सञ्जयः-
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः
अमृष्यमाणास्संरब्धा युयुधानरथं प्रति
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः
सादिभिश्च गजैश्चैव परिवव्रुस्स्म सात्वतम्
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः
सिंहनादांस्तदा चक्रुस्तर्जयन्तश्च सात्यकिम्
तेऽभ्यवर्षञ्छरैस्तीक्ष्णैस्सात्यकिं सत्यविक्रमम्
त्वरमाणा महावीर्या माधवस्य वधैषिणः
तान्दृष्ट्वाऽऽपततस्तूर्णं शैनेयः परवीरहा
प्रत्यगृह्णान्महाबाहुर्विमुञ्चन्विशिखान्बहून्
तत्र वीरो महेष्वासस्सात्यकिर्युद्धदुर्मदः
निचकर्त शिरांस्युग्रैश्शरैस्सन्नतपर्वभिः
हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान्
क्षुरप्रैरर्धचन्द्रैश्च तावकानां स माधवः
पताकैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत
बभूव वसुधा कीर्णा नक्षत्रैर्द्यौरिव प्रभो
तेषां तु युयुधानेन युध्यतां निशि भारत
बभूव तुमुलश्शब्दः प्रेतानां क्रन्दतामिव
तेन शब्देन महता पूरिताऽभूद्वसुन्धरा
रात्रिस्समभवच्चैव तीव्ररूपा भयावहा
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्
तस्मिंस्तु तुमुले युद्धे निशायां रोमहर्षणे
दुर्योधनोऽब्रवीद्वाक्यं सारथिं रथिनां वरः
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः
तेनैव चोद्यमानस्तु ततस्तांस्तुरगोत्तमान्
सूतस्सञ्चोदयामास युयुधानरथं प्रति
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्
ततः कार्मुकनिर्मुक्तैर्निमुक्तोरगसन्निभैः
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत
दुर्योधनस्तेन तथा पूर्वमेवार्दितश्शरैः
शैनेयं दशभिर्बाणैः प्रत्यविध्यत मारिष
ततस्समभवद्युद्धमाकुलं भरतर्षभ
पाञ्चालानां च सर्वेषां भरतानां च दारुणम्
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्
सायकानामशीत्याऽशु विव्याधोरसि भारत
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम्
सारथिं च रथात्तूर्णं पातयामास पत्रिणा
हताश्वे तु रथेऽतिष्ठन्पुत्रस्तव विशां पते
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति
शरान्पञ्चशतांस्तस्मै शैनेयः कृतहस्तवत्
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः
चिच्छेद तरसा युद्धे तव पुत्रस्य माधव
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्
विद्रावयामास शरैर्निशामध्ये विशां पते
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः
रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः
तथा हयसहस्रैश्च तुमुलस्सर्वतोऽभवत्
ते महास्त्राणि दिव्यानि विकिरन्तो महाबलाः
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः
तान्यर्जुनस्सहस्राणि रथवारणवाजिनाम्
प्रत्यवारयदायत्तः प्रकुर्वन्विपुलं क्षयम्
ततस्तु समरे शूरश्शकुनिस्सौबलस्तदा
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव
पुनश्चैव शतेनास्य संरुरोध महारथम्
तमर्जुनस्तु विंशत्या विव्याध युधि भारत
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत
संवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः
न्यहनत् तावकान्योधान्वज्रपाणिरिवासुरान्
भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः
संस्तीर्णा वसुधा तत्र बभौ पुष्पैरिवावृता
स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः
उलूकं पुनराजघ्ने त्रिभिरेव महायशाः
स तु तेन समाविद्धः क्रोधाद्द्विगुणविक्रमः
शरैरनेकसाहस्रैस्सोऽर्जुनं प्रत्यविध्यत
तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत्
ननाद च महानादं पूरयन्वसुधातलम्
अर्जुनस्सारथिं हत्वा शकुनेर्धनुरच्छिनत्
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति
ततो रथादवप्लुत्य सौबलो भरतर्षभ
उलूकस्य रथं तूर्णमारुरोह विशां पते
तावेकरथमारूढौ पितापुत्रौ महारथौ
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः
तौ तु रुद्ध्वा महाराज पाण्डवो निशितैश्शरैः
न्यवारयत्तव चमूं शतशो व्यधमच्छरैः
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः
विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते
तद्बलं भरतश्रेष्ठ वध्यमानं तदा निशि
प्रदुद्राव दिशस्सर्वा वीक्षमाणं भयार्दितम्
उत्सृज्य समरे वाहांश्चोदयन्तस्तथाऽपरे
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे
विजित्य समरे योधांस्तावकान्भरतर्षभ
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिश्शरैः
चिच्छेद धनुषस्तस्य ज्यां शरेण शितेन ह
तन्निधाय धनुर्विज्यं द्रोणः क्षत्रियमर्दनः
आददेऽन्यद्धनुश्शूरो वेगवत्सारवत्तरम्
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः
व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
उभयोस्सेनयोर्मध्ये नराश्वद्विपवाहिनी
तथा वैतरणी राजन्यमराष्ट्रपुरं प्रति
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान्
अभ्यराजत तेजस्वी शक्रो देवगणेष्विव
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः
जित्वा रथसहस्राणि तावकानां महारथाः
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः
पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः
क्रोधेन महताऽऽविष्टः पुत्रस्तव विशां पते
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्
दुर्योधनः-
भवद्भ्यामिह सङ्ग्रामः क्रुद्धाभ्यां सम्प्रवर्तितः
अयोधने हतं दृष्ट्वा सैन्धवं सव्यसाचिना
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्
दृष्ट्वा तद्विजये शक्तावशक्ताविव दृश्यतः
भवद्भ्यां यद्यहं त्याज्यो निवार्योऽस्मि तदैव हि
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ
तदेवाहं वचश्श्रुत्वा भवतोर्मनुजर्षभौ
कृतवान्पाण्डवैस्सार्धं वैरं योधविनाशनम्
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ
सञ्जयः-
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते
प्रावर्तयेतां तौ युद्धं गरुडाविव पन्नगैः
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ
शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे
तथैव सहिताः पार्थास्स्वेन वीर्येण सर्वशः
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः
अथ द्रोणो महेष्वासो दशभिश्शिनिपुङ्गवम्
अविध्यत्त्वरितं क्रुद्धस्सर्वशस्त्रभृतां वरः
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः
एते कौरव सङ्क्रन्दे शैनेयं पर्यवारयन्
दृष्ट्वा तु समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्
विव्यधुस्सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः
तत्र द्रोणोऽहरत्प्राणान्योधानां तु विशां पते
रश्मिभिर्भास्करो राजंस्तेजोऽन्यदिव भारत
द्रोणेन वध्यमानानां पाञ्चालानां विशां पते
शुश्रुवे तुमुलश्शब्दः क्रोशतामितरेतरम्
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्
भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान्
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः
पाण्डवानां रणे योधाः परलोकं तथा परे
सा तथा पाण्डवी सेना पीड्यमाना महात्मना
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्कास्सहस्रशः
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च
यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः
तमसा संवृते लोके न प्राज्ञायत किञ्चन
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ
जघ्नतुः पृष्ठतो राजन्निघ्नन्तौ सायकैर्बहून्
पाञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः
जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम्
श्रीभगवान्-
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी
पाञ्चालांश्चैव सहितौ जघ्नतुस्सायकैर्भृशम्
सञ्जयः-
एतयोश्शरवर्षेण प्रभग्ना नो महारथाः
वार्यमाणाऽपि कौन्तेय पृतना नावतिष्ठते
तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ
श्रीभगवदर्जुनौ-
मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः
एतावावां सर्वसैन्यैर् व्यूहैस्सम्यगुदायुधैः
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम्
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ
उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम्
एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम्
सञ्जयः-
वृकोदरं तथाऽऽयान्तं दृष्ट्वा तत्र जनार्दनः
पुनरेवाब्रवीद्राजन्दर्शयन्निव पाण्डवम्
श्रीभगवान्-
एष भीमो रणश्लाघी वृतस्सोमकपाण्डवैः
रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ
एतेन सहितो युद्धे पाञ्चालैश्च महारथैः
आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन
सञ्जय उवाच
एतौ हि पुरुषव्याघ्रावुभौ माधवपाण्डवौ
द्रोणकर्णौ समासाद्य विष्ठितौ रणमूर्धनि
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान्
यथा सागरयो राजंश्चन्द्रोदयविरुद्धयोः
तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी
युयुधे पाण्डवैस्सार्धमुन्मत्तवदहःक्षये
रजसा तमसा चैव संवृते भृशदारुणे
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः
प्रहरद्भिर्महाराज स्वयंवर इवाहवे
निश्शब्दमासीत्सहसा पुनश्शब्दो महानभूत्
क्रुद्धानां युध्यमानानां जयतां जीर्यतामपि
यत्र यत्र प्रदृश्यन्ते प्रदीपाः कुरुसत्तम
तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत्
तथा संयुध्यमानानां विगाढाऽऽभून्महानिशा
पाण्डवानां च राजेन्द्र कौरवाणां च मारिश
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा
आजघानरोसि शरैर्दशभिर्मर्मभेदिभिः
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष
पञ्चभिस्सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत्
तावन्योन्यं शरैस्सङ्ख्ये सञ्छाद्य सुमहारथौ
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः
कार्मुकप्रवरं चास्य प्रचिच्छेद शितैश्शरैः
सारथिं चास्य भल्लेन रथनीडादपाहरत्
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीडयत्
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः
ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत
आरुरोह रथं चापि सहदेवस्य मारिष
कर्णस्यापि रथे वाहानन्यान्सूतोऽभ्ययोजयत्
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः
लब्धलक्षस्तु राधेयः पञ्चालानां महारथान्
अभ्यपीडयदायस्तश्शरैर्मेघ इवाचलान्
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले
रथेभ्यश्च भयात्तूर्णमदृश्यन्त ततस्ततः
एतस्मिन्नेव काले तु सूतपुत्रो महारथः
चकार कदनं घोरं पाण्डुसैन्येषु भारत
धावमानस्य योधस्य क्षुरप्रैस्स महामृधे
बाहू चिच्छेद वै कर्णश्शिरश्चैव सकुण्डलम्
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष
सञ्छिन्नानि तु गात्राणि वाहनानि च संयुगे
ते वध्यमानास्समरे पाञ्चालास्सृञ्जयैस्सह
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे
अपि ये समरे योधा धावमाना विचेतसः
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते
तान्यनीकानि भग्नानि द्रवमाणानि भारत
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान्
अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः
द्रोणेन च दिशस्सर्वा वीक्षमाणाः प्रदुद्रुवुः