सञ्जयः-
वर्तमाने यथा यद्धे घोररूपे भयानके
तमसा संवृते लोके रजसा च महीपते
नापश्यन्त रणे योधाः परस्परममर्षिताः
अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृते महत्
नरनागाश्वमथनं परमं रोमहर्षणम्
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः
अन्योन्यं ताडयामासुस्सैन्येषु तव सत्तम
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः
रजसा तमसा चैव समन्ताद्विप्रदुद्रुवुः
ते सर्वतो विद्रवन्तो योधा वै त्रस्तचेतसः
अहन्यन्त महाराज धावमानाश्च संयुगे
महारथसहस्राणि जघ्नुरन्योन्यमाहवे
अन्धे तमसि मूढानि पुत्रस्य तव दुर्नयात्
ततस्सर्वाणि सैन्यानि सेनागोपाश्च भारत
व्यमुह्यन्त रणे त्रस्तास्तमसा संवृते सति
धृतराष्ट्रः-
तथा संलोड्यमानानां पाण्डवैर्विहतौजसाम्
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा
कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः
बभूव लोके तमसा तथा सञ्जय संवृते
सञ्जयः-
ततस्सर्वाणि सैन्यानि हतशिष्टानि यानि वै
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत्
द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिस्सौबलः पार्श्वतश्च
स्वयं तु सर्वाणि बलानि राजन्राजाऽन्वगादभ्युदितोऽतिरात्रो
दुर्योधनः-
उवाच सर्वांश्च पदातिसङ्घान्दुर्योधनः पार्थिवसान्त्वपूर्वम्
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान्
सञ्जयः-
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान्
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम्
महाधनैराभरणैश्च दिव्यैश्शस्त्रैश्च दिव्यैरभिसम्पतद्भिः
क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयंश्च ध्वजिनीं तदाऽऽशु
सर्वैस्तु सेना व्यतिषेव्यमाना पदातिभिः पावकदीप्तहस्तैः
प्रकाश्यमाना ददृशे निशायां यथान्तरिक्षे जलदास्तडिद्भिः
प्रकाशितायां तु तथा ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्सपत्नान्
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतस्सूर्य इवांशुमाली
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु तथाऽम्बरेषु
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र ततो बभूवुः
गदाश्च सैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः
प्रतिप्रभारश्मिभिराजमीढ पुनःपुनस्सञ्जनयन्ति दीप्तिम्
छत्राणि वालव्यजनानुषङ्गाद्दीप्ता महोल्काश्च तथैव राजन्
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च बलं तवाभूत्
प्रभासितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव
पीतानि शस्त्राण्यसृगुज्ज्वलानि वीरावधूतानि तनुच्छदानि
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे
प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन
वक्त्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि
महावने दारुमति प्रदीप्ते यथा प्रभा भास्करस्यापि दृश्येत्
तथा तवासीद्वृजिनी प्रदीप्ता महाहवे भारत भीमरूपा
ततः प्रदीप्तं बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव
सर्वेषु सैन्येषु पदातिसङ्घानचोदयंस्ते जगृहुः प्रदीपान्
गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव तथा प्रदीपाः
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च
मध्ये तथाऽन्ये ज्वलिताग्रहस्तास्सेनाद्वयेऽपि स्म नरा विचेरुः
सर्वेषु सैन्येषु पदातिसङ्घा विमिश्रिता हस्तिरथाश्वबृन्दैः
मध्ये तथाऽग्रे विशिखाग्रहस्ता व्यदीपयन् पाण्डुसुतस्य सेनाम्
तेन प्रदीप्तेन तथा प्रदीप्तं बलं बभौ तस्य महाबलेन
भाः कुर्वता भानुमता गतेन दिवाकरेणाग्निरिवाभितप्तः
तयोः प्रभा भूमिमथान्तरिक्षं सर्वं व्यतिक्रम्य दिवं प्रविष्टा
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम्
तेन प्रकाशेन दिवं गतेन सम्बोधिता देवगणास्स्म राजन्
गन्धर्वयक्षासुरसिद्धसङ्घास्समागमन्नप्सरसश्च सर्वाः
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च
