्रमथिष्यन्ति पाण्डवान्
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः
भविष्यन्ति महाराज मच्छरैर्विदिशस्तथा
विसृजञ्छरजालानि सर्वतो भैरवस्वनान्
शत्रून्निपातयिष्यामि महावात इव द्रुमान्
न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः
न भीमसेनो न यमौ न च राजा युधिष्ठिरः
न पार्षतो दुरात्माऽसौ न शिखण्डी न च सात्यकिः
यदिदं मयि कौरव्य सकलं सनिवर्तनम्
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्
उपहारस्तदा दत्तो ब्रह्मरूप उपस्थिते
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ
वव्रे पिता मे परममस्त्रं नारायणं ततः
श्रीभगवान्नारायणः-
अथैनमब्रवीद्राजन्भगवान्देवसत्तमः
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित्
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते
न चैतच्छक्यते जेतुं को न वध्येत वै प्रभो
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत्
वधस्सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम्
प्रयाचनं च शत्रूणां गमनं शरणस्य च
एते प्रशमने योगा ममास्त्रस्य परन्तप
सर्वथा पीडितो हिंस्यादवध्यान्पीडयन्रणे
अश्वत्थामा-
तं जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः
श्रीभगवान्नारायणः-
त्वं धरिष्यसि सर्वाणि शस्त्रवर्षाण्यनेकशः
अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि
अश्वत्थामा-
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः
एवं नारायणास्त्रं तत्सम्प्राप्तं मम बन्धुना
तेनाहं पाण्डवांश्चैव पाञ्चालांश्चैव केकयान्
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्
यथा यथाऽहमिच्छेयं तथा भूत्वा शरा मम
निपतेयुस्सपत्नेषु त्वहतेष्वपि भारत
यथेष्टमिषुवर्षेण प्रवर्षिष्ये रथे स्थितः
अयोमुखैश्च विहगैस्तापयिष्ये महारथान्
परश्वथांश्च निशितानुत्स्रक्ष्येऽहमसंशयम्
सोऽहं नारायणास्त्रेण महता शत्रुतापिना
शत्रून्विध्वंसयित्वा च कदर्थीकृत्य पाण्डवान्
मित्रब्रह्मगुरुद्वेषी जाल्मकस्सुविगर्हितः
पाञ्चालापशदश्चाद्य न मे जीवन्विमोक्ष्यते
सञ्जयः-
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी
ततस्सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः
भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः
ततो ननाद वसुधा खुरनेमिप्रपीडिता
स शब्दस्तुमुलो जज्ञे पृथिवीं चाप्यनादयत्
तं शब्दं पाण्डवाश्श्रुत्वा पर्जन्यनिनदोपमम्
समेत्य रथिनां श्रेष्ठास्सहिताश्चाभ्यमन्त्रयन्
तथोक्त्वा द्रोणपुत्रोऽपि तत्रोपस्पृश्य भारत
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा