सञ्जयः-
ततो दुश्शासनः क्रुद्धस्सहदेवमुपाद्रवत्
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्
तस्यापतत एवाशु भल्लेनामित्रकर्शनः
माद्रीसुतस्सूतश्शिरस्सशिरस्सशिरस्त्राणमच्छिनत्
नैव दुश्शासनस्सूतं नैव कश्चन सैनिकः
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्
यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथातथम्
ततो दुश्शासनस्सूतं बुबुधे गतजीवितम्
स हयान्सन्निगृह्याजौ स्वयं हयविशारदः
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च
तदस्यापूजयन्कर्म स्वे परे चापि संयुगे
हतसूतरथेनाजौ व्यचरद्यदभीतवत्
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्
पीड्यमानाश्शरैरश्वा प्राद्रवंस्ते ततस्ततः
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्
धनुषा कर्म कुर्वंस्तु स रश्मीन्पुनरुत्सृजत्
छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽप्यवाकिरत्
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत्
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैस्समाहितैः
आकर्णमुक्तैरभ्यघ्नद्बाह्वोरुरसि चोन्नदन्
स निवृत्तस्ततः कर्णस्सङ्घट्टित इवोरगः
तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा
तौ वृषाविव सङ्क्रुद्धौ विवृत्तनयनावुभौ
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत
गदया भीमसेनस्तु कर्णस्य रथकूबरम्
बिभेद शतधा राजंस्तदद्भुतमिवाभवत्
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान्
अवासृजद्रथे तात बिभेद गदया गदाम्
ततो भीमो गदां गुर्वीं चिक्षेपातिरथं प्रति
तां शरैर्दशभिः कर्णस्सुपुङ्खैः सुप्रवेगितैः
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः
पपात सारथिश्चास्य मुमोह गदया हतः
स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः
ध्वजे शरासने चैव शरावापं च भारत
ततः पुनस्तु राधेयो रथ्यांस्तस्य शितेषुभिः
ऋश्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी
स विपन्नरथो भीमो नकुलस्य रथोत्तमम्
हरिर्यथा गिरेश्शृङ्गं समाक्रमदरिन्दमः
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ
आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतैषिणौ
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च
उपारमन्त ते सर्वे योधाऽस्माकं परे तथा
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतोः
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः
पराक्रमं तयोर्योधा ददृशुर्युधि विस्मिताः
तयोस्समभवद्युद्धं द्रोणपाण्डवयोर्महत्
आमिषार्थे महाराज गगने श्येनयोरिव
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषणे
ततः प्रादुश्चकारास्त्रमुग्रमस्त्रविदां वरः
ऐन्द्रं वैवस्वतं त्वाष्ट्रं वायव्यमथ वारुणम्
मुक्तं मुक्तं द्रोणचापान्निजघान धनञ्जयः
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः
तदाऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत्
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया
तस्य तस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः
स वध्यमानेष्वस्त्रेषु दिव्येष्वथ यथाविधि
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्
मेने चात्मानमधिकं पृथिव्यामधि भारत
तेन शिष्येण सर्वेभ्यश्शस्त्रविद्भ्यः परन्तप
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्
यतमानोऽधिकं प्रीत्या प्रीयते स्मार्जुनेन सः
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः
ऋषयस्सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया
तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम्
श्रीमदाकाशभवनं बभौ मेघाकुलं यथा
तत्र स्मान्तर्हिता वाचो ह्युच्चरन्ति पुनः पुनः
द्रोणसंस्तवसंयुक्ताः पार्थस्य च महात्मनः
विसृज्यमानेष्वस्त्रेषु ज्वलयत्सु दिशो दश
देवादयः-
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम्
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः
नानयोरन्तरं द्रष्टुं शक्यमन्येन केनचित्
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे
नेमौ शक्यौ महेष्वासौ रणे द्रावयितुं परैः
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्
सञ्जयः-
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः
यदा द्रोणं महाराज विशेषयति पाण्डवः
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महाद्युतिः
तदस्त्रं संहितं राजन्घोररूपं महाहवे
सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
सरितश्च प्रतिस्रोतस्समूहुर्वै क्षणान्तरम्
ववौ च विषमो वायुस्सागराश्चापि चुक्षुभुः
तत्र त्रासो महानासीत्कुरुपाण्डवसेनयोः
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान्
ब्रह्मास्त्रेणैव राजेन्द्र ततस्सर्वमशीशमत्
यदा न गम्यते पारं तयोरन्यतरस्य वै
ततस्सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम्
नाज्ञायत ततः किञ्चित्पुनरेव विशां पते
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप
द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत
अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून्
शरौघैरथ ताभ्यां तु छायाभूतं महामृधे
तुमुलं प्रबभौ राजन्सर्वस्य जगतो भयम्
प्रच्छादितेऽर्जुनेनाजौ शरजालैरिवाम्बरे
न स्म सम्पतते कश्चिदन्तरिक्षचरस्तदा