सञ्जयः-
वर्तमाने तदा रौद्रे रात्रियुद्धे सुदारुणे
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः
अब्रवीत्पाण्डवांश्चैव पाञ्चालानथ सोमकान्
युधिष्ठिरः-
अभिद्रवत गच्छध्वं द्रोणमेव जिघांसवः
सञ्जयः-
राज्ञस्ते वचनाद्राजन्पाञ्चाला सहसृञ्जयाः
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान्
तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्स्म हर्षिताः
यथाशक्ति यथोत्साहं यथावीर्यं च संयुगे
कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत्
द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम्
शैनेयं शरवर्षाणि विसृजन्तं समन्ततः
अभ्ययात्कौरवो राजन्भूरिस्सङ्ग्राममूर्धनि
सहदेवं तथा यान्तं द्रोणप्रेप्सुं महारथम्
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम्
भीमसेनं समायान्तं व्यादितास्यामिवान्तकम्
स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत्
नकुलस्तु युधां श्रेष्ठं सर्वयुद्धविशारदम्
शकुनिस्सौबलो राजन्वारयामास भारत
शिखण्डिनमथायान्तं रथेन रथिनां वरम्
कृपश्शारद्वतो राजन्वारयामास धन्विनाम्
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः
दुश्शासनो महाराज यत्तो यत्तमवारयत्
भैमसेनिमथायान्तं मायाशतविशारदम्
अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत्
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्
वारयामास समरे द्रोणप्रेप्सुं महारथम्
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति
मद्रराजस्सुसङ्क्रुद्धो वारयामास संयुगे
शतानीकमथायान्तं नाकुलिं रभसं रणे
चित्रसेनो रुरोधाशु शरैर्द्रोणाभिकाङ्क्षया
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्
अलायुधो रुरोधाशु राक्षसेन्द्रो महाबलः
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे
धृष्टद्युम्नोऽथ पाञ्चाल्यो धृष्टरूपमवारयत्
तथाऽन्यान्पाण्डवेयांश्च समायातान्महारथान्
तावका रथिनो राजन्वारयामासुरोजसा
गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे
योधयन्तस्स्म दृश्यन्ते शतशोऽथ सहस्रशः
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम्
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः
सादिनस्सादिभिस्सार्धं प्रासशक्त्यृष्टिपाणयः
समागच्छन्महाराज विनदन्तः पृथक्पृथक्
नरास्तु व्यधमंस्तत्र समासाद्य परस्परम्
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम्
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्
हार्दिक्यस्तु रणे विद्धो धर्मपुत्रेण मारिष
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्छिलाशितान्
ते तस्य कवचं भित्त्वा हेमपृष्ठं महाधनम्
प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
विव्याध पाण्डवं षष्ट्या सूतं च नवभिश्शरैः
तस्य शक्तिममेयात्मा चिक्षेप भुजगोपमाम्
पाण्डवो भरतश्रेष्ठ रथे न्यस्य महद्धनुः
सा हेमचित्रा महती पाण्डवेयेन प्रेरिता
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः
हार्दिक्यं छादयामास शरैस्सन्नतपर्वभिः
ततस्तु समरे शूराः कुरूणां प्रवरं युधि
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्
ततस्तु पाण्डवज्येष्ठः खड्गं चर्म समाददे
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्
प्रैषयत्समरे तूर्णं हार्दिक्यस्य महात्मनः
तमापतन्तं सहसा धर्मराजकराच्युतम्
द्विधा चिच्छेद हार्दिक्यः कृतहस्तस्स्मयन्निव
ततश्शरशतेनाजौ धर्मपुत्रमवाकिरत्
कवचं चास्य सङ्क्रुद्धो शरैस्तीक्ष्णैरदारयत्
हार्दिक्यशरसङ्कृत्तं कवचं तन्महाधनम्
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्
स च्छिन्नधन्वा विरथश्शीर्णवर्मा शराचितः
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः
कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम्
पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः