धृतराष्ट्रः-
एकवीरवधे मोघां शक्तिं सूतात्मजे यदा
कस्माद्भैमे समुत्सृज्य स तां पार्थे न मुक्तवान्
तस्मिन्हते हता हि स्युस्सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्माद्युद्धे न जयमादधात्
आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयमाह्वयितव्यस्तु सूतपुत्रेण फल्गुनः
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया
जघान न वृषा कस्मात्तन्ममाचक्ष्व सञ्जय
नूनं बुद्धिविहीनश्चानुपायाश्च मे सुताः
शत्रुभिर्व्यंसितोपाया विजयेरन् कथं रिपून्
साऽप्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसिता च घटोत्कचे
कुणेर्यथा हस्तगतं हरेद्बिल्वं बली यथा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे
यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः
मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै
घटोत्कचो यदि हन्याद्धि कर्णं परो लाभस्स भवेत्पाण्डवानाम्
घटोत्कचं यदि कर्णो निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्
इति प्राज्ञः प्रज्ञयैतद्विचिन्त्य घटोत्कचं सूतपुत्रेण युद्धे
अघातयद्वासुदेवो निगृह्य प्रियं कुर्वन्पाण्डवानां हितं च
सञ्जयः-
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा हरिः
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विनाशार्थं राजन्दुर्मन्त्रिते तव
तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्
साश्वध्वजरथस्सङ्ख्ये धृतराष्ट्र पतेद्भुवि
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्
तैस्तैरुपायैर्बहुभी रक्ष्यमाणस्स पार्थिव
जयत्यभिमुखश्शत्रून्पार्थः कृष्णेन वीर्यवान्
सविशेषं त्वमेयात्मा कृष्णो रक्षेन्न फल्गुनम्
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः
धृतराष्ट्रः-
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति
तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः
सञ्जयः-
दुर्योधनस्य शकुनेर्मम दुश्शासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव विकत्थना
श्वस्सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम्
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः
अथवा निहते पार्थे पाण्डुष्वन्यतमं पुनः
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निहन्यताम्
कृष्णो मूलमनर्थानां पार्थस्स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं तेषां ज्योतिषामिव चन्द्रमाः
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं हि निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः
यदि हि स निहतश्शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत
सा तु बुद्धिः कृताऽप्येवमर्जुने जगदीश्वरे
केशवे च यदुश्रेष्ठे युद्धकाले त्वमुह्यत
अर्जुनं चापि राधेयात्सदा रक्षति केशवः
न ह्येनमैच्छत्प्रमुखे सौतेस्स्थापयितुं रणे
अन्यांश्चास्मै रथोदारानुपास्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो
ततः कृष्णं महाबाहुस्सात्यकिस्सत्यविक्रमः
पप्रच्छ कुरुशार्दूल कर्णं प्रति महाबलः
सात्यकिः-
अयं च प्रत्ययः कर्णश्शक्त्या चामितविक्रमः
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा
श्रीभगवान्-
दुश्शासनश्च कर्णश्च शकुनिश्च महाबलः
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ||
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर
ऋते महारथाद्वीरात्कुन्तीपुत्राद्धनञ्जयात्
स हि तेषामतियशा देवानामिव वासवः
तस्मिन्विनिहते सर्वे पाण्डवास्सृञ्जयैस्सह
भविष्यन्ति गतात्मानस्सुरा इव निरग्नयः
तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव
हृदि नित्यं च कर्णस्य वधो गाण्डीवधन्वनः
अहमेव तु राधेयं मोहयामि युधांवरम्
यथा नावासृजेच्छक्तिं पाण्डवे श्वेतवाहने
फल्गुनस्य हि तं मृत्युमवगम्य युयत्सतः
न निद्रा न च मे हर्षो मनसोऽस्ति युधांवर
घटोत्कचे तां व्यंसितां दृष्ट्वा तु शिनिपुङ्गव
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम्
न पिता न च मे माता न यूयं भ्रातरस्तथा
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे
त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम्
नेच्छेयं सात्वताहं तु विना पार्थं धनञ्जयम्
अतः प्रहर्षस्सुमहान्युयुधानाद्य मेऽभवत्
मृत्योः प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम्
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
न ह्यन्यस्समरे रात्रौ शक्तः कर्णप्रबाधने
सञ्जयः-
इति सात्यकये प्राह तदा देवकिनन्दनः
धनञ्जयहिते युक्तस्तत्प्रिये सततं धृतः
धृतराष्ट्रः-
कर्णदुर्योधनादीनां शकुनेस्सौबलस्य च
अपनीतं महत्तात तव चैव विशेषतः
यदा जानीथ तां शक्तिमेकघ्नीं सततं रणे
अनिवार्यामसह्यां च देवैरपि सवासवैः
सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा
न देवकीसुते मुक्ता फल्गुने नापि सञ्जय
सञ्जयः-
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां च विशाम्पते
रात्रौ रात्रौ कुरुश्रेष्ठ मन्त्रो नस्समजायत
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा
शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः
ततः प्रभातसमये राजन्कर्णस्य दैवतैः
अन्येषां चैव वीराणां सा बुद्धिर्नाश्यते नृप
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया
न जघान रणे पार्थं कृष्णं वा देवकीसुतम्
यस्य हस्ते स्थिता शक्तिः कालरात्रिरिवोद्यता
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान्
क्रुद्धे वा देवकीपुत्रे मोहितो देवमायया
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो
धृतराष्ट्रः-
दैवेनोपहता यूयं सुबुद्ध्या केशवस्य च
गता हि वासवी भित्त्वा तृणभूतं घटोत्कचम्
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम्
भूय एव तु मे शंस यथा युद्धमवर्तत
कृरूणां पाण्डवानां च हैडिम्बे निहते तदा
ये चान्येऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः
सृञ्जयास्सह पाञ्चालास्तेऽप्यकुर्वन्कथं रणे
सौमदत्तेर्वधाद्द्रोणमायात्तं सैन्धवस्य च
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः
आचार्यं ये च मेऽरक्षन्दुर्योधनपुरोगमाः
द्रौणिकर्णकृपास्तात ते वाऽकुर्वन्किमाहवे
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे
सिन्धुराजवधेनेमे घटोत्कचवधेन ते
अमर्षितास्सुसंरब्धा रणं चक्रुः कथं निशि