सञ्जयः-
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु
आपतत्सु च वेगेन वध्यमाने बलेऽपि च
विगाढायां रजन्यां च दैन्यं राजा परं गतः
अब्रवीच्च महाबाहुर्भीमसेनं परन्तपम्
युधिष्ठिरः-
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्
हैडिम्बस्य विघातेन मोहो मामाविशन्महान्
सञ्जयः-
एवं भीमं समादिश्य स्वरथं समुपाविशत्
अश्रुपूर्णमुखो राजा निश्श्वसंश्च पुनः पुनः
कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम्
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्
श्रीभगवान्-
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत्
सञ्जयः-
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत्
युधिष्ठिरः
विदिता नो महाबाहो धर्माणां परमा गतिः
ब्रह्महत्याफलं तस्य यः कृतं नानुरुध्यते
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना
बालेनापि सता तेन कृतं साह्यं महात्मना
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना
आरम्भांश्चैव युद्धानां यदेष कृतवान्प्रभुः
मदर्थं दुष्करं तेन कृतं कर्म महात्मना
स्वभावाद्या च मे प्रीतिस्सहदेवे जनार्दन
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापितः
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः
द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ
निशीथे पाण्डवं सैन्यमाभ्यां माधव मर्दितम्
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत्
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव
चित्रास्त्रतां च पार्थस्य विक्रमन्ते च कौरवाः
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे
कथमस्मासु जीवत्सु त्वयि चैव जनार्दन
हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः
कदर्थीकृत्य नस्सर्वान्पश्यतस्सव्यसाचिनः
निहतो राक्षसश्रेष्ठो भैमसेनिर्महाबलः
यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः
नासीत्तत्र तदा कृष्ण सव्यसाची महारथः
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना
निमित्तमभवद्द्रोणस्सपुत्रस्तत्र कर्मणि
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्
व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार सः
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी
तथेतरे महेष्वासास्सौभद्रं युध्यपातयन्
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम
यदि शत्रुवधो न्याय्यो भवेत्कर्तुं स पाण्डवैः
कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः
एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ
एतौ रणे समासाद्य समाश्वस्तस्सुयोधनः
यत्र वध्यो भवेद्द्रोणस्सूतपुत्रश्च सानुगः
तत्रावधीन्महाबाहुस्सैन्धवं दूरवासिनम्
अवश्यं तु मया कार्यस्सूतपुत्रस्य निग्रहः
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः
सञ्जयः-
एवमुक्त्वा ययौ तूर्णं यतमानो युधिष्ठिरः
सुविष्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम्
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः
वाजिभिः पञ्चसाहस्रैः केकयैश्च प्रभद्रकैः
वृतश्शिखण्डी तवरितो राजानं पृष्ठतोऽन्वयात्
ततो भेरीस्समाजघ्नुः पणवानकगोमुखान्
शङ्खशब्दरवांश्चैव पाणिशब्दांश्च दंशिताः
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम्
श्रीभगवान्-
एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः
जिघांसुस्सूतपुत्रस्य तस्योपेक्षा न युज्यते
सञ्जयः-
एवमुक्त्वा हृषीकेशश्शीघ्रमश्वानचोदयत्
दूरं च यातं राजानमन्वगच्छज्जनार्दनः
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया
शोकोपहतसन्तप्तं दह्यमानमिवाग्निना
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम्
व्यासः-
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन नरर्षभः
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः
वध्यमानेषु चास्त्रेषु पीडितस्सूतनन्दनः
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर
ततो भवेत्ते व्यसनं घोरं भरतसत्तम
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ
तवैव कारणाद्रक्षो निहतं तात संयुगे
पार्थं पार्थसमं वाऽपि हन्यादिति पुरोदितम्
शक्रेणोक्तं तथा कृत्वा सा गता च त्रिविष्टपम्
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर
भ्रातृभिस्सहितस्सर्वैः पार्थिवैश्च महात्मभिः
कौरवान्समरे राजन्नभिध्यस्व भारत
पञ्चमे दिवसे चैव पृथिवी ते भविष्यति
नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय
सञ्जयः-
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत