धृतराष्ट्रः-
तस्मिन्हते महामाये महातेजसि राक्षसे
अमर्षिताः पाण्डवेयाः किमकुर्वन्महारणे
मर्दिताश्च भृशं युद्धे किमकुर्वत सञ्जय
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकं प्रहारिणः
सृञ्जयास्सह पाञ्चालैस्तेऽकुर्वन्किं महारणे
सौमदत्तेर्वधाद्द्रोणमायत्तं सैन्धवस्य च
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्
कथं प्रत्युद्ययुर्द्रोणमजय्यं कुरुसृञ्जयाः
आचार्यं ये च रक्षन्ति दुर्योधनपुरोगमाः
द्रौणिकर्णकृपास्तात ते ह्यकुर्वन्किमाहवे
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ
आर्च्छतां मामकान्युद्धे कथं सञ्जय शंस मे
सिन्धुराजवधेनेमे घटोत्कचवधेन ते
अमर्षिताश्च सङ्क्रुद्धा रणं चक्रुः कथं युधि
सञ्जयः-
हैडिम्बिं निहतं दृष्ट्वा विशीर्णमिव पर्वतम्
पाण्डवा दीनमनसस्सर्वे शोकबाष्पाकुलेक्षणाः
वासुदेवस्तु हर्षेण महताऽभिपरिप्लुतः
ननाद सिंहवन्नादं व्यथयन्निव भारत
हतं घटोत्कचं ज्ञात्वा वासुदेवः प्रतापवान्
विनद्य च महानादं पर्यष्वजत फल्गुनम्
स विनद्य महानादमभीशून्सन्नियम्य च
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः
ततो विनद्य च पुनः पार्थमास्फाल्य चासकृत्
रथोपस्थगतो धीमान्प्राणदत्पुनरच्युतः
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव
अर्जुनः-
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्
वयं च भृशसंविग्ना हैडिम्बस्य निपातनात्
नैतत्कारणमल्पं वै भविष्यति जनार्दन
तदद्य शंस मे पृष्टस्सत्यं सत्यभृतां वर
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम
धैर्यस्य विकृतिं ब्रूहि त्वमद्य मधुसूदन
समुद्रस्येव विक्षोभं मेरोरिव विसर्पणम्
तदेतल्लाघवं मन्ये तव देवकिनन्दन
वासुदेवः-
अतिहर्षमिमं प्राप्तं शृणु मेऽत्र धनञ्जय
अतीव मनसस्सद्यः प्रसादकरमुत्तमम्
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह
य एनमभितस्तिष्ठेत्कार्तिकेयमिवाहवे
दिष्ट्याऽपनीतकवचो दिष्ट्याऽपहृतकुण्डलः
दिष्ट्या च व्यंसिता शक्तिरमोघाऽस्य घटोत्कचे
यदि हि स्यात्सकवचस्तथैव स्यात्सकुण्डलः
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्
गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम्
न शक्तौ स्वो रणे जेतुं तथाभूतं नरर्षभम्
त्वद्धितार्थं हि शक्रेण मायया हृतकुण्डलः
विहीनकवचश्चायं कृतः परपुरञ्जयः
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते
प्रादाच्छक्राय वै कर्णस्तस्माद्वैकर्तनस्स्मृतः
आशीविष इव क्रुद्धस्स्तम्भितो मन्त्रतेजसा
तथाऽद्य भाति कर्णो मे शान्तज्वाल इवानलः
यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना
वासवेन महाबाहो या सा प्रास्ता घटोत्कचे
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे
एवं गतोऽपि शक्योऽयं हन्तुं नान्येन केनचित्
ऋते त्वां पुरुषव्याघ्र शपे सत्येन ते प्रभो
ब्रह्मण्यस्सत्यवादी च तपस्वी नियतव्रतः
रिपुष्वपि कृपां चक्रे तस्मात्कर्णो वृषा स्मृतः
युद्धशौण्डो महाबाहुर्नित्योन्नतशरासनः
केसरीव वने नर्दन्मत्तमातङ्गयूथपान्
विमर्दन्रथशार्दूलान्राजते रणमूर्धनि
मध्यं गत इवादित्यो न स शक्य उदीक्षितुम्
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्सभिः
शरजालसहस्रांशुश्शरदीव दिवाकरः
तपान्ते सर्वतोधारः क्षरञ्शरशतान्बहून्
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्
नेता नेतृभिरस्यद्भिश्शरवर्षाणि वर्षताम्
सोऽद्य मानुषतां प्राप्तो विमुक्तश्शक्रदत्तया
एको हि योगोऽस्य भवेद्वधाय च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्
कृच्छ्रं प्राप्तं रथचक्रे विमग्ने हन्याः पूर्वं त्वं च शक्तिं निवार्य
जरासन्धश्चेदिराजो महात्मा महाबाहुश्चैकलव्यो नरेन्द्र
एकैकशो निहतास्सर्व एव योगैस्तैस्तैस्त्वद्धितार्थं मयैव
अथापरे निहता राक्षसेन्द्रा हिडिम्बकिम्मीरबकप्रधानाः
अलायुधः परसैन्यप्रमाथी घटोत्कचश्चोग्रकर्मा तरस्वी