सञ्जयः-
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव
चित्रसेनस्तव सुतो वारयामास भारत
नाकुलिश्चित्रसेनं तु नााचैरर्दयद्भृशम्
स तु तं प्रतिविव्याध नवभिर्निशितैश्शरैः
चित्रसेनो महाराज शतानीकं पुनर्युधि
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे
नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः
गात्रात्प्रच्यावयामास तदद्भुतमिवाभवत्
सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः
धनुश्चैव महाराज यतमानस्य संयुगे
स च्छिन्नधन्वा समरे विवर्मा च महारथः
धनुरन्यन्महाराज जग्राहारिविदारणम्
ततस्तूर्णं चित्रसेनो नाकुलिं निशितैश्शरैः
विव्याध समरे क्रुद्धो भरतानां महारथः
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष
जघान चतुरो वाहान्सारथिं च नरोत्तमः
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्
वृषसेनोऽभ्ययाद्राजन्किरन्निषुगणैस्तथा
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं महारथम्
बहुभिस्सायकैस्तीक्ष्णैराजघान स्तनान्तरे
तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव
रुक्मपुङ्खैरजिह्माङ्गैश्शरैश्छिन्नतनुच्छदौ
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ
किंशुकाविव चोत्फुल्लौ चकाशाते रणाजिरे
वृषसेनशरैर्नुन्नो व्यपायासीन्महीपतिः
वृषसेनस्ततो राजन्नवभिर्द्रुपदं रणे
विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिश्शरैः
ततश्शरसहस्राणि विमुञ्चन्विबभौ तदा
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः
ततस्तद्रुपदानीकं शरैश्छिन्नतनुच्छदम्
सम्प्राद्रवद्रणाद्राजन्निशीथे भैरवे सति
प्रदीपैर्हि परित्यक्ता ज्वलद्भिस्तैस्समन्ततः
व्यराजद्वसुधा तत्र वीताभ्रा द्यौरिव ग्रहैः
तथाऽङ्गदैर्निपतितैर्व्यराजत वसुन्धरा
प्रावृषीव महाराज विद्युद्भिर्जलदावली
तत्र कर्णसुतत्रस्तास्सोमका विप्रदुद्रुवुः
यथेन्द्रभयवित्रस्ता दानवास्तारकामये
तेनार्द्यमानास्समरे द्रवमाणाश्च सोमकाः
व्यकाशन्त महाराज प्रदीपैरवभासिताः
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत
मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत
तेषु राजसहस्रेषु तावकेषु परेषु च
एष एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्
स विजित्य रणे शूरान्सोमकानां महारथान्
जगाम त्वरितो राजन् यत्र राजा युधिष्ठिरः
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्
दुश्शासनस्तव सुतः प्रत्युद्गच्छन्महारथः
तयोस्समागमो राजंश्चित्ररूपो बभूव ह
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम्
अपूजयन्महाराज तव सैन्ये महारथाः
दुश्शासनं त्रिभिर्बाणैर्ललाटे प्रत्यविध्यत
सोऽतिविद्धो बलवता तव पौत्रेण धन्विना
विरराज महाबाहुस्त्रिशृङ्ग इव पर्वतः
दुश्शासनस्तु समरे प्रतिविन्ध्यं महारथः
नवभिस्सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम्
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः
सारथिं चास्य भल्लेन ध्वजं च समपातयत्
रथं च तिलशो राजन्व्यधमत्तस्य धन्विनः
पताकाश्च सतूणीरा रश्मीन्योक्त्राणि चाभि भो
चिच्छेद तिलशः क्रुद्धश्शरैस्सन्नतपर्वभिः
विरथस्स तु धर्मात्मा धनुष्पाणिरवस्थितः
अयोधयत्तव सुतं किरञ्शरशतान्बहून्
क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव
अथैनं दशभिर्बाणेश्छिन्नधन्वानमार्दयत्
तं दृष्ट्वा विरथं तूर्णं भ्रातरोऽस्य महारथाः
अन्ववर्तन्त वेगेन महत्या सेनया वृताः
सोऽवप्लुतस्ततो यानं सुतसोमस्य भास्वरम्
धनुर्गृह्य महाराज विव्याध तनयं तव
ततस्तु तावकास्सर्वे परिवार्य सुतं तव
अभ्यवर्तन्त वेगेन महत्या सेनया वृताः
ततः प्रववृते युद्धं तव तेषां च भारत
निशीथे दारुणे काले यमराष्ट्रविवर्धनम्
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत
तथैव सौबलोऽप्यस्मिन् शिक्षां सन्दर्शयन्युधि
तावुभौ समरे शूरौ शरकण्टकिनौ तदा
व्यराजेतां महाराज कण्टकैरिव शाल्मली
सजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्
स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव
कर्णिनैकेन विव्याध हृदये निशितेन च
नकुलस्तु भृशं विद्धस्स्यालेन तव धन्विना
निषसाद रथोपस्थे कश्मलं चैनमाविशत्
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम्
ननाद शकुनी राजंस्तपान्ते जलदो यथा
प्रतिलभ्य ततस्सञ्ज्ञां नकुलः पाण्डुनन्दनः
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः
सङ्क्रुद्धश्शकुनिं षष्ट्या विव्याध भरतर्षभ
पुनश्चैव शतेनैव नाराचानां समाचिनोत्
ततोऽस्य सशरं चापं मुष्टिदेशेऽच्छिनद्द्विधा
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्
ततस्सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः
निर्जित्य तु रणे शत्रून्नकुलश्शत्रुतापनः
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह
तस्य तद्वचनं श्रुत्वा यन्ता तस्य महात्मनः
प्रायात्तस्य रणे राजन्येन द्रोणोऽभ्ययुध्यत
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते
कृपश्शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः
गौतमं तु तथा यान्तं द्रोणस्यार्थचिकित्सया
विव्याध नवभिर्भल्लैश्शिखण्डी प्रहसन्निव
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव
महद्युद्धं तयोरासीद्घोररूपं भयानकम्
यथा देवासुरे युद्धे शम्बरामरराजयोः
शरजालावृतं व्योम चक्रतुस्तौ महारथौ
प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्
कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा
शिखण्डी तु महाराज गौतमस्य महद्धनुः
अर्धचन्द्रेण चिच्छेद सशरं निशितेन च
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्
तामापतन्तीं चिच्छेद शिखण्डी बहुभिश्शरैः
साऽपतन्मेदिनीं कृत्वा भासयन्ती महाप्रभाम्
अथान्यद्धनुरादाय गौतमो रथिनां वरः
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्
स च्छाद्यमानस्समरे गौतमेन यशस्विना
न्यषीदत रथोपस्थे शिखण्डी बहुभिश्शरैः
सीदन्तं चैनमालोक्य कृपश्शारद्वतो युधि
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्
पाञ्चालास्सोमकाश्चैव परिवव्रुस्समन्ततः
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्
महत्या सेनया सार्धं ततो युद्धमवभूत्पुनः
रथानां च रणे राजन्नन्योन्यमभिधावताम्
बभूव तुमुलश्शब्दो मेघानां स्तनतामिव
द्रवतां सादिनां चैव गजानां च विशां पते
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी
अकम्पत महाराज योषेव भयविह्वला
रथा रथं स्मासाद्य प्रद्रुताः खगवद्द्रुतम्
व्यगृह्णन्बहवो राजञ्शलभान्खगमा इव
तथा गजान्प्रभिन्नांस्तु सप्रभिन्ना महागजाः
तस्मिन्नेव पदे यत्तास्सुनिगृह्णन्ति भारत
सादी सादिनमासाद्य पदातींशचापि पत्तयः
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः
धावतां द्रवतां चैव पुनरावर्ततामपि
बभूव तव सैन्यानां शब्दस्सुतुमुलो निशि
दीप्यमानास्सुदीपाश्च रथवारणवाजिषु
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता
दिवसप्रतिमा राजन्बभूव रणमूर्धनि
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति
तथा नष्टं तमो घोरं दीप्तैर्दीपैरलङ्कृतम्
शस्त्राणां कवचानां च मणीनां च महात्मनाम्
अन्तर्दधुः प्रभास्सर्वा दीपैस्तैरवभासिताः
तस्मिल्ँलिकोत्तमे युद्धे वर्तमाने निशामुखे
अवधीत्समरे पुत्रं पिता भरतसत्तम
पुत्रश्च पितरं मोहात्सखायं च सखा तथा
सम्बन्धिनं च सम्बन्धी स्वस्रीयं चापि मातुलः
स्वे स्वान्परे परांश्चापि निजघ्नुस्तत्र भारत
निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम्