सञ्जयः-
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवाः
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन्
ततो दुर्योधनो राजा भारद्वाजेन संवृतः
अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत
घोररूपं महाराज भीरूणां भयवर्धनम्
अम्बष्ठान्मालवान्वङ्गाञ्छिबींस्त्रैगर्तकानपि
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो वृकोदरः
अभीषाहाञ्छूरसेनान्क्षत्रियान्युद्धदुर्मदान्
निहत्य पृथिवीं चक्रे भीमश्शोणितकर्दमाम्
यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि
प्राहिणोन्मृत्युलोकाय किरीटी निशितैश्शरैः
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः
निकृत्तैर्हस्तिहस्तैश्च लुठमानैरितस्ततः
रराज वसुधाऽऽकीर्णा विसर्पद्भिरिवोरगैः
क्षिप्तैः कनकचक्रैश्च नृपच्छत्रैश्च भूर्बभौ
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये
इत्यासीत्सङ्क्षयस्तत्र शोणाश्वस्य रथं प्रति
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे
व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात्
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम्
महता रथवर्षेण परिगृह्य बलं तव
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः
अन्वगच्छन्महाराज मात्स्याश्च सहसोमकाः
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः
महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति
ततस्सा भारती सेना हन्यमाना किरीटिना
तमसा निद्रया चैव पुनरेव व्यदीर्यत
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च
न शक्यते महाराज योधा वारयितुं तदा
सा पाण्डुपुत्रस्य शरैर्दार्यमाणा चमूस्तव
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः
प्राद्रवन्त महाराज भयाविष्टास्समन्ततः
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह
न ह्यहत्वा रणे शत्रुं बह्लीकं कौरवाधमम्
निवर्तिष्ये रणात्सूत सत्यमेतद्ब्रवीमि ते
ततस्सम्प्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान्
तुरङ्गामाञ्छङ्खवर्णान्सर्वशब्दातिगान्रणे
तेऽवहन्युयुधानं तु मनोमारुतरंहसः
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे
सोमदत्तो महाबाहुरसम्भ्रान्तोऽभ्यवर्तत
विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान्
छादयामास शैनेयं जलदो भास्करं यथा
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम्
बाणैस्सञ्छादयामास समन्ताद्भरतर्षभ
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम्
सात्यकिश्चापि तं राजन्नविध्यत्सायकैश्शितैः
तावन्योन्यशरोत्कृत्तौ चकाशाते नरर्षभौ
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ
परस्परमवेक्षेतां दहन्ताविव लोचनैः
रथमण्डलमार्गेषु विचरन्तावरिन्दमौ
घोररूपधरावास्तां वृष्टिमन्ताविवाम्बुदौ
शरसम्भिन्नगात्रौ तौ सर्वतश्शकलीकृतौ
श्वाविधाविव राजेन्द्र व्यदृश्येतां शराचितौ
सुवर्णपुङ्खैरिषुभिर्विक्षतौ तौ व्यराजताम्
खद्योतैरिव राजेन्द्र प्रावृषीव वनस्पती
सम्प्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ
ततो युधि महारज सोमदत्तो महाबलः
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः
अथैनं पञ्चविंशत्या सायकानां समार्पयत्
त्वरमाणस्त्वराकाले पुनश्च दशभिश्शरैः
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम्
पञ्चभिस्सायकैस्तूर्णं सोमदत्तमविध्यत
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम्
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव
पिता तव च सङ्क्रुद्धो दृष्ट्वा केतुं निपातितम्
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्
सात्वतोऽपि रणे क्रुद्धस्सोमदत्तस्य धन्विनः
धनुश्छिच्छेद समरे क्षुरप्रेण शितेन ह
अथैनं रुक्मपुङ्खानां शराणां नतपर्वणाम्
आचिनोद्बहुसाहस्रैर्भग्नदंष्ट्रमिव द्विपम्
अथान्यद्धनुरादाय सोमदत्तो नराधिपः
सात्यकिं छादयामास शरवृष्ट्या महाबलः
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः
सात्यकिं चेषुजालेन सोमदत्तोऽभ्यपीडयत्
दशभिस्सात्वतस्यार्थे भीमो विव्याध बाह्लिकम्
सोमदत्तोऽप्यसम्भ्रान्तो शैनेयमवधीच्छरैः
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम्
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि
तमापतन्तं सहसा घोररूपं भयावहम्
द्विधा चिच्छेद सहसा प्रहसन्निव कौरवः
स पपात द्विधा च्छिन्न आयसः परिघो महान्
महीधरस्येव महच्छिखरं वज्रदारितम्
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः
चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान्
समीपं प्रेषयामास प्रेतराजस्य भारत
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः
ततश्शरं महाघोरं ज्वलन्तमिव पावकम्
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम्
स विमुक्तो बलवता शैनेयेन नरोत्तम
पितुस्तस्योरसि विभो निपपाताशु भारत
सोऽतिविद्धो बलवता सात्वतेन महारथः
सोमदत्तो महाबाहुर्निपपात ममार च
दृष्ट्वा निपतितं तत्र सोमदत्तं महारथाः
महता रथवंशेन युयुधानमुपाद्रवन्
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः
महत्या सेनया सार्धं युयुधानमुपाद्रवत्
ततो युधिष्ठिरः क्रुद्धस्तावकानां महद्बलम्
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः
सैन्यं विद्रावयन्तं तं दृष्ट्वा द्रोणो युधिष्ठिरम्
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः
ततस्सुनिशितैर्बाणैः पार्थं विव्याध पञ्चभिः
स तं विद्ध्वा महेष्वासस्सृक्विणी परिलेलिहन्
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च
स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः
अन्यदादत्त वेगेन कार्मुकं समरे दृढम्
ततश्शरसहस्रेण द्रोणं विव्याध पार्थिवः
साश्वसूतध्वजरथं तदद्भुतमिवाभवत्
ततो मुहूर्तं व्यथितश्शरपातप्रपीडितः
निषसाद रथोपस्थे द्रोणो भरतसत्तम
प्रतिलभ्य ततस्सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत्
असम्भ्रान्तस्ततः पार्थो वायव्येनैव वीर्यवान्
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्
श्रीभगवान्-
युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छृणु
उपारमस्व युद्धाच्च द्रोणाद्भरतसत्तम
वर्तते हि सदा द्रोणो ग्रहणे तव संयुगे
नानुरूपमहं मन्ये युद्धमस्य त्वया सह
योऽस्य सृष्टो विनाशाय स एनं श्वो वधिष्यति
परित्यज्य गुरुं याहि यत्र राजा सुयोधनः
भीमश्च रथशार्दूलो युध्यते कौरवैस्सह
सञ्जयः
वासुदेववचश्श्रुत्वा धर्मराजो युधिष्ठिरः
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः
रथघोषेण महता नादयन्वसुधातलम्
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश
भीमस्य निघ्नतश्शत्रून्पार्ष्णिं जग्राह पाण्डवः
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे
नादयंस्तलघोषेण तव सैन्यानि मारिष