सञ्जयः-
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्
अपयाने मनः कृत्वा फल्गुनं वाक्यमब्रवीत्
युधिष्ठिरः-
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्
निशीथे दारुणे काले तपन्तमिव भास्करम्
कर्णसायकनुन्नानां क्रोशतामेष निस्स्वनः
अनिशं श्रूयते पार्थ त्वद्बन्धूनामबन्धुवत्
यथा विसृजतश्चास्य सन्दधानस्य चाशुगान्
पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम्
सञ्जयः-
यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय
एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत्
अर्जुनः-
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात्
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः
भवान्व्यवस्यते किं वा द्रवते हि वरूथिनी
द्रोणसायकनुन्नानां भग्नानां मधुसूदन
कर्णेन त्रास्यमानानामवस्थानं न विद्यते
पश्यामि च तथा कर्णं विचरन्तमभीतवत्
द्रवमाणान्रथोदारान्किरन्तं निशितैश्शरैः
नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः
स भवानत्र यात्वाशु यत्र कर्णो महारथः
अहमेनं हनिष्यामि मां वैष मधुसूदन
श्रीभगवान्-
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्
नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्
न तु तावदहं मन्ये प्राप्तकालं तवानघ
समागमं महाबाहो सूतपुत्रेण संयुगे
दीप्यमाना महोल्केव शक्तिस्तिष्ठति वासवी
त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः
स तु भीमेन बलिना जातस्सुरपराक्रमः
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च
अब्रवीच्च तदाऽमर्षादयमस्म्यनुशाधि माम्
अस्माकं जीवितस्यापि हितैषी च घटोत्कचः
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम्
विजेष्यति रणे कर्णमिति मे नास्ति संशयः
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव
सञ्जयः-
श्रीभगवान्-
एवमुक्त्वा महाबाहुः पार्थः पुष्करलोचनः
घटोत्कच विजानीहि यथा वक्ष्यामि पुत्रक
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरग्रतः
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित्
कवची सरथी खड्गी सधन्वी च विशां पते
स त्वं निमज्जतां युद्धे बन्धूनां बान्धवो भव
अभिगम्य ततः कृष्णं पाण्डवं च धनञ्जयम्
विविधानि तवास्त्राणि सन्ति माया तु राक्षसी
पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनीम्
काल्यमानां रणे तात सिंहेनेवेतरान्मृगान्
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान्
किरन्तश्शरवर्षाणि महान्ति दृढधन्विनः
नाशक्नुवन्नवस्थातुं पीड्यमानाश्शरार्चिषा
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः
एते द्रवन्ति पाञ्चालास्सिंहस्येवेतरे मृगाः
एतस्यैव प्रवृत्तस्य सूतपुत्रस्य संयुगे
निषेद्धा विद्यते नान्यस्त्वादृते भीमविक्रम
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः
मातुलानां पितॄणां च तेजसाऽस्त्रबलेन च
एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः
तारयेयुः कथं दुःखात्तत्त्वं तारय बान्धवान्
त्वयि ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः
सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन
पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः
मज्जतां धार्तराष्ट्रेषु भव पारं महाबल
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः
बलवन्तस्सुदुर्धर्षाश्शूरा विक्रान्तचारिणः
जहि कर्णं महेष्वासं निशीथे मायया रणे
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः
सञ्जयः-
केशवस्य वचश्श्रुत्वा बीभत्सुरपि राक्षसम्
अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम्
अर्जुनः-
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः
स भवान्यातु कर्णेन द्वैरथं निशि युध्यताम्
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः
जहि कर्णं रणे शूरं सात्वतेन सहायवान्
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्
घटोत्कचः-
एवमेव महाबाहो यथा वदसि मां प्रभो
त्वया नियुक्तो गच्छामि कर्णस्य वधकाङ्क्षया
अलमेवास्मि कर्णाय द्रोणायालं च सत्तम
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि
यं जनास्सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन्
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः
सञ्जयः-
एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन्
तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम्
अभिघ्नन्परमेष्वासः प्रतिजग्राह सूतजः
ततस्समभवद्युद्धं कर्णराक्षसयोर्निशि
गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति
आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे
अब्रवीत्तत्र पुत्रस्ते दुश्शासनमिदं वचः
दुर्योधनः-
एष पार्थो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्
अभियाति द्रुतं कर्णं तं वारय महारथम्
वृतस्सैन्येन महता याहि यत्र महाबलः
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति
रक्ष कर्णं रणे यत्तो वृतस्सैन्येन मानद
सञ्जयः-
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली
दुर्योधनमुपागम्य प्राह प्रहरतां वरः
जटासुरसुतः-
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान्
पाण्डवान्हन्तुमिच्छामि त्वयाऽऽज्ञप्तस्समागतन्
जटासुरो मम पिता रक्षसां ग्रामणीः पुरा
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः
तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वरः
सञ्जयः-
तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः
द्रोणकर्मादिभिस्सार्धं पर्याप्तं च द्विषज्जये
दुर्योधनः-
त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम्
सञ्जयः-
तथेत्युक्त्वा महाकायस्समाहूय घटोत्कचम्
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम्
हैडिम्बः प्रममाथैको विष्वग्वातोम्बुदानिव
मायामयं समास्थाय रथं तूर्णमलम्बलः
घटोत्कचं शरव्रातैर्नानालिङ्गैस्समार्पयत्
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलम्बलः
व्यद्रावयच्छरै राजन् पाण्डवानामनीकिनीम्
तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष
निशीथे विप्रकीर्यन्त वातनुन्ना इव द्रुमाः
घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्कास्समन्ततः
अलम्बलं ततः क्रुद्धो भैमसेनिर्महामृधे
आजघ्ने बहुभिर्बाणैस्तोत्रैरिव महाद्विपम्
तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च
घटोत्कचः प्रचिच्छेद व्यनदञ्च्चापि भैरवम्
ततः कर्णं शरशतैः कुरूंश्चापि सहस्रशः
अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम्
ततस्सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह
जाटासुरिर्महाराज विरथो हतसारथिः
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्भृशम्
मुष्टिनाऽभिहतस्तेन प्रचचाल घटोत्कचः
क्षितिकम्पे यथा शैलस्सवृक्षस्तृणगुल्मवान्
ततस्स परिघाभेन द्विट्सद्घ्नेन च बाहुना
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले
जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात्
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रवत्
अलम्बलोऽप्यथाक्षिप्य समुमुत्पाट्य च राक्षसम्
घटोत्कचं बलात्क्रोधान्निष्पिपेष महीतले
तयोस्समभवद्युद्धं गर्जतोरतिकाययोः
घटोत्कचालम्बलयोस्तुमुलं रोमहर्षणम्
विशेषयेतामन्योन्यं मायाभिरतिमायिनौ
युयुधाते महावीर्याविन्द्रवैरोचनाविव
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ
पुनः कुञ्जरशार्दूलौ पुनस्स्वर्भानुभास्करौ
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ
भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ
परिघैश्च गदाभिश्च प्रासतोमरपट्टसैः
मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः
हयाभ्यां च गजाभ्यां च रथाभ्यां पत्तिभिस्सह
युयुधाते महामायौ राक्षसप्रवरौ युधि
ततो घटोत्कचो राजन्नलम्बलवधेप्सया
उत्पतात भृशं क्रुद्धश्श्येनवन्निपपात ह
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम्
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे
ततो घटोत्कचः खड्गमुड्गृह्याद्भुतदर्शनम्
निचकर्त शिरः कायाद्भीमं विकृतदर्शनम्
तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः
घटोत्कचो ययावाशु दुर्योधनरथं प्रति
अभ्येत्य च महाबाहुस्स्मयमानो घटोत्कचः
रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम्
प्राणदद्भैरवं नादं प्रावृषीव बलाहकः
अब्रवीत्स ततो राजन्दुर्योधनमिदं वचः
घटोत्कचः-
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः
पुनर्द्रक्ष्यसि कर्णस्य निष्ठामेतां तथाऽऽत्मनः
सञ्जयः-
एवमुक्त्वा ततः प्रायात्कर्णं प्रति स राक्षसः
किरञ्छरगणांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि
ततस्समभवद्युद्धं घोररूपं भयावहम्
अत्यद्भुतं महाराज नरराक्षसयोर्मृधे