सञ्जयः-
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम्
आपतन्तमपासेधत्प्रपातादिव कुञ्जरम्
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैश्शरैः
विव्याध समरे तूर्णं तेऽपिबंस्तस्य शोणितम्
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम्
दशिभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम्
क्रोधसंरक्तनयनौ क्रोधाद्विष्फार्य कार्मुके
तयोरासीन्महाराज शस्त्रवृष्टिस्सुदारुणा
क्रुद्धयोस्सायकमुचोर्यमान्तकनिकाशयोः
तावन्योन्यं शरव्रातैः प्रच्छाद्य समरे स्थितौ
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत्
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव
छिन्नधन्वा महाराज सात्वतः क्रोधमूर्च्छितः
प्रजहार महावेगां शक्तिं तस्य महोरसि
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात्
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः
अभ्यधावत वेगेन शैनेयं प्रति संयुगे
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्येव तियदः
तमापतन्तं वेगेन शैनेयस्य रथं प्रति
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः
घटोत्कचः-
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
एष त्वां निहनिष्यामि महिषं मृगराडिव
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
सञ्जयः-
इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा
द्रोणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः
शरवृष्टिं शरैर्द्रौणिरप्राप्तामन्वशातयत्
ततश्शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दमम्
स शरैराचितस्तेन राक्षसो रणमूर्धनि
व्यराजत महाराज श्वाविट्छललतो यथा
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान्
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः
क्षुरप्रैरर्धचन्द्रैश्च नाराचैस्सशिलीमुखैः
वराहकर्णैरन्यैश्च विकर्णैश्चाप्यपीडयत्
तां शस्त्रवृष्टिं तुमुलां वज्राशनिसमस्वनाम्
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः
सुदुस्सहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः
व्यधमत्सुमहातेजा महाभ्राणीव मारुतः
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत्
घोररूपो महाराज योधानां प्रीतिवर्धनः
ततोऽस्त्रसङ्घर्षकृतैर्विष्फुलिङ्गैरितस्ततः
बभौ निशामुखे व्योम खद्योतैरिव संवृतम्
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः |
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत्
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे
विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्
जघानोरसि सङ्क्रुद्धः कालज्वलनसन्निभैः
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः
स मोहं समरे प्राप्तो ध्वजयष्टिं समाश्रितः
ततो हाहाकृतं सर्वं तव सैन्यं जनाधिप
हतं सम्मेनिरे सर्वे द्रोणसूनुं जनाधिपाः
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे
पाञ्चालास्सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे
प्रतिलभ्य ततस्सञ्ज्ञामश्वत्थामा महाबलः
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः
विवेश वसुधामुग्रस्सपुङ्खः पृथिवीपते
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
राक्षसेन्द्रस्स बलवान्द्रौणिना रणशालिना
दृष्ट्वा विमूढं हैडिम्बं राक्षसं तं रणाजिरात्
द्रौणेस्सकाशात्सम्भ्रान्तस्त्वपनिन्येऽथ सारथिः
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम्
ननाद सुमहानादं द्रोणपुत्रो महाबलः
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत
वपुषाऽतिप्रजज्वाल मध्याह्न इव भास्करः
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैश्शरैः
तं भीमसेनो नवभिश्शरैर्विव्याध भारत
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत
तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ
ततो दुर्योधनो राजा भीमं विव्याध पत्रिभिः
पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत्
तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिश्शरैः
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम्
ततो दुर्योधनः क्रुद्धो भीमसेनं शितैः शरैः
अपीडयद्रणमुखे पश्यतां सर्वधन्विनाम्
निहत्य तु शरान्भीमो दुर्योधनधनुश्च्युतान्
कौरवं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत
अथान्यद्धनुरादाय भीमसेनो महाबलः
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैश्शरैः
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत्
आत्तमात्तं महाराज जितकाशी मदोत्कटः
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम्
अप्राप्तामेव तां शक्तिं विद्धा चिच्छेद कौरवः
पश्यतस्सर्वलोकस्य भीमस्य च महात्मनः
ततः क्रुद्धो भीमसेनस्तव पुत्रं महारथम्
गदां गुर्वीं महाराज महाबलपराक्रमः
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति
ततस्सा सहसा वाहांस्तव पुत्रस्य संयुगे
सारथिं च महागुर्वी ममर्द भरतर्षभ
पुत्रस्य तव राजेन्द्र रथं हेमपरिष्कृतम्
आप्लुतस्सहसा राजन् नन्दकस्य महात्मनः
ततो भीमो हृतं मत्वा तव पुत्रं महारथम्
सिंहनादं महच्चक्रे तर्जयन्निशि कौरवान्
तावकास्सैनिकाश्चापि मेनिरे निहतं नृपम्
ततो विचुक्रुशुस्सर्वे हा हा हेति समन्ततः
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम्
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम्
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः
पाञ्चालाः केकया मात्स्यास्सृञ्जयाश्च विशां पते
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैस्सह
घोरे तमसि मग्नानां निघ्नतामितरेतरम्