सञ्जयः-
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः
युयुधानश्च संयुक्ता युद्धायैव मनो दधुः
सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे
महता शरवर्षेण च्छादयामास सर्वतः
ततस्समभवद्युद्धमतीव भयवर्धनम्
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम्
दशभिस्सात्वतस्यार्थे भीमो विव्याध कौरवम्
सोमदत्तोऽव्यथो भीमं शतेन प्रत्यविध्यत
सात्वतश्चातिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम्
वृद्धमिद्धं गुणैस्सर्वैर्ययातिमिव नाहुषम्
विव्याध दशभिस्तीक्ष्णैश्शरैर्वज्रनिपातिभिः
शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम्
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि
सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम्
सोमदत्तोरसि क्रुद्धस्सुपत्रं निशितं युधि
युगपत्पेततुरुभौ घोरौ परिघमार्गणौ
शरीरे सोमदत्तस्य स पपात महारथः
व्यामोहिते तु तनये बाह्लीकस्तमुपाद्रवत्
विसृजञ्छरवर्षाणि कालवर्षीव तोयदः
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिश्शरैः
प्रातिपेयं महात्मानं विव्याध रणमूर्धनि
प्रातिपेयस्तु सङ्क्रुद्धश्शक्तिं भीमस्य वक्षसि
निजघान महाबाहुः पुरन्दर इवाशनिम्
स तयाऽभिहतो वीरश्चकम्पे च मुमोह च
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत्
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेस्समम्
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान्
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्
ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः
जघान भीमं नाराचैस्स तमप्यप्यवधीद्बली
ततस्सप्तरथान्वीरान् स्यालानां तव भारत
निहत्य भीमो नाराचैश्शतचन्द्रमपोथयत्
अमर्षयन्तो निहतं शतचन्द्रं महारथम्
शकुनेर्भ्रातरो वीरा गवाक्षश्शरभो विभुः
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन्
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः
जघान पञ्चभिर्बाणैः पञ्चैवातिबलान्रथान्
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्
मिषतः कुम्भयोनेश्च पुत्राणां तव चानघ
अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्सशिबीनपि
प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः
अभीषाहाञ्छूरसेनान्वसातींश्च सबाह्लिकान्
निहत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्
यौधेयारट्टराजन्यान्मद्रकाणां गणान्युधि
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः
घ्नताहरत गृह्णीत विध्यध्वमवकृन्तत
इत्यभूत्तुमुलः शब्दो युधिष्ठिररथं प्रति
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम्
विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च
दिव्यास्त्राणि च चिक्षेप जिघांसुः पाण्डुनन्दनम्
क्षिप्तान्याक्षिप्यमाणानि तानि चास्त्राणि धर्मजः
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः
पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमस्त्रं स जघान तेन
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत्
भीतो नाज्ञासिषं किञ्चिद्घोरेण तमसाऽऽवृते
सर्वभूतानि च परं त्रासं जग्मुर्विशाम्पते
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत्
ततस्सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ
गुरुशिष्यौ महेष्वासौ सर्वयुद्धविशारदौ
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम्
वायव्यास्त्रेण व्यधमद्द्रोणः पर्याकुलेक्षणः
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात्
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम्
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्
ते तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः
अन्वगच्छन्महाराज मात्स्याश्च सह सात्वताः
ततस्तां भारतीं सेनां वध्यमानां किरीटिना
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च
नाशक्यन्महाराज योधा वारयितुं तव
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम्
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्
दुर्योधनः-
अयं स कालस्सम्प्राप्तो मित्राणां मित्रवत्सल
त्रायस्व समरे कर्ण सर्वान्योधान्महाबलान्
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः
वृतान्समन्तात्सङ्क्रुद्धैर्निश्श्वसद्भिरिवोरगैः
एते नदन्ति संरब्धाः पाण्डवा जितकाशिनः
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः
कर्णः-
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम्
सत्यं ते प्रतिजानामि समाश्वसिहि भारत
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान्
जयं ते प्रतिजानामि वासवस्येव पावकिः
प्रियं तव मया कार्यमिति जीवामि पार्थिव
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम्
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद
तव वश्या भविष्यन्ति वनं यास्यन्ते वा वनं पुनः
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान्
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान्
बाणौघैश्शकलीकृत्य तव दास्यामि मेदिनीम्
सञ्जयः
एवं कर्णे ब्रुवत्येव कृपश्शारद्वतोऽब्रवीत्
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः
कृपः-
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः
त्वया नाथेन राधेय वचसा यदि सिध्यति
