धृतराष्ट्रः-
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः
येन वैकर्तनः कर्णस्सङ्ग्रामे तेन निर्जितः
रथश्च कीदृशस्तस्य मायास्सर्वायुधानि च
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्
पृष्टस्तन्मे समाचक्ष्व सर्वमेतद्यथातथम्
सञ्जयः-
लोहिताक्षो महाबाहुस्ताम्रास्यो निर्णतोदरः
ऊर्ध्वरोमा हरिश्मश्रुश्शङ्कुकर्णो महाहनुः
आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूस्स्थूलनासिकः
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः
महाकायो महाबाहुर्महाशीर्षो महाबलः
विकटो विषमो भीमो विनतोद्बद्धपिण्डकः
स्थूलस्फिग्गण्डनासश्च शिथिलोपचयो महान्
तथैव हस्ताभरणी महामायोऽङ्गदी तथा
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः
तस्य हेममयं छत्रं बहुरूपाङ्गशोभितम्
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्नि शोभते
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम्
कण्ठसूत्रं महच्चापि तपनीयमधारयत्
स तेन विभ्राजत वै सविद्युदिव तोयदः
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम्
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम्
सर्वायुधवरोपेतमास्थितो ध्वजमालिनम्
अष्टचक्रसमायुक्तं मेघगम्भीरनिस्स्वनम्
तत्र मातङ्गसङ्काशा लोहिताक्षा विभीषणाः
कालवर्णसमायुक्ता बलवन्तश्शतं हयाः
मुखैर्नानाविधाकारैर्वेगवन्तो हयोत्तमाः
रथेऽस्य युक्ता गर्जन्तोऽवहंस्ते राक्षसाधिपम्
राक्षसोऽस्य विरूपाक्षस्सखा दीप्तास्यकुण्डलः
घोररूपो महाकायः करालो विकृताननः
रश्मिभिस्सूर्यरश्म्याभैस्सञ्जग्राह हयान्रणे
स तेन सहितस्तस्थावरुणेन यथा रविः
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान्
दिवस्पृक्सुमहान्केतुस्स्यन्दनस्य समुच्छ्रितः
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्
रथाक्षमात्रैरिषुभिस्सर्वाः प्रच्छादयन्दिशः
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः
तेन वित्रास्यमानानि तव सैन्यानि भरतर्षभ
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम्
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम्
स सन्निपातस्तुमुलस्तयोरासीद्विशां पते
कर्णराक्षसयोर्नक्तमिन्द्रशम्बरयोरिव
तौ प्रगृह्य महावेगे धनुषी भीमनिस्स्वने
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः
ततः पूर्णायतोत्सृष्टैश्शरैस्सन्नतपर्वभिः
व्यदारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं समरे सन्ततक्षतुः
सञ्छिन्दन्तौ तु गात्राणि सन्दधानौ च सायकान्
तक्षमाणौ शरव्रातैर्नोदीक्षितुमशक्नुवन्
तौ तु विक्षतसर्वाङ्गौ शोणितौघपरिप्लुतौ
विभ्राजेतां यथा वारि प्रसृतौ गैरिकाचलौ
तौ शराग्रवितुन्नाङ्गौ विनदन्तौ परस्परम्
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती
तत्प्रवृद्धं निशायुद्धं चिरं सममिवाभवत्
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्निशि
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः
धनुर्घोषेण वित्रस्तास्स्वे परे च तदाऽभवन्
घटोत्कचं यदा कर्णो न विशेषयते नृप
ततः प्रादुष्करोदैन्द्रमस्त्रमस्त्रविदां वरः
कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः
प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः
शूलमुद्गरधारिण्या शैलपादपहस्तया
रक्षसां घोररूपाणां महत्या सेनया वृतः
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च तदा भृशम्
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसैर्भृशम्
आयसानि च चक्राणि भुशुण्ड्यश्शक्तितोमराः
पतन्त्यविरलाश्शूलाश्शतघ्न्यः पट्टसास्तथा
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः
तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम्
मायायां तु प्रहीणायाममर्षात्स घटोत्कचः
विससर्ज शरान्घोरान्सूतपुत्रं त आविशन्
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे
विविशुर्धरणीं बाणास्सङ्क्रुद्धा इव पन्नगाः
सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान्
घटोत्कचमतिक्रम्य बिभेद दशभिश्शरैः
घटोत्कचो विनिर्भिन्नस्सूतपुत्रेण मर्मसु
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम्
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्
चिक्षेपातिरथेः क्रुद्धो भैमसेनिर्जिघांसया
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम्
कर्णं प्राच्छादयद्बाणैस्स्वर्भानुरिव भास्करम्
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः
घटोत्कचेन क्रुद्धेन तदा हेमाङ्गदा गदा
क्षिप्ता भ्राम्य शरैस्साऽपि कर्णेनाभ्याहताऽपतत्
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्
ववर्ष सुमहाकायो द्रुमवर्षं नभस्स्थलात्
ततो मायावृतं कर्णो भीमसेनसुतं दिवि
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम्
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्
सोऽदृश्यत मुहूर्तेन श्वाविच्छललतो यथा
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्
दृष्टवन्तस्स्म समरे शरौघैरभिसम्प्लुतैः
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्
मायायुद्धेन मायावी सूतपुत्रमयोधयत्
सोऽयोधयत्तदा कर्णं मायया लाघवेन च
अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन्
भैमसेनिर्महामायो मायया कुरुसत्तम
विचचार महामायो मोहयन्निव भारत
स स्म कृत्वा विरूपाणि वदनान्यशुभाननः
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया
पुनश्चापि महाकायस्सञ्छिन्नश्शतधा रणे
गतसत्वो निरुत्साहः पतितो दिव्यदृश्यत
तं हतं मन्यमानास्स्म प्राणदन्कुरुपुङ्गवाः
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत
पुनश्चापि महाकायश्शतशीर्षश्शतोदरः
व्यदृश्यत महाकायो मैनाक इव पर्वतः
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमदृश्यत
वसुधां दारयित्वा च पुनरप्सु ममज्ज च
अदृश्यत पुनस्तत्र पुनरुन्मज्जितोऽन्यतः
सोऽतिवीर्यो रथे तस्थौ पुनर्हेमपरिष्कृते
क्षितिं द्यां च दिशश्चैव माययाऽवृत्य दंशितः
गत्वा कर्णरथाभ्याशं प्रचलत्कुण्डलाननः
प्राह वाक्यमसम्भ्रान्तस्सूतपुत्रं विशां पते
घटोत्कचः-
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
सञ्जयः-
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्
उत्पपातान्तरिक्षं च जहास च सुविस्तरम्
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी
रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः
रथिनामृषभंं कर्णं धाराभिरिव तोयदः
शरवृष्टिं तु तां कर्णो दूरात्प्राप्तामशातयत्
दृष्ट्वा तु विहतां मायां कर्णेन भरतर्षभ
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः
गिरिरत्युच्चशिखरैर्महद्भिस्तरुसङ्कटैः
शूलप्रासासिमुसलजलप्रस्रवणो महान्
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत्
ततस्सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत
ततस्स तोयदो भूत्वा नीलस्सेन्द्रायुधो दिवि
अश्मवृष्टिभिरत्युग्रस्सूतपुत्रमवाकिरत्
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः
जघानास्त्रं महाराज घटोत्कचसमीरितम्
ततः प्रहस्य समरे भैमसेनिर्महाबलः
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्
स दृष्ट्वा पुनरायान्तं रथेन रथेनायतकार्मुकम्
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसान्
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिरायसैः
ननाद सुमहानादं भीषयन्सर्वपार्थिवान्
भूयश्चाञ्जलिकेनाथ समार्गणगणं महत्
कर्णहस्तस्थितं चापं चिच्छेद स घटोत्कचः
अथान्यद्धनुरादाय दृढं भारसहं महत्
विकर्षन् बलवान्कर्णस्सेन्द्रायुधमिवोच्छ्रितम्
ततः कर्णो महाराज प्रेषयामास सायकान्
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरान्प्रति
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
सिंहेनेवार्दितं स्विन्नं गजानामाकुलं कुलम्
विशस्य राक्षसान्बाणैस्साश्वसूतहयान्विभुः
ददाह भगवान्वह्निर्भूतानीव युगक्षये
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः
पुरेव त्रिपुरं हत्वा दिवि देवो महेश्वरः
तेषु राजसहस्रेषु पाण्डवेयेषु भारत
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिवः
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात्
भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत
महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः
तलं तलेन संहत्य सन्दश्य दशनच्छदम्
रथमास्थाय च पुनर्मायया निर्मितं पुनः
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः
स सूतमब्रवीत्क्रुद्धस्सूतपुत्राय मां वह
स ययौ घोररूपेण रथेन रथिनां वरः
द्वैरथं सूतपुत्रेण पुनरेव विशां पते
स चिक्षेप पुनः क्रुद्धस्सूतपुत्राय राक्षसः
अष्टघण्टां महाघोरामशनिं वृत्रनिर्मिताम्
तामाप्लुत्य च जग्राह कर्णो न्यस्य रथे धनुः
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद
यदकार्षीत्तदा कर्णस्सङ्ग्रामे भीमदर्शने
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः
गन्धर्वनगराकारः पुनरन्तरधीयत
एवं स वै महाबाहो मायया लाघवेन च
अस्त्राणि तानि दिव्यानि जघानारिनिषूदनः
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा
असम्भ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः
चकार बहुधाऽऽत्मानं भीषयाणो नराधिपान्
ततो दिग्भ्यस्समापेतुस्सिंहव्याघ्रतरक्षवः
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः
स कीर्यमाणो विशिखैः कर्णचापच्युतैश्शरैः
नागराद्रिवनप्रख्यैस्तत्रैवान्तरधीयत
राक्षसाश्च पिशाचाश्च यातुधानास्समावृताः
ते कर्णं भक्षयिष्यन्तस्सर्वतस्समुपाद्रवन्
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चक्रिरे तदा
उद्यतैर्बहुभिर्घोरैरायुधैश्शोणितोक्षितैः
तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्
आजघान हयानस्य शरैस्सन्नतपर्वभिः
ते भग्ना विकृताङ्गाश्च भिन्नपृष्ठाश्च सायकैः
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः
सम्भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत