सञ्जयः-
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत्
अमर्षवशमापन्नो जनयन्हर्षतेजसी
दुर्योधनः-
न मर्षणीयास्सङ्ग्रामे विश्रम्यन्तश्श्रमान्विताः
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः
तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः
सर्वथा परिहीनास्तु तेजसा च बलेन च
भवता पाल्यमानास्तु मामका दीनचेतसः
दिव्यान्यस्त्राणि सर्वाणि ब्राह्मास्त्रादीनि यानि च
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः
युध्यमानस्य ते तुल्यास्सत्यमेतद्ब्रवीमि ते
ससुरासुरगन्धर्वानिमाल्ँलोकान्द्विजोत्तम
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः
स भवान्मर्षयत्येनांस्तव तुल्यानवेत्य च
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्
सञ्जयः-
एवमुक्तस्ततो द्रोणः कोपितश्च सुतेन ते
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः
द्रोणः-
स्थविरस्सन्परं शक्त्या घटे दुर्योधनाहवे
अतः परं मया कार्यं क्षुद्रं विजयकाङ्क्षिणा
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम्
तद्वै कर्ताऽस्मि कौरव्य वचनात्तव नान्यथा
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम्
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव
तं न देवा न गन्धर्वा न यक्षा न च पन्नगाः
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम्
खाण्डवे येन भगवान्प्रत्युद्यातस्सुरेश्वरः
सायकैर्वारितश्चापि वर्षमाणो महात्मना
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्विना
प्रत्यक्षं चापि ते सर्वं यथाबलमिदं तव
क्षपितं पाण्डुपुत्रेण चेष्टतां नो यथाबलम्
निवातकवचाश्चापि देवानां शत्रवस्तथा
सुरैरवध्यास्सङ्ग्रामे पाण्डवेन विनिर्जिताः
दानवानां सहस्राणि हिरण्यपुरवासिनाम्
जितान्येकेन वीरेण स शक्यो मानुषैः कथम्
सञ्जयः-
तं तथाऽतिप्रशंसन्तमर्जुनं कुपितस्तदा
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्
दुर्योधनः-
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे
हनिष्यामोऽर्जुनं सङ्ख्ये द्विधा कृत्वाऽद्य वाहिनीम्
तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस्तव
सञ्जयः-
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्
द्रोणः-
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभ
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः
नासुरोरगरक्षांसि क्षपयेयुः सहायुधाः
मूर्खास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि
गच्छ त्वमपि कौन्तेयमात्मार्थे युध्य मा चिरम्
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि
इमान्हि पार्थिवान्सर्वान्घातयित्वाह्यनागसः
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः
एषोऽक्षकितवो जिह्मो द्यूतविच्छकुनिश्शठः
दुर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्
त्वया तु कथितं नित्यं कर्णेन सह हृष्टवत्
असकृच्चैव यन्मोहाद्धृतराष्ट्रस्य शृण्वतः
अहं च तात कर्णश्च भ्राता दुश्शासनश्च तान्
पाण्डुपुत्रान्हनिष्यामस्समेतान्समरे त्रयः
इति ते कत्थमानस्य श्रुतं संसदि संसदि
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैस्सह
एष ते पाण्डवश्शत्रुरविषह्योऽग्रतस्स्थितः
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमुत्तमम्
कृतकृत्योनृणां चासि मा भैर्युध्यस्व पाण्डवम्
सञ्जयः-
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे
द्वैधीकृत्य ततस्सेनां युद्धं समभवत्तदा