सञ्जयः-
ते तथैव महाराज दंशिता रणमूर्धनि
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत
द्वन्द्वानि यानि तत्रासन्संसक्तानि पुरोदयात्
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत
नरैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः
हया हयैस्समाजग्मुः पादाताश्च पदातिभिः
रथैर्हया हयैर्नागास्तथैव भरतर्षभ
संसक्ताश्च वियुक्ताश्च योधास्सन्न्यपतन्रणे
ते रात्रौ कृतकर्माणश्श्रान्तास्सूर्यस्य तेजसा
क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन्
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्
विष्फारितविसृष्टानां कार्मुकाणां च कूजताम्
शब्दस्समभवद्राजन्दिविस्पृग्भरतर्षभ
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम्
हयानां हेषतां चैव रथानां च विवर्तताम्
क्रोशतां गर्जतां चैव तदाऽऽसीत्तुमुलं महत्
व्याविद्धस्तुमुलश्शब्दो द्यामगच्छन्महास्वनः
नानायुधनिकृत्तानां वेष्टतामातुरस्स्वरः
भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत्
पततां पतितानां च पत्त्यश्वरथहस्तिनाम्
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः
स्वे स्वाञ्जघ्नुः परान्स्वे च स्वान्परे च परान् परे
वीरबाहुविसृष्टाश्च योधेषु च हयेषु च
असयः प्रपतन्ति स्म वाससां नेजनेष्विव
उन्मुच्य प्रतिसृष्टानां खड्गानां वीरबाहुभिः
स एव शब्दस्तद्रूपो वाससां निज्यतामिव
अर्धासिभिस्तथा खड्गैस्तोमरैश्च परश्वथैः
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्
नरनागाश्वप्रभवां हयनागप्रवाहिनीम्
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम्
आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम्
नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम्
शरशक्त्याऽर्दिताः क्लान्ता रात्रिखेदाल्पचेतसः
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः
संशुष्कवदना वीराश्शिरोभिश्चारुकुण्डलैः
युद्धोपकरणैश्चान्यैस्तत्रतत्र प्रशातितैः
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः
कथञ्चिदवहन्कृच्छ्राद्वेपमानाश्शरार्दिताः
कुलसत्वबलोपेता वाजिनो वारणोपमाः
विह्वलं तूर्णमुद्भ्रान्तं सभयं भारतातुरम्
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ
तावेवास्तां निलयनं तावार्तायनमेव च
तावेवाश्रयमासाद्य जग्मुर्वैवस्वतक्षयम्
आविग्नमभवत्सर्वं कौरवाणां महद्बलम्
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन
अन्तकाक्रीडसदृशे भीरूणां भयवर्धने
पृथिव्यां राजपिशाचानामुत्थिते महति क्षये
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम्
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्
न च दुश्शासनं द्रौणिं न दुर्योधनसौबलौ
न कृपं मद्रराजं वा कृतवर्माणमेव वा
नैव चान्यं न चात्मानं न क्षितिं द्यां दिशस्तथा
पश्याम राजन्संसक्तान्सैन्येन रजसा वृते
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते
द्वितीयामिव सम्प्राप्ताममन्यन्त निशां नराः
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः
न दिशो न दिवं नोर्वी न समं विषमं तथा
हस्तसंस्पर्शमापन्नान्परान् वाऽप्यथवा स्वकान्
न्यपातयंस्तदा युद्धे नरास्स्म विजयैषिणः
उद्धूतत्वात्तु रजसः प्रवेगाच्छोणितस्य च
प्राशाम्यत रजो घोरं शीघ्रत्वादनिलस्य च
तत्र नागा हया योधा रथिनोऽथ पदातयः
पारिजातवनानीव व्यचरन्रुधिरोक्षिताः
ततो दुर्योधनः कर्णो द्रोणो दुश्शासनस्तथा
पाण्डवैस्समसज्जन्त चतुर्भिश्चतुरो रथाः
दुर्योधनस्सह भ्रात्रा यमाभ्यां समसज्जत
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः
तद्घोरं महदाश्चर्यं युद्धं दैवासुरोपमम्
रथर्षभाणामुग्राणां सन्निपातममानुषम्
रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम्
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम्
यतमानाः पराक्रान्ताः परस्परजिगीषवः
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः
अशोभन्त यथा मेघाश्शारदास्समवस्थिताः
स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता वृषगजा इव
न नूनं देहभेदोऽस्ति काले राजन्ननागते
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः
बाहुभिश्चरणैश्छिन्नैश्शिरोभिश्च सकुण्डलैः
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टसैः
नालीकक्षुद्रनाराचैर्नखरैशक्तितोमरैः
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः
विचित्रैर्विविधाकारैश्शरीरावरणैरपि
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः
शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः
वातायमानैरसकृद्धतवीरैरलङ्कृतैः
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः
शस्त्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः
उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च
आसीदायोधनं तत्र नभस्तारागणैरिव
ततो दुर्योधनस्यासीन्नकुलेन समागमः
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत्
अपसव्यं कृतस्सङ्ख्ये माद्रेयेणाभ्यमर्षितः
सोऽमर्षितस्तमप्याजौ प्रतिचक्रे परन्तपः
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्
सर्वतो विनिवार्यैनं शरजालेन पीडयन्
विमुखं नकुलश्चक्रे तत्सैन्यं समपूजयन्
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितानि च