सञ्जयः-
सहदेवं तथा यान्तं द्रोणप्रेप्सुं विशां पते
कर्णो वैकर्तनो युद्धे वारयामास वीर्यवान्
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्
सज्यं चास्य धनुश्शीघ्रं चिच्छेद लघुहस्तवत्
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान्
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्
तस्य कर्णो हयान्हत्वा शरैस्सन्नतपर्वभिः
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्
विरथस्सहदेवस्तु खड्गं चर्म समाददे
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव
ततो गुर्वीं गदां घोरां हेमचित्रामयस्मयीम्
प्रेषयामास समरे वैकर्तनरथं प्रति
तामापतन्तीं सहसा सहदेवप्रचोदिताम्
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत्
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः
असम्भ्रान्तस्ततस्तूर्णमवप्लुत्य रथोत्तमात्
सहदेवो महाराज दृष्ट्वा कर्णमवस्थितम्
रथचक्रं ततो गृह्य मुमोचातिरथं प्रति
तमापतन्तं सहसा कालचक्रमिवोद्यतम्
शरैरनेकसाहस्रैराच्छिनत्सूतनन्दनः
तस्मिंस्तु वितथे चक्रे कृतेऽनेन महात्मना
वार्यमाणस्तु विशिखैस्सहदेवो रणं जहौ
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते
कर्णः-
मा युध्यस्व रणे वीर विशिष्टैररिभिस्सह
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्कथाः
सञ्जयः-
अथैनं धनुषोग्रेण तुदन्भूयोऽब्रवीद्वचः
कर्णः-
एषोऽर्जुनो रणे शूरो युध्यते कुरुभिस्सह
तत्र त्वं गच्छ माद्रेय गृहं वा यदि मन्यसे
सञ्जयः-
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः
प्रायात्पाञ्चालपाण्डूनां बलानि प्रमथन्निव
वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा
स्मृत्वा कुन्त्या वचो राजन्सत्यसन्धो महारथः
सहदेवस्ततो राजन्विमनाश्शरपीडितः
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत
आरुरोह रथं तूर्णं पाञ्चाल्यस्य महात्मनः
जनमेजयस्य समरे त्वरायुक्तो महारथः
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम्
मद्रराजश्शरौघेण च्छादयामास धन्विनम्
तयोस्समभवद्युद्धं समरे दृढधन्विनोः
यादृशं ह्यभवद्युद्धं जम्भवासवयोः पुरा
मद्रराजो महाराज विराटं पृतनापतिम्
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम्
प्रतिविव्याध तं राजन्नवभिर्निशितैश्शरैः
पुनश्चान्यैस्त्रिसप्तत्या भूयश्चैव शतेन तु
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः
सूतं ध्वजं च समरे शराभ्यां सन्न्यपातयत्
हताश्वात्तु रथात्तूर्णमवप्लुत्य महीपतिः
तस्थौ विष्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान्
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः
शतानीकमथायान्तं मद्राराजो महामृधे
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्
ततो विष्फार्य नयने क्रोधाद्द्विगुणविक्रमः
मद्रराजरथं तूर्णं छादयामास पार्थिवः
ततो मद्राधिपश्शूरश्शरेणानतपर्वणाम्
आजघानोरसि दृढं विराटं वाहिनीपतिम्
सोऽतिविद्धो बलवता रथोपस्थ उपाविशत्
कश्मलं चाविशत्तूर्णं विराटो भरतर्षभ
सारथिस्तमपोवाह समरे शरविक्षतम्
ततस्तु पाण्डवी सेना प्राद्रवन्निशि भारत
वध्यमाना शरशतैश्शल्येनाहवशोभिना
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलायुधः
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः
लोहितार्द्रपताकं तं चित्रमाल्यविभूषितम्
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत्
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता
ध्वजेनोच्छ्रितदण्डेन गृध्ररूपेण पक्षिणा
स बली राक्षसो राजन्भिन्नाञ्जनचयोपमः
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि
अतितीव्रं महाद्युद्धं नरराक्षसयोर्मृधे
ईक्षितृप्रीतिजननं सर्वेषामेव भारत
गृध्रकाकबलोलूककङ्कगोमायुहर्षणम्
तमर्जुनश्शतेनैव पत्रिणामभ्यताडयत्
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम्
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्
विरथस्योद्यतं खड्गं शरेणास्य द्विधाऽच्छिनत्
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात्
तं विजित्यार्जुनस्सङ्ख्ये द्रोणान्तिकमुपाययौ
किरन्निषुगणान्राजन्रथवारणवाजिषु
वध्यमाना महाराज पाण्डवेन यशस्विना
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः
तेषु तूत्साद्यमानेषु पाण्डवेन महात्मना
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते