सञ्जयः-
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत
महत्या सेनया युक्तस्सुयोधनमुपागमत्
राक्षसानां विरूपाणां सहस्रैः परिवारितः
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन्
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः
किम्मीरश्च महातेजा हिडिम्बश्च सखा तदा
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन्
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे
स मत्त इव मातङ्गस्सङ्क्रुद्व इव चोरगः
दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः
अलायुधः-
विदितं ते महाराज यथा भीमेन राक्षसाः
हिडिम्बबककिम्मीरा निहता मम बान्धवाः
परामर्शश्च कन्याया हिडिम्बायाः पुरा कृतः
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह
तमहं सगणं राजन्सवाजिरथकुञ्जरम्
हैडिम्बिं च सहामात्यं हन्तुमभ्यागता वयम्
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान्
हत्वाऽहं भक्षयिष्यामि सर्वैरनुचरैस्सह
निवार्य च बलं सर्वं वयं योत्स्याम पाण्डवान्
सञ्जयः-
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनो भृशम्
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिस्सह भारत
दुर्योधनः-
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान्
न हि स्थास्यन्ति पार्थास्तु पुरतस्सह सैनिकाः
एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः
अभ्ययात्त्वरितो भैमिं सहितः पुरुषादकैः
दीप्यमानेन वपुषा रथेनादित्यवर्चसा
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः
तस्यापि तुरगाश्शीघ्रा हस्तिकायाः खरस्वनाः
शतं युक्ता महाकाया मांसशोणितभोजनाः
तस्यापि रथनिर्घोषो महामेघरवोपमः
तस्यापि सुमहच्चापं दृढज्यं बलवद्दृढम्
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाश्शिलाशिताः
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः
तस्यापि गोमायुबलाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः
स चापि रूपेण घटोत्कचस्य श्रीमत्तमो ह्यन्तकसन्निकाशः
दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखड्गः
गदी मुसुण्ठी मुसली हली च शरासनी वारणतुल्यवर्ष्मा
रथेन तेनानलवर्चसा तदा विद्रावयन्पाण्डववाहिनीं ताम्
रराज सङ्ख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे
ते चास्य सर्वे खचरा नरेन्द्रा महाबला वर्मिणश्छत्रिणश्च
हर्षान्विता युयुधुस्तस्य योधास्समन्ततः पाण्डवयोधवीरान्
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
हर्षमाहारयाञ्चक्रुः कुरवस्सर्व एव ते
तथैव तव पुत्राश्च दुर्योधनपुरोगमाः
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्
पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्
तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने
न द्रौणिर्न कृपो द्रोणो न शल्यो न च माधवः
एक एव तु तेनासीद्योद्धा कर्णो रणे वृषा
उपप्रैक्षन्त पाञ्चालास्स्मयमानास्सराजकाः
व्यभ्रमंस्तावकाश्चापि घूर्णमानास्ततस्ततः
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे
सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
ततस्सैन्यं महाराज निराशं कर्णजीविते
दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम्
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत्
दुर्योधनः-
एष वैकर्तनः कर्णो हैडिम्बेन समागतः
कुरुते सुमहत्कर्म यदस्यौपयिकं मृधे
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना
तवैष भारस्समरे ज्ञातिमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
मायाबलमुपाश्रित्य कर्शयत्यरिकर्शन
स्ञ्जयः-
एवमुक्तस्स राज्ञा तु राक्षसस्तीव्रविक्रमः
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः
तयोस्समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः
मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने
रक्षसा विप्रमुक्तस्तु कर्णोऽपि बलिनां वरः
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा
तमायान्तमनादृत्य ग्रस्तं दृष्ट्वा घटोत्कचम्
अलायुधेन समरे सिंहेनेव गवां पतिम्
रथेनादित्यवपुषा भीमः प्रहरतां वरः
किरञ्छरौघान्प्रययावलायुधरथं प्रति
तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्
तं भीमस्सहसाऽभ्येत्य राक्षसान्तकरः प्रभो
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनररिन्दमः
तथा ते राक्षसास्सर्वे भीमसेनमुपाद्रवन्
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः
स ताड्यमानो बहुभिर्भीमसेनो महाबलः
पञ्चभिः पञ्चभिस्सर्वांस्तानविध्यच्छितैश्शरैः
ते वध्यमाना भीमेन राक्षसाः खेचरा रणे
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्
तं भीमसेनस्समरे तीक्ष्णाग्रैरक्षिणोच्छरैः
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे
चिच्छेद कांश्चित्समरे उरसा कांश्चिदग्रहीत्
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातोपमां तदा
तामापतन्तीं सम्प्रेक्ष्य गदां ज्वालाकुलां ततः
गदया ताडयामास सा गदा भीममाव्रजत्
स राक्षसेन्द्रं कौन्तेयश्शरवर्षैरवाकिरत्
तानप्यस्याकरोन्मोघान्राक्षसो निशितैश्शरैः
ते चापि राक्षसास्सर्वे सैनिका भीमरूपिणः
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान्
पाञ्चालास्सृञ्जयाश्चैव सवाजिरथकुञ्जराः
न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम्
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः
श्रीभगवान्-
पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम्
पदवीमस्य गच्छ त्वं मा विचारय पाण्डव
धृष्टद्युम्नश्शिखण्डी च युधामन्यूत्तमौजसौ
सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः
नकुलस्सहदेवश्च युयुधानश्च वीर्यवान्
इतरान्राक्षसान्हन्तु शासनात्तव पार्थिवाः
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्
धारयस्व नरव्याघ्र महद्धि भयमागतम्
सञ्जयः-
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे
अथ पूर्णायतोत्सृष्टैश्शरैराशीविषोपमैः
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्
हयांश्चास्य महाबाणैस्सारथिं च महाबलः
जघान मिषतस्सङ्ख्ये भीमसेनस्य भारत
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः
तस्मिन्गुर्वीं गदां घोरां विनदन्वै ससर्ज च
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्
गदया राक्षसो घोरो निजघान ननाद च
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्
तयोस्समभवद्युद्धं तुमुलं नररक्षसोः
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम्
गदां विमुच्य तौ भूयस्समासाद्येतरेतरम्
मुष्टिभिर्वज्रसङ्घातैरन्योन्यमभिजघ्नतुः
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः
यथासन्नमुपादाय निजघ्नतुररिन्दमौ
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्
मत्ताविव महानागौ चकृषाते पुनः पुनः
तावपश्यद्धृषीकेशः पाण्डवानां हिते रतः
स भीमसेनरक्षार्थं हैडिम्बं पर्यचोदयत्