सञ्जयः-
घटोत्कचे च निहते सूतपुत्रेण तां निशाम्
दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः
दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्
सशरः कवची खड्गी धन्वी च परतापनः
अभिद्रव रणे द्रोणं मा च ते भीः कथञ्चन
जनमेजयश्शिखण्डी च दौर्मुखिश्च यशोधरः
अभिद्रवत संरब्धाः कुम्भयोनिं समन्ततः
नकुलस्सहदेवश्च द्रौपदेयाश्च दंशिताः
द्रुपदश्च विराटश्च पुत्रभातृसमन्वितौ
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः
अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया
तथैव रथिनस्सर्वे हस्त्यश्वं यच्च किञ्चन
पदाताश्च रणे द्रोणं पातयन्तु महारथम्
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना
अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान्
प्रतिजग्राह समरे द्रोणश्शस्त्रभृतां वरः
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्
अभ्यद्रवत सङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम्
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्
कुरूणां पाण्डवानां च गर्जतामितरेतरम्
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः
त्रियामा रजनी चैषा घोररूपा भयावहा
सहस्रयामप्रतिमा बभूव प्राणहारिणी
वध्यतां च तथा तेषां क्षतानां च विशाम्पते
घोरा रात्रिस्समाजज्ञे निद्रान्धानां तदा विभो
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः
तव चैव परेषां च गतास्त्रा विगतेषवः
ते तदा पारयन्तश्च भ्रमन्तश्च विशेषतः
स्वधर्ममनुपश्यन्तो न जहुस्स्वामनीकिनीम्
शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाश्शेरते जनाः
रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च मारिष
निद्रान्धा न व्यजानन्त काञ्चिच्चेष्टां नराधिपाः
तेऽन्योन्यं समरे योधाः प्रेषयन्ति यमक्षयम्
स्वप्नायमानांश्च परे परानपि विचेतसः
आत्मानं समरे जघ्नुः परान्स्वानेव चापरे
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारथाः
योद्धव्यमिति तिष्ठन्तो निद्रासंरक्तलोचनाः
प्रामुह्यन्त रणे केचिन्निद्रान्धाश्च परस्परम्
जघ्नुश्शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे
हन्यमानं तदाऽऽत्मानं परैश्च बहवो जनाः
न हि जानन्ति समरे निद्रया मोहिता भृशम्
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः
उवाच वाक्यं बीभत्सुरुच्चैस्सन्नादयन्दिशः
अर्जुनः-
श्रान्ता भवन्तो निद्रान्धास्सर्व एव सवाहनाः
तमसा चावृते सैन्ये रजसा बहुलेन च
ते यूयं यदि मन्यध्वमुपारमत भारताः
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपुङ्गवाः
सञ्जयः-
तद्वचस्सर्वधर्मज्ञा धार्मिकस्य निशम्य ते
अरोचयन्त सैन्यास्ते तथा चान्योन्यमब्रुवन्
कर्ण कर्णेति चाक्रन्द्य राजन्दुर्योधनेति च
उपारमत्कौरवाणां विरता हि वरूथिनी
तदा विक्रोशमानस्य फल्गुनस्य ततस्ततः
उपारमत पाण्डूनां सेना तव च भारत
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः
सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन्
तान्सम्पूज्य वचस्सौम्यं सर्वसैन्यानि भारत
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ
सा तु सम्प्राप्य विश्रान्तिं ध्वजिनी तव भारत
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्
सैनिकाः-
त्वयि वेदास्तथाऽस्त्राणि त्वयि बुद्धिपराक्रमौ
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ
यच्चाश्वस्तास्तवेच्छामश्शर्म पार्थ तदस्तु ते
मनसांश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि
सञ्जयः-
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते
वीरा वारणकुम्भेषु सुषुपुर्युद्धकर्शिताः
रात्रौ रतिपरिश्रान्ताः कामिनीनां कुचेष्विव
अश्वपृष्ठेषु चाप्यन्ये रथनीडेष्वथापरे
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ
सायुधास्सगदाश्चान्ये सखड्गास्सपरश्वथाः
सप्रासकवचाश्चान्ये नरास्सुप्ताः पृथक्पृथक्
ते गजा भोगिभोगाभैर्हस्तैर्भूरेणुगुण्ठितैः
निद्रान्धा वसुधां चक्रुर्घ्राणनिश्श्वासशीतलाम्
गजाश्शुशुभिरे तत्र निश्श्वसन्तो महीतले
विशीर्णा गिरयो यद्वन्निश्श्वसद्भिर्महोरगैः
समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम्
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वतः
तत्तथा निद्रया भग्नं तद्बभौ निस्स्वनं बलम्
कुशलैश्शिल्पिभिर्न्यस्तं पटे चित्रमिवार्पितम्
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः
अारुण्यं दर्शयामास ग्रसञ्ज्योतिःप्रभां प्रभुः
अरुणस्य तु तस्यासीज्जातरूपसमप्रभम्
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः
पर्यगच्छन्त शनकैर्दिशः खं च क्षितिं तथा
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत्
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा
प्रतिप्रकाशिते लोके उदिते च निशाकरे
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः
बोध्यमानं तु तद्राजन् सैन्यं चन्द्रस्य रश्मिभिः
बुबुधे शतपत्राणां वनं महदम्भसि
यथा चन्द्रोदयोद्धूतः क्षुभितस्सागरो भवेत्
तथा चन्द्रोदयोद्धूतः क्षुभितस्स बलार्णवः
ततः प्रववृते युद्धं पुनरेव विशाम्पते
लोके लोकविनाशाय परलोकमभीप्सताम्