सञ्जयः-
त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरस्सरः
अरुणोऽभ्युदयाञ्चक्रे ताम्रीकुर्वन्निदं जगत्
प्रकाशमकरोद्व्योम जगत्संरञ्जयन्निव
ततो द्वैधीकृते सैन्ये द्रोणः पाञ्चालसोमकान्
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमाः
श्रीभगवान्-
द्वैधीकृतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत्
सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून्
सञ्जयः-
स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः
आजिशीर्षगतं दृष्ट्वा भीमं फल्गुनमब्रवीत्
भीमसेनः-
अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः
यदर्थं क्षत्रियस्सूते तस्य कालोऽयमागतः
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे
असम्भावितरूपस्सन् सुनृशंसं करिष्यसि
धर्मं श्रियं यशो लोके सत्येनानृण्यमाप्नुहि
भिन्ध्यनीकं युधांश्रेष्ठ प्रतिज्ञां सफलां कुरु
सञ्जयः-
स सव्यसाची भीमेन चोदितः केशवेन च
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्
तमाजिशीर्षदायान्तं दहन्तं क्षत्रियर्षभान्
पराक्रान्तं पराक्रान्ता यतन्तः क्षत्रियर्षभाः
नाशक्नुवन्वारयितुं वर्धमानमिवानलम्
अथ दुर्योधनः कर्णश्शकुनिश्चापि सौबलः
अभ्यवर्षन्नरव्याघ्र दशभिर्दशभिश्शरैः
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदावहे
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः
सर्वानविध्यन्निशितैर्दशभिर्दशभिश्शरैः
उद्धूता रजसो वृष्टिश्शरवृष्टिस्तथैव च
ततोऽन्धकारश्शब्दश्च तदा समभवन्महान्
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत्
नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम्
शब्दमात्रेण जानीमो वयं ते च परस्परम्
उद्देशेन हि ते तस्मिन्समयुध्यन्त पार्थिवाः
विरथा धन्विनो राजन्समासाद्य परस्परम्
केशेषु समसज्जन्त कवचेषु भुजेषु च
हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः
जीवन्त इव तत्र स्म व्यतिष्ठन्त भयार्दिताः
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः
ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम्
आतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु
समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते
भ्राजमानं श्रिया जुष्टं ज्वलन्तमिव तेजसा
द्रोणं दृष्ट्वाऽरयस्त्रेसुश्चेलुः पेतुश्च मारिष
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्
तं नाशशंसिरे जेतुं दानवा वासवं यथा
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः
विस्मिताश्चाभवन्केचित्केचिद्धृष्टाऽभवन्युधि
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः
अपरे दशनैरोष्ठानदशन्क्रोधमूर्च्छिताः
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान्
अन्ये चाभ्यपतन्द्रोणं त्यक्तात्मानो महौजसः
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः
समतप्यन्त तेनाजौ रणे राजन्विराजता
ततो विराटद्रुपदौ द्रोणं प्रत्युद्गतौ रणे
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम्
द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि
तेषां द्रुपदपौत्राणां त्रयाणां निशितैश्शरैः
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि
ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान्
मात्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत्
द्रोणं प्रति महाराज विराटश्चैव संयुगे
ततो द्रोणस्सुतीक्ष्णाभ्यां भल्लाभ्यामरिमर्दनः
अप्रेषयद्विराटं च द्रुपदं च यमक्षयम्
हते विराटे द्रुपदे केकयेषु तथैव च
तथैव चेदिमात्स्येषु पाञ्चालेषु तथैव च
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः
धृष्टद्युम्नः-
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु
द्रोणो यस्माद्विमुच्येत यं वा द्रोणः पराभवेत्
सञ्जयः-
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्विताः
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे
रक्ष्यमाणं तथा द्रोणं समरे तैर्महारथैः
यतन्तोऽपि हि पाञ्चाला न शेकुः प्रतिवीक्षितुम्
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ
भीमः-
द्रुपदस्य कुले जातस्सर्वास्त्रेष्वस्त्रवित्तमः
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम्
पितृपुत्रवधं प्राप्य पुंस्त्वं को वा प्रहापयेत्
विशेषतस्तथा शापं शपित्वा राजसंसदि
एष वैश्वानर इव समिद्धस्स्वेन तेजसा
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा
पुरा करोति निश्शेषां पाण्डवानामनीकिनीम्
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्
सञ्जयः-
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः
दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम्
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्
आससाद रणे द्रोणं तदाऽऽसीत्तुमुलं महत्
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्
यथा सूर्योदये राजन्समुत्पिञ्जलिको महान्
संसक्तान्येव चादृश्यन्रथवृन्दानि मारिष
हतानि च विकीर्णानि शरीराणि शरीरिणाम्
केचिदन्यत्र गच्छन्तो मध्ये चान्यैरुपद्रुताः
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरैः
तथा संसक्तयुद्धं तदभवद्भृशदारुणम्
अथ सन्ध्यागतस्सूर्यः क्षणेन समपद्यत