सञ्जयः
प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः
सोमदत्तो भृशं क्रुद्धस्सात्यकिं वाक्यमब्रवीत्
सोमदत्तः
क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः
तं त्वं सात्वत सन्त्यज्य दस्युधर्मे सदा रतः
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत
कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे
नृशंसं बत दीनं च तादृशं कृतवानसि
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम्
न हन्यां नरके घोरे पतेयं वृष्णिपांसन
सञ्जयः-
एवमुक्त्वा तु सुसङ्क्रुद्धस्सोमदत्तो महाबलः
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च
ततः कमलपत्राक्षस्सिंहदंष्ट्रो महाबलः
सात्वतो र्भृशसङ्क्रुद्धस्सोमदत्तमथाब्रवीत्
सात्यकिः-
हतो भूरिश्रवा वीर तव पुत्रो महाहवे
शलश्चैव महाराज भ्रातुर्व्यसनकर्शितः
त्वां चाप्यद्य वधिष्यामि सपुत्रं सहबान्धवम्
तिष्ठेदानीं रणे यत्तश्शूरस्त्वं महारथः
यस्मिन्दानं दमश्शौचमहिंसा ह्रीर्धृतिक्षमाः
अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा
सकर्णसौबलस्सङ्ख्ये विनाशं समुपेष्यसि
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चात्मनः
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः
अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि
सञ्जयः-
एवमाभाष्य चान्योन्यं कोपसंरक्तलोचनौ
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ
ततो रथसहस्रेण नागानामयुतेन च
दुर्योधनस्सोमदत्तं परिवार्य व्यवस्थितः
शकुनिश्च सुसङ्क्रुद्धस्सर्वशस्त्रविशारदः
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः
स्यालस्तव महाबाहुर्वज्रसंहननो युवा
साग्रं शतसहस्रं तु योधानां तस्य धीमतः
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम्
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः
धृष्टद्युम्नोऽभ्यवत्क्रुद्धः प्रगृह्य महतीं चमूम्
अभ्यरक्षन्महाबाहुस्सात्वतं सत्यविक्रमम्
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम्
विव्याध सोमदत्तस्तु सात्वतं नवभिश्शरैः
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुङ्गवम्
सोऽतिविद्धो बलवता समरे दृढधन्विना
रथोपस्थं समासाद्य मुमोह गतचेतनः
तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः
अपोवाह रणाद्वीरं सोमदत्तं महाबलम्
तं विसञ्ज्ञं समालोक्य युयुधानशरार्दितम्
द्रौणिरभ्यद्रवत्क्रुद्धस्सात्वतं रणमूर्धनि
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति
भैमसेनिस्सुसङ्क्रुद्धः प्रत्यमित्रमवारयत्
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत्
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता
लोहितार्द्रपताकं तु चित्रमाल्योपशोभितम्
अष्टचक्रसमायुक्तमास्थाय परमं रथम्
शूलमुद्गरधारिण्या शैलपादपहस्तया
रक्षसां घोररूपाणामक्षौहिण्या समावृतः
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः
युगान्तकालसमये दण्डहस्तमिवान्तकम्
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्
ततोऽश्मवृष्टिरत्यन्तमासीत्तत्र समन्ततः
सन्ध्याकालेऽधिकबलैर्विमुक्ता राक्षसां गणैः
आयसानि च चक्राणि मुसुण्ठ्यश्शक्तितोमराः
पतन्त्यविरल्श्शूलाश्शतघ्न्यः पट्टसास्तथा
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्भयात्
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम्
विहतायां तु मायायाममर्षी स घटोत्कचः
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन्
भुजगा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम्
विविशुर्धरणीं शीघ्रं रुक्मपुङ्खाश्शिलाशिताः
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान्
घटोत्कचमभिक्रुद्धो बिभेद दशभिश्शरैः
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम्
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्
द्रौणिं प्राच्छादयद्बाणैर्स्वर्भानुरिव भास्करम्
घटोत्कचसुतश्श्रीमान्भिन्नाञ्जनचयोपमः
रुरुधे द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्
पौत्रेण भीमसेनस्य शरैरञ्जनवर्ष्मणा
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः
ध्वजमेकेन बाणेन चिच्छेदाञ्जनवर्ष्मणः
द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम्
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिरुज्वलम्
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाऽकरोत्
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना
भ्राम्यक्षिप्ता शरैस्साऽपि द्रौणिनाऽभ्याहताऽपतत्
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्
ववर्षाञ्जनवर्ष्मा स द्रुमवर्षं नभस्तलात्
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि
मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः
सोऽवतीर्य पुनस्तस्थौ रथे हेमविभूषिते
महीधर इवात्युच्चश्श्रीमानञ्जनवर्ष्मणः
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्
जघानाञ्जनवर्ष्माणं महेश्वर इवान्तकम्
हतं दृष्ट्वाऽथ तं पुत्रमश्वत्थाम्ना महाबलम्
द्रौणेस्सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम्
दहन्तं पाण्डवानीकं वनमग्निमिवोत्थितम्
घटोत्कचः-
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा
अश्वत्थामा-
गच्छ त्वं सहसाऽन्यैस्त्वं युध्यस्वामितविक्रम
न हि पुत्रेण हैडिम्ब पिता न्याय्यं प्रबाधितुम्
कामं खलु न मे रोषो हैडिम्बे त्वयि विद्यते
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमात्मना
सञ्जयः-
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकेन पीडितः
अश्वत्थामानमायस्तो भैमसेनिरभाषत
घटोत्कचः-
किमहं कातरो द्रौणे पृथग्जन इवाहवे
भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले
पाण्डवानामहं पुत्रस्समरेष्वनिवर्तिनाम्
रक्षस्यामभिजातोऽहं दशग्रीवसमो बले
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
सञ्जयः-
इत्युक्त्वा रोषताम्राक्षो राक्षसस्सुमहाबलः
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी
तमक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यनाशयत्
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत्
अथास्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैस्समाबभौ
विभावरीमुखे व्योम खद्योतैरिव चित्रितम्
निशाम्य निहतां मायां द्रौणिना रणमानिना
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः
सोऽभवद्गिरिरत्युच्चश्शिखरैस्तरुसङ्कटैः
शूलप्रासासिमुसलजलप्रस्रवणो महान्
तमञ्जनगिरिप्रख्यं दृष्ट्वा द्रौणिर्महीधरम्
प्रपतद्भिश्च बहुभिश्शस्त्रसङ्घैर्न चुक्षुभे
ततस्स्मयन्निव द्रौणिर्वज्रमस्त्रमुदैरयत्
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत
ततस्स तोयदो भूत्वा नीलस्सेन्द्रायुधो दिवि
शास्त्रवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः
व्यधमद्द्रोणतनयो नीलमेघं तमुत्थितम्
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः
शतं रथसहस्राणां जघान द्विषतां तथा
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम्
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि
विवृतास्यशिरोग्रीवैर्हिडिम्बस्य सुतैस्सह
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषितैः
महाबलैर्भीमरवैस्संरब्धोद्वृत्तलोचनैः
उपस्थितं ततो युद्धे राक्षसैर्युद्धदुर्मदैः
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्
अश्वत्थामा-
तिष्ठ दुर्योधनाद्य त्वं न कार्यस्सम्भ्रमस्त्वया
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः
सत्यं ते प्रतिजानीहि पर्याश्वासय वाहिनीम्
दुर्योधनः-
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः
अस्मासु च परा भक्तिस्तव गौतमिनन्दन
सञ्जयः-
अश्वत्थामानमुक्त्वैवं ततस्सौबलमब्रवीत्
दुर्योधनः-
वृतश्शतसहस्रेण रथानां रथशोभिनाम्
षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम्
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च
उदीच्याः कृतवर्मा च पुरुमित्रः श्श्रुतार्पणः
दुश्शासनो निकुम्भश्च कुण्डभेदी कुरूद्वह
पूरञ्जयो दृढरथः पदातिर्हेमपङ्कजः
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः
कमलाक्षस्सवक्राधो जयवर्मासुतस्सुवाक्
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्
जहि भीमं यमौ चोभौ धर्मराजं च मातुल
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान्
जहि मातुल कौन्तेयानसुरानिव पावकिः
सञ्जयः-
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान्
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे
विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्
जघानोरसि सङ्क्रुद्धो विषाग्निप्रतिमैर्दृढैः
स तैरभ्याहतो गाढं दृढैर्भीमसुतेरितैः
चचाल रथपृष्ठस्थो वातोद्धूत इव द्रुमः
भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम्
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं दृढम्
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः
ततः शारद्वतीपुत्रः प्रेषयामास भारत
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरान्प्रति
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्
विधम्य राक्षसान्बाणैस्साश्वसूतरथान्विभुः
ददाह भगवान्वह्निर्भूतानीव युगक्षये
स दग्ध्वाऽक्षौहिणीं बाणैर्नैर्ऋतान्रुरुधे रिपून्
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः
रराज जयतां श्रेष्ठो द्रोणपुत्रः प्रतापवान्
तेषु राजसहस्रेषु पाण्डवेयेषु भारत
नैनं निरीक्षितुं कश्चिच्छशक्नोद्द्रौणिमाहवे
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्
स पुनर्भरतश्रेष्ठ क्रोधादुद्भ्रान्तलोचनः
तलं तलेनाभिहत्य सन्दश्य दशनच्छदम्
स्वंं सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह
स ययौ घोररूपेण तेन जैत्रपताकिना
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः
अष्टघण्टां महाघोरामशनिं रुद्रनिर्मिताम्
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभम्
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन्
यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम्
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि
धृष्टद्युम्नोऽप्यसम्भ्रान्तो मुमोचाशीविषोपमान्
सुवर्णपुङ्खांस्तीक्ष्णग्रान्द्रोणपुत्रस्य वक्षसि
ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः
तावप्यग्निशिखप्रख्यैर्जघ्नतुस्तस्य मार्गणान्
अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत्
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम्
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः
तत्राद्भुत परं द्रौणिर्दर्शयामास विक्रमम्
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत
निमेषान्तरमात्रेण साश्वद्विपरथध्वजाम्
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च
प्रकाशमञ्जोगतिभिर्नाराचैरभिताडिताः
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ
द्यौरिवोदितचन्द्रार्का ग्रहनक्षत्रसङ्कुला
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम्
छत्रहंसावलीजुष्टां फेनचामरमालिनीम्
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम्
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम्
शरमीनां महारौद्रां प्रासशक्त्यष्टिडुण्डुभाम्
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम्
केशशैवलकल्माषां भीरूणां कश्मलावहाम्
नागेन्द्रहययोधानां शरीरक्षययसम्भवाम्
शोणितेदां महावगां द्रौणिः प्रावर्तयन्नदीम्
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम्
प्रयान्तीं सुमहाघोरां यमक्षयमहोदधिम्
निहत्य राक्षसान्घोरान्द्रौणिर्हैडिम्बिमार्दयत्
पुनरप्यतिसंरब्धस्सवृकोदरपार्षतान्
स नाराचगणैः पार्थान्विद्ध्वा द्रौणिर्महारथः
जघान सुरथं नाम द्रुपदस्य सुतं विभुः
पुनश्शत्रुञ्जयं नाम सुरथस्यानुजं रणे
हयानीकं जयानीकं जयाश्वं चाभिजघ्निवान्
पुनश्शरेण तीव्रेण द्रौणिस्सिंह इवोन्नदन्
जघान चैव सुपृथुं चन्द्रदेवं च मानिनम्
कुन्तिभोजसुतांश्वाजौ दशभिर्दश जघ्निवान्
श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम्
त्रिभिश्चान्यैश्शरैस्तीक्ष्णैस्सुपुङ्खैर्हेममालिनम्
शत्रुञ्जयं च बलिनं शक्रलोकं निनाय सः
अश्वत्थामा सुसङ्क्रुद्धस्सन्धायोग्रमजिह्मगम्
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः
द्रौणेस्सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम्
तथा पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप
पराजित्य रपून्वीरान्द्रोणपुत्रो ननाद ह
पूजितस्सर्वभूतैश्च तव योधैश्च भारत
अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैस्समन्तात्
निधनमुपगतैर्मही वृता सा गिरिशिखरैरिव दुर्गमा बभूव
तं सिद्धगन्धर्वपिशाचसङ्घा नागास्सुपर्णाः पितरो वयांसि
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरस्सस्तथैव