सञ्जयः-
ततश्चतुर्दिशं सैन्यं द्रुपदस्याभिसंवृतः
निर्दहन्क्षत्रियव्रातं द्रोणः पर्यचरद्रणे
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः
दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैश्शितैः
सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन्
क्षत्रियाणामभावाय ब्राह्ममस्त्रमुपाश्रितः
पाञ्चाल्यं विरथं भूमौ हतसर्वायुधं वशी
अविषह्यं महात्मानं युयुधानस्समभ्ययात्
ततस्स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात्
सात्यकिः-
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान्
त्वरस्व प्राग्वधायैव त्वयि भारस्समाहितः
सञ्जयः-
स तथोक्तो महाबाहुस्सर्वभारसहं नवम्
परिमृज्याददे क्षिप्रमायुधप्रवरं दृढम्
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे
विवारयिषुराचार्यं शरवर्षैरवाकिरत्
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः
वसातींश्च शिबींश्चैव बाह्लीकान्कौरवानपि
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः
धृष्टद्युम्नस्तथा राजन्गभस्तिभिरिवांशुमान्
वभौ प्रच्छादयन्नाशाश्शरजालैस्समन्ततः
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः
मर्माण्यभ्यहनद्भूयस्स व्यथां परमामगात्
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्
भीमः-
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः
स्वकर्मभिरसन्तुष्टा न हि क्षत्रं क्षयं व्रजेत्
अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः
श्वपाकवन्म्लेच्छगणान्हत्वा प्राणान्पृथग्विधान्
भरन्ति हि सुतान्दारांस्तद्वदज्ञानमोहिताः
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेच्छया
एकपुत्रस्य चार्थे त्वं बहून्निघ्नञ्जनाधिपान्
स्वकर्मस्थान्विकर्मस्थो नैवापत्रपसे कथम्
यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि
स चासौ निहतश्शेते तव पुत्रस्सुमन्दधीः
धर्मराजस्य तद्वाक्यं नातिशङ्कितुमर्हसि
सञ्जयः-
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः
सन्न्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत
कर्णदुर्योधनौ राजंस्त्वरमाणः पराक्रमी
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च
द्रोणः-
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः
पाण्डवेभ्यश्शिवं वोस्तु शस्त्रमभ्युत्सृजाम्यहम्
सञ्जयः-
इति तत्र महाराज द्रोणो धीमान्पुनः पुनः
उत्सृज्य समरे शस्त्रं रथोपस्थे निवेश्य च
अभयं सर्वभूतेभ्यः प्रययौ योगवित्तदा
तस्य तच्छिद्रमाज्ञाय पद्भ्यामेव स पार्षतः
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्
प्रद्रुते त्वथ द्रोणाय धृष्टद्युम्ने महारथे
हाहाकृतानि भूतानि मानुषाणीतराणि च
द्रोणं विचेतसं दृष्ट्वा धृष्टद्युम्नवशं गतम्
हाहाकारं भृशं चक्रुरहो धिगिति चाबुवन्
द्रोणोऽपि शस्त्रमुत्सृज्य परमं शममास्थितः
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः
दिवमाक्रामदाचार्यस्सद्भिस्सह यथाक्रमम्
मूर्धानं तस्य निर्भिद्य ज्योती राजन्महात्मनः
जगाम परमं स्थानं देहं न्यस्य रथोत्तमे
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते
एकरूपमिवाभासीज्ज्योतिर्भिः पूरितं नभः
समपद्यत चोल्काभं द्रोणस्य निधने तदा
निमेषमात्रेण तदा ज्योतिरन्तरधीयत
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्
ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते
वयमेव तदा राजन्पञ्च मानुषयोनयः
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्
अहं धनञ्जयः पार्थः कृपश्शारद्वतो द्विजः
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः
अन्ये तु सर्वे नापश्यन्देवगुह्यमनुत्तमम्
महिमानं द्विजेन्द्रस्य योगयुक्तस्य गच्छतः
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः
आचार्यं योगमास्थाय ब्रह्मलोकगतं विभुम्
वितुन्नाङ्गं शरशतैः क्षरन्तं रुधिरं बहु
विकृष्य पार्षतः खड्गं क्रोधामर्षवशं गतः
दृश्यमानस्सर्वभूतैः केशपक्षे परामृशत्
तस्य मूर्धानमालम्ब्य गतसत्वस्य देहिनः
किञ्चिदब्रुवतः कायाच्छिरोस्य विचकर्त ह
हर्षेण महता युक्तो भारद्वाजे निपातिते
सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे
आकर्णपलितश्श्यामो वयसाऽशीतिको द्विजः
त्वत्कृते निधनं प्राप्तस्स तु षोडशवर्षवत्
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत्
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम्
स हि तेन परिक्षिप्तो रथाद्भूमिमरिन्दमः
लोहिताङ्ग इवादित्यो दुष्षहस्समपद्यत
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः
द्रोणस्तु योगमास्थाय नक्षत्रपथमाविशत्
अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप
ऋषेः प्रसादात्कृष्णस्य सत्यवत्यास्सुतस्य ह
विधूमामिव संयान्तीमुल्कां प्रज्वलितां प्रभो
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महामतिम्
हते द्रोणे निरुत्साहान् कुरून्पाण्डवसृञ्जयाः
अभ्यद्रवन्महावेगास्ततस्सैन्यं व्यदीर्यत
निराशा हतभूयिष्ठास्सङ्ग्रामे निशितैश्शरैः
तावका निहते द्रोणे गतसत्वा इवाभवन्
पराजयमवाप्याथ परत्र च महद्भयम्
उभयेनैव ते भीता व्यनिन्दन्मतिमात्मनः
अन्विच्छन्तश्शरीरं तु भारद्वाजस्य संयुगे
नान्वगच्छंस्तदा राजन्कबन्धायुतसङ्कुले
पतिते त्वथ संरब्धे सेनायां तत्र भारत
उदतिष्ठन्नुरुण्डानां सहस्राण्येकविंशतिः
शोणितेन परिक्लिन्ना रणभूमिश्च भारत
लोहितार्द्र इवादित्यो दुर्दर्शश्चाभवत्तदा
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः
बाणशब्दरवांश्चक्रुस्सिंहनादांश्च पुष्कलान्
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनः
भीमः-
भूयोऽहं त्वां परिष्वज्य परिवक्ष्यामि पार्षत
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे
सञ्जयः-
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः
पाण्डवास्तु जयं लब्धा तथैव च महद्यशः
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन्