सञ्जयः-
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः
प्रत्युवाच महाबाहो यथा वदसि कौरव
प्रिया हि पाण्डवा नित्यं मम चैव पितुश्च मे
तथैवावां प्रियस्तेषां न तु युद्धे कुरूद्वह
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे
युध्याम पाण्डवाञ्छक्त्या ते चाप्यस्मान्यथाबलम्
तेजस्तु तेज आसाद्य प्रशमं यातु भारत
अशक्या तरसा जेतुं पाण्डवानामनीकिनी
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत
त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च भारत
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन
योत्स्येऽहं शत्रुभिस्सार्धं जेष्यामि च वरान्वरान्
पाञ्चालैस्सह योत्स्यामि सोमकैः केकयैस्तथा
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिन्दम
अद्य मद्बाणनिर्दग्धाः पाञ्चालास्सोमकास्तथा
सिंहेनेवार्दिता गावो वित्रसिष्यन्ति सर्वतः
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्
अश्वत्थाममयं लोकं मंस्यते स सुयोधन
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सह सोमकैः
ये मां युद्धेऽभियास्यन्ति निहनिष्यामि तानहम्
न हि ते वीर मुच्येरन् मद्बाणबलपीडिताः
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव
अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः
अश्वत्थामा-
प्रहरध्वमितस्सर्वे मम गात्रे महारथाः
स्थिरीभूताश्च युध्यध्वं दर्शयन्तः कृतास्त्रताम्
सञ्जयः-
एवमुक्तास्ततस्सर्वे शस्त्रवृष्टीरपातयन्
द्रौणिं प्रति महाराज जलं जलधरा इव
तान्निहत्य शरैर्द्रौणिस्ततो वीरानपातयत्
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभि भो
ते हन्यमानास्समरे पाञ्चालासृञ्जयास्तथा
परित्यज्य रणे द्रौणिं प्राद्रवन्ति दिशो दश
तान्दृष्ट्वा द्रवतश्शूरान्पाञ्चालान्सह सोमकैः
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम्
वृतश्शतेन शूराणां रथानामनिवर्तिनाम्
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान्
धृष्टद्युम्नः-
आचार्यपुत्र भद्रं ते किमन्यैर्निहतैस्तव
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे
अहं त्वाऽद्य हनिष्यामि तिष्ठेदानीं ममाग्रतः
सञ्जयः-
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्
मर्मभिद्भिश्शरैस्तीक्ष्णैर्जघान भरतर्षभ
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः
रुक्मपुङ्खाः प्रसन्नाग्रास्सर्वकायावदारणाः
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम्
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत
अश्वत्थामा-
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्
सञ्जयः-
द्रौणिरेवं समाभाष्य पार्षतं परवीरहा
छादयामास बाणौघैस्समन्ताल्लुघुहस्तवत्
सञ्छाद्यमानस्समरे द्रौणिना युद्धदुर्मदः
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा
धृष्टद्युम्नः-
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते
ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते
निहत्य पितरं तुभ्यं ततस्त्वामपि संयुगे
नेष्यामि प्रेतलोकाय ह्येवं मे मनसि स्थितम्
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः
स वध्यस्सर्वलोकस्य यथा त्वं पुरुषाधमः
सञ्जयः-
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत
छादयामास च शरैर्निश्श्वसन्पन्नगो यथा
स च्छाद्यमानस्समरे द्रौणिना राजसत्तम
सर्वपाञ्चालसेनाभिस्संवृतो गिरिराडिव
नाकम्पत महाबाहुस्स्ववीर्यं समुपाश्रितः
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह
न पुनस्सन्न्यवर्तेतां प्राणद्यूतपरायणौ
निवारयन्तौ बाणौघैः परस्परममर्षिणौ
विसृजन्तौ महेष्वासौ शरवृष्टिं समन्ततः
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम्
दृष्ट्वा सम्पूजयामासुस्सिद्धचारणवादिकाः
शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा
अलक्ष्यौ समयुध्येतां शरैः कृत्वा महत्तमः
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ
परस्परवधे यत्तौ परस्परवधैषिणौ
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च
सम्पूज्यमानौ समरे योधमुख्यैस्सहस्रशः
तौ प्रयुद्धौ तथा दृष्ट्वा वने वन्यौ गजाविव
उभयोस्सेनयोर्घोषस्तुमुलस्समपद्यत
सिंहनादास्तथैवासन्दध्मुश्शङ्खांश्च मारिष
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः
तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने
मुहूर्तमपि तद्युद्धं घोररूपं बभूव ह
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः
धनुर्ध्वजं तथा छत्रमुभौ च पार्ष्णिसारथी
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे
पाञ्चालांश्चैव तान्सर्वान्बाणैस्सन्नतपर्वभिः
प्राद्रावयदमेयात्मा शतशोऽथ सहस्रशः
ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे
शतेन च शतं हत्वा पाञ्चालानां महारथः
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान्
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः
ते वध्यमानाः पाञ्चालास्समरे सह सृञ्जयैः
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः
ननाद सुमहानादं तपान्ते जलदो यथा
स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः
सम्पूज्यमानो युधि कौरवेयैर्निर्जित्य सङ्ख्येऽरिगणान्सहस्रशः
व्यरोचत द्रोणसुतः प्रतापवान्यथा सुरेन्द्रोऽरिगणान्निहत्य ह