बहुशः कत्थसे कर्ण कौरवस्य समीपतः
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि
सर्वत्र निर्जितश्चासि पाण्डवैस्सूतनन्दन
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे
तदाऽयुध्यन्त सैन्यानि त्वमेकश्च पलायथाः
विराटनगरे चापि समेतास्सर्वकौरवाः
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान्
अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज
अनुक्त्वा विक्रमेद्यत्तु तद्वै सत्पुरुषव्रतम्
गर्जित्वा सूतपुत्र त्वं शारदाभ्र इवाजलः
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते
तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि
पुरा दृष्ट्वैव पार्थं हि गर्जितं दुर्लभं भवेत्
त्वमनासादयन्बाणान्फल्गुनस्य विगर्जसि
पार्थसायकविद्धस्य गर्जितं दुर्लभं तव
बाहुभिः क्षत्रियाश्शूरा वाग्भिश्शूरा द्विजातयः
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः
सञ्जयः-
एवं परुषितस्तेन तदा शारद्वतेन सः
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत्
कर्णः-
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः
फलं चाशु प्रयच्छन्ति बीजमुप्तमनूषरे
दोषमत्र न पश्यामि शूराणां रणमूर्धनि
तत्तद्विकत्थमानानां भारमुद्वहतां हृदा
यं भारं पुरुषो वोढुं मनसाऽभिव्यवस्यति
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते
व्यवसायद्वितीयश्च मनसा भारमुद्वहन्
गर्जामि यद्यहं विप्र न किञ्चित्तत्र पश्यति
वृथा शूरा न गर्जन्ति सजला इव तोयदाः
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः
सोऽहमद्य रणे यत्तैस्सहितौ कृष्णपाण्डवौ
उत्सहामि रणे जेतुं ततो गर्जामि गौतम
पश्य त्वं गर्जितस्याद्य फलं मे विप्र सानुगः
कृपः
हत्वा पाण्डुसुतानाजौ सहकृष्णान्सहानुगान्
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम्
मनोरथप्रलापा मे न ग्राह्यास्तव सूतज
यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम्
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्
दंशितानामपि रणे अजेय्यौ कृष्णपाण्डवौ
ब्रह्मण्यस्सत्यवाग्दान्तो गुरुदैवतपूजकः
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः
भ्रातरश्चास्य बलिनस्सर्वास्त्रेषु कृतश्रमाः
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः
सम्बन्धिनश्चेन्द्रवीर्यास्स्वनुरक्ताः प्रहारिणः
धृष्टद्युम्नश्शिखण्डी च दौर्मुखिर्जनमेजयः
चन्द्रसेनो रुद्रसेनः कीर्तिवर्मा वृकोदरः
वसुचन्द्रो दामचन्द्रस्सिंहचन्द्रसुवेधसौ
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्
येषामर्थाय संयक्तो मत्स्यराजः प्रतापवान्
गजानीकस्सुदर्शनश्शतानीकश्शतध्वजः
बलानीको जयानीको जयाश्वो रथवाहनः
चन्द्रोदयः समरथो विराटभ्रातरश्शुभाः
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः
कामं खलु जगत्सर्वं सदेवासुरमानुषम्
सयक्षराक्षसगणं सभूतभुजगद्विजम्
निश्शेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा
अप्रमेयबलश्शौरिर्येषामर्थे च दंशितः
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान्
महानपनयस्त्वेष नित्यं हि तव सूतज
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह
सञ्जयः
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ
अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम्
कर्णः-
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै
अजेयाश्च रणे पार्था देवैरपि सवासवैः
सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया
ममाप्यमोघा दत्तेयं शक्तिश्शक्रेण वै द्विज
एतया निहनिष्यामि सव्यसाचिनमाहवे
हते तु पाण्डवे जिष्णौ भ्रातरश्चास्य सोदराः
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम
सुनीतैरिह सर्वार्थास्सिध्यन्ते नात्र संशयः
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे
यद्येवं वक्ष्यसे भूयो मां विप्रियमिह द्विज
ततस्ते खड्गमुधृत्य जिह्वां छेत्स्यामि दुर्मते
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे
भीषयन्सर्वसैन्यानि कौरवेयांश्च दुर्मते
अत्रापि ब्रुवतो वाक्यं यथावच्छ्रुणु गौतम
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः
दुश्शासनो वृषसेनो मद्रराजोऽहमेव च
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः
जयेदेतान्नरः को हि शक्रतुल्यबलोऽप्यरिः
शूराश्च हि कृतास्त्राश्च बलिनस्स्वर्गलिप्सवः
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः
दैवायत्तमहं मन्ये जयं सुबलिनामपि
यत्र भीष्मो महाबाहुश्शेते शरशताचितः
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः
भूरिश्रवा जयश्चैव जलसन्धस्सुदक्षिणः
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्
एते चान्ये च राजानो देवैरपि सुदुर्जयाः
निहतास्समरे शूराः पाण्डवैर्बलवत्तराः
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम
यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज
तेषामपि हताश्शूराः शतशोऽथ सहस्रशः
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैस्सह
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन
यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम
यतिष्येऽहं यथाशक्ति योद्धुं तैस्सह संयुगे
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः