सञ्जयः-
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्
अश्वत्थामा-
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते
सञ्जयः-
तमुत्पतन्तं वेगेन राजा दुर्योधनस्स्वयम्
न्यवारयन्महातेजाः कृपश्च रथिनां वरः
कर्णः-
शूरोऽयं समरश्लाघी दुर्मतिश्च नराधमः
आसादयतु मद्वीर्यं मुञ्चैनं कुरुसत्तम
कृपः-
तवैतत्क्षम्यतेऽस्माभिस्सूतात्मज सुदुर्मते
दर्पमुत्सिक्तमेतत्ते नाशयिष्यति फल्गुनः
दुर्योधनः-
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद
कोपः खलु न कर्तव्यस्सूतपुत्रे कथञ्चन
त्वयि कर्णे कृपे द्रोणे मद्रराजे च सौबले
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम
एते ह्यभिमुखास्सर्वे राधेयेन युयुत्सया
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तस्समन्ततः
सञ्जयः-
दुर्योधनवचश्श्रुत्वा अश्वत्थामा महाबलः
प्रससादमगमद्राजन्सूतपुत्रस्य मानद
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्
कौरवाग्र्यैः परिवृतश्शक्रो देवगणैरिव
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः
पिप्रीषुस्तव पुत्राणां समरेष्वपराजितः
सायकौघेन महता क्षिप्रकारी महारथः
वारयामास तत्सैन्यं उदीर्णं भरतर्षभ
ततस्तु शरवर्षेण पार्थिवास्तमवारयन्
धनूंषि ते विधुन्वानाश्शतशोऽथ सहस्रशः
अयोधयन्त राधेयं शक्रं दैत्यगणा इव
शरवर्षं तु तत्कर्णः पार्थिवैस्समुदीरितम्
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्
यथा देवासुरे युद्धे शक्रस्य सह दानवैः
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्
यनेमं सर्वतो यत्ता नाप्नुवन्ति नराधिपाः
निवार्य च शरौघांस्तान्पार्थिवानां महारथः
युगेष्वीषासु छत्रेषु हयेषु च गजेषु च
आत्मनामाङ्कितान्घोरान्राधेयः प्राहिणोच्छरान्
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः
बभ्रमुस्तत्र तत्रैव गावश्शीतार्दिता इव
हयानां वध्यमानानां गजानां रथिनां तथा
तत्र तत्राभ्यवेक्षाम सङ्घान्कर्णेन पातितान्
बभूवायोधनं घोरं वैवस्वतपुरोपमम्
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह
दुर्योधनः-
युध्यतेऽसौ रणे कर्णो दंशितस्सर्वपार्थिवैः
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम्
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव
दृष्ट्वैनां निर्जितां सेनां रणे कर्णेन धीमता
अभियात्येष बीभत्सुस्सूतपुत्रजिघांसया
तद्यथा पश्यमानानां सूतपुत्रं महारथम्
न हन्यात्पाण्डवस्सङ्ख्ये तथा नीतिर्विधीयताम्
सञ्जयः-
ततो द्रौणिः कृपश्शल्यो हार्दिक्यश्च महारथः
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूरिव
आस्तीर्णा वसुधा कृत्स्ना शूराणामनिवर्तिनाम्
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान्
धृतराष्ट्रः-
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वतः
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम्
कर्णो वैकर्तनस्सूत प्रत्यपद्यत्किमुत्तरम्
स्पर्धते स हि पार्थेन नित्यकालं महारथः
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम्
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्
कर्णो वैकर्तनस्सूत किमुत्तरममन्यत
सञ्जयः-
आयान्तं पाण्डवं दृष्ट्वा गजं प्रतिगजो यथा
असम्भ्रान्ततरं कर्णः प्रत्युदीयाद्धनञ्जयम्
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः
वारयामास तेजस्वी पाण्डवश्शत्रुसूदनः
स कर्णश्शरजालेन छादयामास मारिष
विव्याध स सुसङ्क्रुद्धश्शरैस्त्रिभिरजिह्मगैः
तस्य तल्लाघवं दृष्ट्वा नामृष्यत महारथः
तस्मै प्रसन्नानाराचाञ्शिलाघौतानजिह्मगान्
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः
विव्याध चैनं सङ्क्रुद्धो बाणेनैकेन वीर्यवान्
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव
तस्य विद्धस्य बाणेन कराच्चापं पपात ह
पुनरादाय तच्चापं निमेषार्धान्महाबलः
छादयामास बाणौघैः फल्गुनं कृतहस्तवत्
शरवृष्टिं च तां मुक्तां सूतपुत्रेण भारत
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः
तौ परस्परमासाद्य शरजालेन पार्थिव
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे
क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्दन्तिनोरिव
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयाऽन्वितः
हयांश्च चतुरो भल्लैरनयद्यमसादनम्
सारथेस्तु शिरः कायादहरच्छत्रुसूदनः
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्
विव्याध सायकैः पार्थश्चतुर्भिस्सूतनन्दनम्
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
आरुरोह रथं तूर्णं कृपस्य शरपीडितः
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ
धनञ्जयशरैर्नुन्नाः प्राद्रवन्ति दिशो दश
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप
निवर्तयामास तदा वाक्यं चेदमुवाच ह
दुर्योधनः-
अलं द्रुतेन वश्शूरास्तिष्ठध्वं क्षत्रियर्षभाः
एष पार्थवधायाहं स्वयं गच्छामि संयुगे
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान्
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः
द्रक्ष्यन्ति समरे योधाश्शलभानामिवायतिम्
अद्य बाणमयं वर्षं सृजतो मम धन्विनः
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति मम सैनिकाः
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात्
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति
यथा वेलां समासाद्य सागरो मकरालयः
सञ्जयः-
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः
फल्गुनं प्रति संरब्धः क्रोधेन महता वृतः
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह
कृपः-
एष राजा महाबाहुरमर्षात्क्रोधमूर्च्छितः
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति
यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः
न जह्यात्पुरुषव्याघ्रस्तावत्पालय कौरवम्
यावत्फल्गुनबाणानां गौरवं नाधिगच्छति
कौरवः पार्थिवो वीरस्तावद्युद्धान्निवर्त्यताम्
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम्
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद
स्वयं युद्धाय यद्राजा रणं यात्यसहायवान्
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना
युध्यमानस्य समरे शार्दूलेनेव हस्तिनः
सञ्जयः-
मातुलेनैवमुक्तस्तु द्रौणिश्शस्त्रभृतां वरः
दुर्योधनमिदं वाक्यं जगाद रथिनां वरः
अश्वत्थामा-
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि
मामनादृत्य कौरव्य तव नित्यं हितैषिणम्
न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन
दुर्योधनः-
आचार्यः पाण्डुपुत्रान्वै शिष्यत्वात्परिरक्षति
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत्
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः
त्वं हि शस्त्रविदां मुख्यो महेश्वरसमो युधि
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान्
तवास्त्रगोचरे शक्तास्स्थातुं देवा न दानवाः
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान्
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत्
तान्वारय महाबाहो केकयांश्च महारथान्
पुरा कुर्वन्ति निश्शेषं रक्ष्यमाणाः किरीटिना
अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम
आदौ वा यदि वा पश्चात्तवैतत्कर्म मारिष
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युतः
एवं सिद्धाऽब्रुवन्वाचो भविष्यति हि तत्तथा
न तेऽस्त्रगोचरे शक्तास्स्थातुं देवास्सवासवाः
किमु पार्थास्सपाञ्चालाः सत्यमेतद्ब्रवीमि ते