हतैश्च योधैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविद्रुताश्वम्
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव
तच्छक्तिसङ्घाकुलचण्डवातं महारथाभ्रं रथवाजिघोषम्
अस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृद्धं नरदेवयुद्धं
तस्मिन्महाग्निप्रतिमो महात्मा सन्तापयन्पाण्डवान्विप्रमुख्यः
गभस्तिभिर्मध्यगतो यथाऽर्को वर्षात्यये तद्वदभून्नरेन्द्र
प्रकाशिते तथा लोके रजसा तमसावृते
समाजग्मुरथो वीराः परस्परवधैषिणः
ते समेत्य रणे राजञ्शस्त्रप्रासासिपाणयः
परस्परमुदैक्षन्त परस्परकृतागसः
प्रदीपानां सहस्रैश्च दीप्यमानैस्समन्ततः
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत
दह्यमानेव लोकानामभावे च वसुन्धरा
प्रदीप्यन्त दिशस्सर्वाः प्रदीपैस्तैस्समन्ततः
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा यथैव हि
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक्
नागा नागैस्समाजग्मुस्तुरङ्गाश्च तुरङ्गिभिः
रथा रथवरैरेव समजग्मू रुषाऽन्विताः
तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात्
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान्
धृतराष्ट्रः-
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्
अमृष्यमाणे संरब्धे किं वा आसीत्तदा मनः
किममन्यन्त सैन्यानि दारुणे परमाहवे
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत
के चैनं वरदं घोरमन्वयासुररिन्दमम्
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः
के पृष्ठं तस्य रक्षन्त वीरा वीरस्य युध्यतः
के पुरस्तादगच्छन्त निघ्नन्तश्शात्रवान्रणे
यः प्राविशन्महाबाहुः पाञ्चालानपराजितः
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्
ददाह च शरैश्शूरः पाञ्चालानां रथव्रजान्
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्
अव्यग्रानेव हि परान्कथयस्यपराजितान्
हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्
सञ्जयः-
द्रोणस्य मतमाज्ञाय योद्वुकामस्य तां निशाम्
दुर्योधनो महाराज वश्यान्भ्रातॄनथाब्रवीत्
दुर्योधनः-
विकर्णं चित्रसेनं च महाबाहुं च कौरवम्
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः
द्रोणं यत्ताः पराक्रान्तास्सर्वे रक्षत पृष्ठतः
सञ्जयः-
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः
तांश्चैव सर्वान्पुत्रस्ते समचूचुददग्रतः
दुर्योधनः-
आचार्यो हि भृशं यत्तो भृशं यत्ताश्च पाण्डवाः
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः प्रराक्रमी
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान्
ते यूयं सहितास्सर्वे भृशं यत्ता महारथाः
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात्
पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम्
यो जयेत रणे द्रोणं धृष्टद्युम्नादृते पुमान्
तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्
स गुप्तस्सृञ्जयान्हन्यात्सोमकांश्च सराजकान्
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे
धृष्टद्युम्नं रणे द्रौणिर्नाषयिष्यत्यसंशयम्
तथाऽर्जुनं रणे कर्णो विजेष्यति महारथम्
भीमसेनमहं चापि युद्धे जेष्यामि दंशितम्
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथम्
सञ्जयः-
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्याधनस्तव
व्यादिदेश ततस्सैन्यं तस्मिंस्तमसि दारुणे
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ
उभयोस्सेनयोर्घोरं विजयं प्रतिकाङ्क्षिणोः
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः
नानाशस्त्रसमावापैरन्योन्यं समपीडयन्
द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान्
छादयामासतुस्सङ्ख्ये शरैस्सन्नतपर्वभिः
पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत
आसीन्निष्टानको घोरो निघ्नतामितरेतरम्
नैवास्माभिर्नरैर्वाऽन्यैर्दृष्टपूर्वं तथाविधम्
युद्धं यादृशमेवासीत्तां रात्रिं सुभयावहम्