सञ्जयः-
सम्प्रेक्ष्य भीमं समरे रक्षसा ग्रस्तमन्तिकात्
वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा
श्रीभगवान्-
पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात्
पश्यतां सर्वसैन्यानां तव चैव महाद्युते
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि
सञ्जयः-
स वार्ष्णेयवचश्श्रुत्वा कर्णमुत्सृज्य वीर्यवान्
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः
तयोस्तु तुमुलं युद्धं बभूव निशि रक्षसोः
अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान्
वेगेनापततश्शूरान्प्रगृहीतशरासनान्
आत्तायुधस्तु सङ्क्रुद्धो युयुधानो महारथः
नकुलस्सहदेवश्च चिच्छिदुर्निशितैश्शरैः
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्
परिचिक्षेप बीभत्सुस्सर्वतः प्रकिरञ्छरान्
कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान्
तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः
अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे
ततस्तेऽभ्याययुर्हत्वा राक्षसान्यत्र सूतजः
नकुलस्सहदेवश्च सात्यकिश्च महारथः
ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च
अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिन्दमम्
परिघेणाद्रिकायेन ताडयामास मूर्धनि
स तु तेन प्रहारेण भैमसेनिर्महाबलः
ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान्
ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम्
चिक्षेप तस्मै समरे गदां काञ्चनभूषिताम्
सा हयांश्चतुरश्चास्य सारथिं च महास्वना
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा
स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्
स समास्थाय मायां तु ववर्ष रुधिरं बहु
विद्युद्विभ्राजितं चासीत्तुमुलाभ्राकुलं नभः
ततो वज्रनिपातश्च साशनिस्तनयित्नुमान्
महांश्चटचटाशब्दस्तत्रासीच्च महाहवे
तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु
ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययाऽवधीत्
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे
अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान्
दिक्षु विध्वंसयामास तदद्भुतमिवाभवत्
ततो नानाप्रहरणैरन्योन्यं स्माभ्यवर्तताम्
आयसैः परिघैश्शूलैर्गदामुसलमुद्गरैः
पिनाकैः करवालैश्च तोमरैः प्रासकर्पटैः
नाराचैर्निशितैर्भल्लैश्शरैरस्त्रैः परश्वथैः
अयोहुलैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि
उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः
शमीबिल्वशिरीषैश्च शम्याकैश्चैव भारत
इङ्गुदैर्बदरीभिश्च कोविदारैस्सुपुष्पितैः
पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः
महद्भिस्समरे तस्मिन्नन्योन्यमभिजघ्नतुः
विविधैः पर्वतानां च शृङ्गैर्धातुविचित्रितैः
तेषां शब्दो महानासीद्वज्रेणाहन्यतामिव
तद्युद्धमभवद्घोरं भैम्यलायुधयोर्भृशम्
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा
तौ युद्ध्वा विशिखैर्घोरैरायुधैर्विविधैस्तदा
उत्सृज्य निशितौ खड्गावन्योमभिपेततुः
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ
बाहुभिः परिगृह्णीतां महामायौ महाबलौ
तौ स्विन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप
रुधिरं च महाकायावभिवृष्टाविवाचलौ
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम्
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत्
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्
तदा सुतुमुलं नादं ननाद सुमहाबलः
हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम्
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे
ततो भेरीसहस्राणि शङ्खानामयुतानि च
अवादयन्पाण्डवेयास्तस्मिन्राक्षसि पातिते
अतीव सा निशा तेषां बभूव विजयावहा
विद्योतमाना विबभौ समन्ताद्दीपमालिनी
अलायुधस्य तु शिरो भैमसेनिर्महाबलः
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम्
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्
बभूव परमोद्विग्नस्सह सैन्येन भारत
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि
हन्मीति स्म समागम्य स्मरता वैरमुत्तमम्
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः
जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत