सञ्जयः-
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयावहे
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत
सम्मृशानो धनुश्श्रेष्ठं विकुर्षंश्च पुनः पुनः
अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम्
धृष्टद्युम्नं द्रुतं यान्तं द्रोणस्यान्तचिकीर्षया
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैस्सह
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम्
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे
बलार्णवौ ततस्तौ तु समेयातां निशामुखे
वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिश्शरैः
विव्याध हृदये तूर्णं सिंहनादं ननाद च
तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे
चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम्
धृष्टद्युम्नस्तु निर्विद्धो रणे द्रोणेन भारत
उत्ससर्ज धनुस्तूर्णं सन्दष्टदशनच्छदः
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्
आदायान्यद्धनुर्दिव्यं द्रोणस्यान्तचिकीर्षया
विकृष्य च धनुश्श्रेष्ठमाकर्णात्परवीरहा
द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः
स चित्सृष्टो बलवता शरो घोरो महामृधे
भासयामास तत्सैन्यं दिवाकर इवोदितः
तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः
तं तु सायकमायान्तमाचार्यस्य रथं प्रति
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्
स च्छिन्नो बहुधा राजन्सूतपुत्रेण मारिष
निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः
छित्त्वा तु समरे बाणं शरैस्सन्नतपर्वभिः
धृष्टद्युम्नं ततः कर्णो विव्याध दशभिश्शरैः
पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणस्तु सप्तभिः
शल्यश्च नवभिर्बाणैस्त्रिभिर्दुश्शासनस्तथा
दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः
पाञ्चाल्यं त्वरयाऽविध्यन्सर्व एव महारथाः
स विद्धस्सप्तभिर्वीरैर्द्रोणत्रार्थमहाहवे
सर्वानसम्भ्रमाद्राजन्प्रत्यविद्ध्यत्त्रिभिस्त्रिभिः
द्रोणं कर्णं च द्रौणिं च विव्याध तव चात्मजम्
ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मृधे
विव्यधुश्चैनमेकैकः पञ्चभी रथिनां वरम्
द्रुमसेनस्तु सङ्क्रुद्धः कर्णं विव्याध पत्रिणा
त्रिभिश्चान्यैश्शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः
स्वर्णपुङ्खैश्शिलाधौतैः प्राणान्तकरणैर्युधि
भल्लेनान्येन स पुनस्सुवर्णोज्ज्वलकुण्डलम्
उन्ममाथ शिरः कायाद्द्युमत्सेनस्य वीर्यवान्
तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे
महावातसमुद्धूतं पक्वं तालफलं यथा
द्युमत्सेनं हतं दृष्ट्वा धृष्टद्युम्नः प्रतापवान्
कर्णमभ्यर्दयद्राजन् सायकैर्बहुभिशिशितैः
तांश्च विद्ध्वा पुनर्वीरान् वीरस्सुनिशितैश्शरैः
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः
न च तन्ममृषे कर्णो धनुषश्छेदनं तथा
निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः
सोऽन्यद्धनुस्समादाय क्रोधरक्तेक्षणश्श्वसन्
अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम्
दृष्ट्वा कर्णं तु संरब्धं ते वीराष्षण्महारथाः
पाञ्चालपुत्रं त्वरिताः परिवव्रुर्जिघांसया
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम्
धृष्टद्युम्नमनुप्राप्तं मृत्युराष्ट्रममंस्महि
एतस्मिन्नेव काले तु दाशार्हो विसृजञ्छरान्
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः
तं सात्यकिर्महाराज विव्याध दशभिश्शरैः
पश्यतां सर्वसैन्यानां मा गास्तिष्ठेति चाब्रवीत्
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः
आसीत्समागमो राजन्बलिवासवयोरिव
त्रासयन्रथघोषेण क्षत्रियान्क्षत्रियर्षभः
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत
कम्पयन्निव घोषेण धनुषो वसुधां बली
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि
कर्णश्शरशतैश्चित्रैश्शैनेयं प्रत्यविद्ध्यत
तथैव युध्यमानोऽपि वृष्णीनां प्रवरो रथी
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्
तावकाश्च महाराज कर्णपुत्रश्च दंशिताः
सात्यकिं विव्यधुस्तूर्ण समन्तान्निशितैश्शरैः
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभि भो
अविद्ध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे
तेन बाणेन निर्विद्धो वृषसेनो विशां पते
न्यषीदत्समरे वीरो धनुरुत्सृज्य वीर्यवान्
ततः कर्णो हतं मत्वा वृषसेनं महारथम्
पुत्रशोकाभिसन्तप्तस्सात्यकिं प्रत्यपीडयत्
पीड्यमानस्तु कर्णेन युयुधानो महारथः
विव्याध बहुभिः कर्णं त्वरन्बाणैः पुनः पुनः
स कर्णं दशभिर्विद्ध्वा वृषसेनं च पञ्चभिः
हस्तावापे च धनुषी तयोश्चिच्छेद सात्वतः
तावन्ये धनुषी सज्ये कृत्वा शत्रुभयङ्करे
युयुधानमविध्येतां समन्तान्निशितैश्शरैः
वर्तमाने तु सङ्ग्रामे तस्मिन्वीरवरक्षये
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्स्वनम्
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः
कर्णः-
एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान्
कौरवांश्च महेष्वासान्गाण्डीवनिनदो महान्
श्रूयते रथनिघोषो वासवस्येव नर्दतः
करोति पाण्डवो नित्यं कर्मौपयिकमात्मनः
एषा विदीर्यते राजन्बहुधा भारती चमूः
विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित्
वातेनेव समुद्धूतं मेघजालं विदीर्यते
सव्यसाचिनमालोक्य भिन्ना नौरिव सागरे
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति
अयं मध्ये स्थितोऽस्माकं सात्यकिsaसात्वताधमः
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्
एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः
सर्वतस्संवृतश्शूरै राजन् पुरुषसत्तम
सात्यकिं यदि हन्याम धृष्टद्युम्नं च पार्षतम्
असंशयं महाराज ध्रुवो नो विजयो भवेत्
सौभद्रवदिमौ वीरौ परिवार्य महारथौ
प्रयतौ तु महाराज निहन्तुं वृष्णिपार्षतौ
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः
यावत्पार्थो न चायाति सात्यकिं बहुभिर्वृतम्
ते त्वरध्वं यथा शूराश्शराणां मोक्षणे भृशम्
यथा तूर्णं व्रजत्येष परलोकाय माधवः
सञ्जयः-
कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम्
यथेन्द्रस्समरे राजन्प्राह विष्णुं यशस्विनम्
दुर्योधनः-
वृतस्सहस्रैर्दशभिर्गजानामनिवर्तिनाम्
रथैश्च दशसाहस्रैर्वृतो याहि धनञ्जयम्
दुश्शासनो दुर्विषहस्सुबाहुर्दुष्प्रधर्षणः
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः
जहि कृष्णौ महाबाहो धर्मराजं च मातुल
नकुलं सहदेवं च भीमसेनं च पाण्डवम्
देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता
जहि मातुल कौन्तेयानसुरानिव पावकिः
सञ्जयः-
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः
महत्या सेनया सार्धं तव पुत्रैश्च दंशितैः
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डवान्रणे
ततः प्रववृते युद्धं तावकानां परैस्सह
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम्
बलेन महता युक्तस्सूतपुत्रस्तु सात्वतम्
अभ्ययात्त्वरितो युद्धे किरञ्शरशतान्बहून्
तथैव पाण्डवास्सर्वे सात्यकिं पर्यवारयन्
महद्युद्धं तदा ह्यासीद्द्रोणस्य निशि भारत
धृष्टद्युम्नेन शूरेण पाञ्चालैश्च सहाद्भुतम्