सञ्जयः-
तं दृष्ट्वा परमोद्विग्नं शोकोत्तरमचेतसम्
पाञ्चालराजस्य सुतो धृष्टद्युम्नस्समाद्रवत्
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे
लब्धो द्रोणविनाशाय समिद्धेऽग्नौ परन्तपः
स धनुर्जैत्रमादाय घोरं जलदनिस्स्वनम्
दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान्
सन्दधे कार्मुके तस्मिञ्शरमाशीविषोपमम्
द्रोणं जिघांसुः पाञ्चाल्यो गतज्वालमिवानलम्
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे
द्योततो भास्करस्येव घनान्ते परिविष्यतः
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः
तमिषुं संहितं तेन भारद्वाजः प्रतापवान्
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम्
ततस्स यत्नमातिष्ठदाचार्यस्तस्य वारणे
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः
तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः
विविधानां च दिव्यानामस्त्राणामप्रसन्नताम्
उत्स्रष्टुकामश्शस्त्राणि ऋषिवाक्याभिचोदितः
तेजसा पूर्यमाणश्च युयुधे सोऽतिमानुषम्
अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत्
ततस्तं शरवर्षेण महता समवाकिरत्
व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः
शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः
ध्वजं धनुश्च निशितैस्सारथिं चाप्यपातयत्
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम्
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे
सोऽतिविद्धो महेष्वासस्सम्भ्रान्त इव संयुगे
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः
यच्चास्य बाणविकृतं धनूंषि च विशां पते
सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गं तथैव च
धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैश्शरैः
जीवितान्तकरैः क्रुद्धश्शिलाधौतैः परन्तपः
धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः
अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन्
ते मिश्रा बह्वशोभन्त वाजिनो वातरंहसः
पारावतसवर्णाश्च शोणाश्च भरतर्षभ
यथा सविद्युतो मेघा नदन्तो जलदागमे
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च
प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
उत्तमामापदं प्राप्य गदां वीरः परामृशत्
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः
निजघान शरैर्द्रोणः क्रुद्धस्सत्यपराक्रमः
तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः
विमलं खड्गमादाय शतचन्द्रं च भानुमत्
असंशयं तथाभूते पाञ्चाल्यस्साध्वमन्यत
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः
तस्याश्वान्रथशक्त्या स रथात्क्रुद्धः परामृशत्
सर्वानेकैकशो द्रोणो रक्ताशोणान्विसर्जयन्
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशां पते
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महाबलः
विरथस्स गृहीत्वाऽऽशु खड्गं खड्गभृतां वरः
द्रोणमभ्यद्रवद्राजन्वैनतेय इवोरगम्
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वधे
सोऽचरद्विविधान्मर्गान्प्रचारानेकविंशतिम्
भ्रान्तुमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं स्थितम्
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन्
सम्पातं समुदीर्णं च दर्शयामास पार्षतः
ततस्तु रथनीडं स समारुह्य रथेषया
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथाः
इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे
अतिष्ठद्युगमध्ये वै युगसन्नहनेषु च
शोणानां जघनार्धेषु तत्सैन्यान्यभ्यपूजयन्
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभत्
क्षिप्रं श्येनस्य चरतो यथैवामिषर्धिनः
तद्वदासीदभिरसरो द्रोणं प्रार्थयतो रणे
ततश्शरसहस्रेण शतचन्द्रमपातयत्
चर्म खड्गं च सम्बाधे धृष्टद्युम्नस्य स द्विजः
ते तु वैतस्तिका नाम बाणास्तस्यामितद्युतेः
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः
शारद्वतस्य पर्थस्य द्रौणेर्वैकर्तनस्य च
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः
अथास्येषुं समाधत्त दृढं परमसंशितम्
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम्
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्
व्यचरद्रथमार्गेषु सात्यकिस्सत्यविक्रमः
द्रोणकर्मान्तरगतं कृपस्यापि च सात्यकिम्
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति
दिव्यान्यस्त्राणि चैतेषां युधि निघ्नन्तमच्युतम्
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव
आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः
स नन्दयति मां भूयस्सात्यकिः परवीरहा
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्
अनुद्धतश्शिक्षितवान् रथे चरति सात्यकिः
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः
तमेते प्रत्यनन्दन्त सिद्धास्सैन्याश्च विस्मिताः
अजय्यं समरे दृष्ट्वा साधुसाध्विति सात्वतम्
योधाश्चोभयतस्सर्वे कर्मभिस्तमपूजयन्