सञ्जयः-
ततो द्रोणे हते राजन्कुरवश्शस्त्रविक्षिताः
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः
आर्तस्वरेण महता पुत्रं ते पर्यवारयन्
विषण्णवदना दीना वीक्षमाणा दिशो दश
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव
अशक्नुवन्नवस्थातुमपायात्तनयस्तव
क्षुत्पिपासापरिश्रान्ता योधास्ते तव भारत
आदित्येन च सन्तप्ता भृशं विमनसोऽभवन्
भास्करस्येव पतनं समुद्रस्येव शोषणम्
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्
अप्रेक्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम्
त्रस्तरूपधरा राजन्कौरवाः प्राद्रवन्भयात्
गान्धारराजश्शकुनिस्त्रस्स्तब्धश्च सैनिकैः
हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम्
परिगृह्य महाबाहुस्सूतपुत्रोऽपयाद्भयात्
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम्
मद्राणामीश्वरश्शल्यो वीक्षमाणोऽपयाद्भयात्
हतप्रवीरैर्भूयिष्ठैर्द्विपैर्बहुपदातिभिः
वृतश्शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन्
भोजनीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम्
दर्शनीयो युवा चैव शौर्येण कृतलक्षणः
दुश्शासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः
दुर्योधनो महाराज प्राद्रवद्राजभिस्सह
गजान्रथान्समारुह्य व्युदस्य च हयाञ्जनाः
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ
तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे
धुर्यान् प्रमुच्य तु रथाद्धतसूतात्स्वलङ्कृतान्
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन्
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्
तस्यासीत्सुमहद्युद्धं शिखण्डिप्रमुखैर्गणैः
प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः
हत्वा बहुविधास्सेनाः पाण्डवीर्युद्धदुर्मदः
कथञ्चित्समरान्मुक्तो मत्तद्विरदविक्रमः
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम्
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्
अश्वत्थामा-
किमियं द्रवते सेना त्रस्तरूपेव भारत
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे
त्वं चापि न यथा पूर्वं प्रकृतिस्थो नराधिप
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः
सर्वेष्वपि हि युद्धेषु नैव सेनाऽद्रवत्तव
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत
कस्मिन्निदं हते राजन्रथसिंहे बलं तव
एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव
सञ्जयः-
तत्तु दुर्योधनश्श्रुत्वा द्रोणपुत्रस्य भाषितम्
घोरमप्रियमाख्यातुं नाशक्नोत्पार्थिवर्षभः
भिन्ना नौरिव ते पुत्रो मग्नश्शोकमहार्णवे
अप्लवे प्लवमन्विच्छन्यथाऽगाधे नरोम्भसि
दु्रयोधनः-
बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्
ततश्शारद्वतं राजा सव्रीडमिदमब्रवीत्
शंसात्रभवते सर्वं यथा सैन्यमभिद्रुतम्
सञ्जयः-
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः
कृपः-
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम्
प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलम्
ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः
अन्योन्यमभिगर्जन्तश्शस्त्रैर्देहानपातयन्
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः
व्यहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः
पाण्डवाः केकया मात्स्याः पाञ्चालाश्च विशेषतः
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः
सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम्
द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे
आकर्णपलितश्यामो वयसाऽशीतिकात्परः
रणे पर्यचरद्द्रोणो वृद्धष्षोडशवर्षवत्
कृष्यमाणेषु सैन्येषु वध्यमानेषु राजसु
अमर्षवशमापन्नाः पाञ्चाला विमुखा भवन्
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित्
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान्
मध्यं गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताऽभवत्
ते दह्यमाना द्रोणेन सूर्येणेव विराजता
दग्धवीर्या हतोत्साहा बभूवुर्गतचेतसः
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्
श्रीभगवान्-
नैष जातु नरैश्शक्यो जेतुं शस्त्रभृतां वरः
वृत्रहन्त्राऽपि वा सङ्ख्ये रथयूथपयूथपः
यूयं धर्मं समुत्सृज्य जयं रक्षत पाण्डवाः
जये हि यतमानानां श्रीर्धर्मश्च प्रवर्तते
यथा वस्संयुगे सर्वान्न हन्याद्रुक्मवाहनः
अश्वत्थाम्नि हते नैष युध्येतेति मतिर्मम
तं हतं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः
कृपः-
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव
अश्वत्थामा हत इति तच्चाबुध्यत ते पिता
स शङ्कमानस्तन्मिथ्या धर्मराजं स पृच्छति
हतं वाऽप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः
तमतथ्यभये मग्नो जये सक्तश्च पाण्डवः
अश्वत्थामानमायोधे हतं दृष्ट्वा महागजम्
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः
उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह
यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि
पुत्रस्ते दयितो नित्यं सोश्वत्थामा निपातितः
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम्
नियम्य सर्वाण्यस्त्राणि नायुध्यत यथा पुरा
तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम्
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत्
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्रायमुपाविशत्
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन्
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत्
उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः
जीवन्तमानयाचार्यं मा वधीरिति धर्मवित्
तथा निवार्यमाणेन कौरवैरर्जुनेन च
हत एव नृशंसेन पिता तव नरर्षभ
ततस्सेना दिशस्सर्वाः प्राद्रवन्त भयातुराः
वयं चापि निरुत्साहा हते पितरि तेऽनघ
सञ्जयः-
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे
क्रोधमाहारयत्तीव्रं दण्डाहत इवोरगः