सञ्जयः-
पाञ्चालानां रणे द्रोणश्चकर कदनं महत्
यथा शक्रो रणे क्रुद्धो दानवानां क्षयं पुरा
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि
अत्रसन्तो रणे द्रोणात्सत्त्ववन्तो महारथाः
युध्यमाना महाराज पाञ्चालास्सृञ्जयास्तथा
द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम्
तेषु तूत्साद्यमानेषु पाञ्चालेषु महात्मना
अभवद्भैरवो नादो वध्यतां शरशक्तिभिः
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना
उदीर्यमाणे द्रोणास्त्रे पाञ्चालान्भयमाविशत्
दृष्ट्वा च नरनागाश्वपत्तीनां विपुलं क्षयम्
पाण्डवेया महाराज नाशंसुर्विजयं तदा
पाण्डवेयाः
कच्चिद्द्रोणो न नस्सर्वान्क्षपयेत्परमास्त्रवित्
समिद्धश्शिशिरापाये दहन्कक्षमिवानलः
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम्
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्
सञ्जयः-
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान्
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्
श्रीभगवान्-
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन
धनुर्धरो द्विजश्रेष्ठो देवैरपि सवासवैः
न्यस्तशस्त्रस्तु सङ्ग्रामे शक्यो हन्तुं भवेत्तु सः
आश्रीयतां जये यत्नो धर्ममुत्सृज्य पाण्डवाः
यथा नस्संयुगे सर्वान्नहन्याद्रुक्मवाहनः
अश्वत्थाम्नि हते नैष युध्येतेति मतिर्मम
तं हतं संयुगे कश्चित्तस्मै शंसतु मानवः
सञ्जयः-
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः
ततो भीमो महाबाहुरनीके स्म महागजम्
जघान गदया राजन्नश्वत्थामानमित्युत
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्
कृत्वा मनसि तद्भीमो मिथ्या व्याहृतवांस्तु सः
भीमसेनवचश्श्रुत्वा द्रोणस्तत्परमाप्रियम्
मनसा सन्नकर्णोऽभूद्यथा सैकतमम्भसि
शङ्कमानस्तु तन्मिथ्या वीर्यज्ञस्स्वसुतस्य वै
हतस्स इति च श्रुत्वा नैव धैर्यादकम्पत
स लब्ध्वचेतनो द्रोणः क्षणेनैव समाश्वसत्
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः
स पार्षतमभिद्रुत्य जिघांसुं मृत्युमात्मनः
अवाकिरत्सहस्रेण तीव्राणां कङ्कपत्रिणाम्
तं विंशतिसहस्राणि पाञ्चालानां महारथाः
तथा चरन्तं सङ्ग्रामे सर्वतः पर्यवारयन्
ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परन्तपः
वधाय तेषां शूराणां पाञ्चालानाममर्षितः
ततो व्यरोचत द्रोणो न्यहनत्सर्वसोमकान्
शिरांस्यपातयच्चापि पाञ्चालानां महामृधे
तथैव परिघाकारान्बाहून्कनकभूषणान्
ते वध्यमानास्समरे भारद्वाजेन पार्थिवाः
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः
कुञ्जराणां च पततां हयौघानां च पर्थिव
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
हत्वा विंशतिसाहस्रं पाञ्चालानां रथव्रजान्
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्
वसुदानस्य भल्लेन शिरः कायादपाहरत्
पुनः पञ्चशतान्मात्स्यान्षट्सहस्रांश्च सृञ्जयान्
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्
ऋषयोऽभ्यागमंस्तत्र हव्यवाहपुरोगमाः
विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः
सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम्
ऋषयः-
अधर्मतः कृतं युद्धं समयो निधनस्य ते
न्यस्यायुधं रणे द्रोण समेह्यस्मानिह स्थितान्
नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि
वेदवेदाङ्गविदुषस्सत्यधर्मरतस्य ते
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते
न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे
ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि
यदेतदीदृशं विप्र कृतं कर्म न साधु तत्
न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः
सञ्जयः-
इति तेषां वचश्श्रुत्वा भीमसेनवचश्च तत्
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमना भवत्
स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्
अहतं वा हतं वाऽपि पप्रच्छ सुतमात्मनः
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन
तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्द्विजर्षभः
तस्मिंस्तस्य हि विश्वासो बाल्यात्प्रभृति पाण्डवे
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम्
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्
श्रीभगवान्-
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः
सत्यं ब्रवीमि योधानां नरकस्समुपैष्यति
स भवांस्त्रातु नो द्रोणात्सर्वज्ञादरिमर्दनात्
अनृतं जीवितस्यार्थे वदन्न स्पृश्यते त्वघम्
सञ्जयः-
तयोस्संवदतोरेवं भीमसेनोऽब्रवीदिदम्
श्रुत्वा त्वेतन्महाराज वधोपायं महात्मनः
भीमसेनः-
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः
अश्वत्थामेति विख्यातो गजश्शक्रगजोपमः
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्
त्वयोक्ते नैव युध्येत जातु राजन्द्विजर्षभः
सत्यवागिति लोकेऽस्मिन्भवान्ख्यातो जनाधिप
सञ्जयः-
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः
भावित्वाच्च महाराज वक्तुं समुपचक्रमे
सोऽप्यतथ्यभये मग्नो जये सक्तो युधिष्ठिरः
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुत्तरः
बभूवैवन्तु तेनोक्ते तस्य वाहोऽस्पृशन्महीम्
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत्
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्
ऋषिवाक्येन मन्वानश्श्रुत्वा विनिहतं सुतम्
विचेतास्समरोद्विग्नो धृष्टद्युम्नमवैक्षत
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः