धृतराष्ट्रः-
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी
उक्त्वा दुर्योधनं सम्यङ्मन्दं शास्त्रातिगं सुतम्
प्रविश्य विचरन्तं च रणे शूरमवस्थितम्
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः
के चोत्तरमरक्षन्त निघ्नतश्शात्रवान्रणे
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः
सञ्जयः-
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थस्समेत्य च
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः
पृथक्चमूभ्यां सम्पृक्तौ द्रोणमेवाभ्यधावताम्
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः
धृष्टद्युम्नश्शतानीको विराटश्च सकेकयः
मात्स्यास्साल्वेयसेनाश्च द्रोणमेवाभ्ययुर्युधि
द्रुपदश्च महाराज पाञ्चालैरभिरक्षितः
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः
ससेनास्तेऽन्ववर्तन्त द्रोणमेव महाद्युतिम्
प्रभद्रकाश्च पाञ्चालाष्षट्सहस्राः प्रहारिणः
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः
सहितास्सन्न्यवर्तन्त द्रोणमेव नरर्षभाः
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ
बभूव रजनी घोरा भीरूणां भयवर्धिनी
योधानामशिवा रौद्रा राजन्नन्तकगामिनी
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा
तस्यां रजन्यां घोरायां नदन्त्यस्सर्वतश्शिवाः
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम्
ततस्सैन्येषु राजेन्द्र शब्दस्समभवन्महान्
भेरीशब्देन महता मृदङ्गानां तथैव च
गजानां गर्जितैश्चापि तुरगाणां च हेषितैः
खुरशब्दनिपातैश्च तुमुलस्सर्वतोऽभवत्
ततस्समभवद्युद्धं रात्रौ तदतिदारुणम्
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः
तमसा चावृते लोके न प्राज्ञायत किञ्चन
सैन्येन रजसा चैव समन्तादुत्थितेन च
नरस्याश्वस्य नागस्य सम्प्रसुस्राव शोणितम्
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते
घोरश्चटचटाशब्दश्शस्त्राणां पततामभूत्
नैव स्वे न परे राजन्नाज्ञायन्त तमोवृते
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे
भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम्
शातकुम्भैश्च कवचैर्भूषणैश्च तमोऽनशत्
ततस्सा भारती सेना मणिहेमविभूषिता
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ
गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला
वारणाभिरुता घोरा क्ष्वेडितोद्धुष्टनादिता
ततोऽभवन्महारौद्रस्तुमुलो रोमहर्षणः
समावृण्वन्दिशस्सर्वा महेन्द्राशनिनिस्स्वनः
सा निशीथे महाराज सेनाऽदृश्यत भारती
अङ्गदैर्मुकुटैर्र्निष्कैश्शस्त्रैश्चैवावभासिभिः
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः
यष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः
सम्पतन्तो ह्यदृश्यन्त भ्राजमाना इवाग्नयः
दुर्योधनपुरोवातां रथनागबलाहकाम्
वादित्रघोषस्तनितां चापविद्युद्ध्वजावृताम्
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम्
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम्
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम्
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते
भीरूणां त्रासजनने शूराणां हर्षवर्धने
रात्रियुद्धे वर्तमाने तदा घोरे सुदारुणे
द्रोणमभ्यद्रवन्क्रुद्धास्सहिताः पाण्डुसृञ्जयाः
ये ये प्रमुखतो राजन्नावर्तन्त महात्मनः
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम्
धृतराष्ट्रः-
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः
किममन्यत दुर्धर्षः प्रविष्टे शत्रुसूदने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत
के च तं परमं वीरमन्वयुर्द्विजसत्तमम्
के चास्य पृष्ठतोऽगच्छन्वीराश्शूरस्य गच्छतः
के पुरस्तादवर्तन्त निघ्नन्तश्शात्रवान्रणे
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्
शिशिरे कम्पमानान्वै कृशाङ्गान्गा इवाभितः
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः
कथं स पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्
सर्वेषु सैन्येषु च संहतेषु रात्रौ समेतेषु महारथेषु
सल्ँलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन्
हतांश्चैव विषक्तांश्च पराभूतांश्च शंस मे
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्
कथमेतत्तदा तत्र पार्थानामपलायिनाम्
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय
सञ्जयः-
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्राजन् पाण्डवास्सहसैनिकाः
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः
तान्सर्वान्प्रेषयामास परलोकाय भारत
प्रमथ्नन्तं तदा वीरान्भारद्वाजममर्षणम्
अभ्यवर्तत सङ्क्रुद्धश्शिबी राजा प्रतापवान्
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम्
विव्याध दशभिर्द्रोणस्सर्वपारशवैश्शरैः
तं शिबिः प्रतिविव्याध त्रिंशद्भिर्निशितैश्शरैः
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत्
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत्
कलिङ्गानामनीकेन कालिङ्गस्य सुतो महान्
त्वरन् पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत्
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
विशोकं त्रिभिरानर्च्छद्ध्वजमेकेन पत्रिणा
कलिङ्गानां च शूरं तं क्रुद्धं क्रुद्धो वृकोदरः
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह
मुष्टिनाऽभिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्
तस्मिंस्तथा हते तेन सिंहनादो महानभूत्
पाञ्चालानां महाराज साधु साध्विति पाण्डवम्
तं कर्णभ्रातरः पञ्च नामृष्यन्कर्ण एव च
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः
ततश्शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत्
यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया
स हतस्सर्वथा चूर्णो रक्तमेवोदपद्यत
तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा
आहतः पाण्डुपुत्रेण तलेन बलिनाऽपतत्
तं निहत्य महाराज भीमसेनो महाबलः
जयरातरथं प्राप्य मुहुस्सिंह इवोन्नदत्
जयरातं तु चरणे गृह्य भीमो महाबलः
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च
पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम्
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः
तामन्तरिक्षे चिच्छेद शरेणैकेन सूतजः
ततस्तव सुता राजन् भीमस्य रथमाव्रजन्
महता शरवर्षेण च्छादयन्तो वृकोदरम्
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे
सारथिं च हयांश्चैव क्षणान्निन्ये यमक्षयम्
दुर्मदस्तु ततो यानं दुष्कर्णस्याभिपुप्लुवे
तावेकरथमारूढौ भ्रातरौ परितापिनौ
सङ्ग्रामशिरसो मध्ये भीमं द्वाभ्यामविध्यताम्
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ
रथमेकं समारुह्य भीमं बाणैरविध्यताम्
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्
पादप्रहारेण धरां प्रावेशयदरिन्दमः
ततस्सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ
मुष्टिनाऽऽहत्य सङ्क्रुद्धो ममर्द चरणेन ह
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपा ब्रुवन्
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु क्रुध्यति
एवमुक्त्वाऽपालयन्त सर्वे भारत पार्थिवाः
विसञ्ज्ञाश्चाभवन्वाहा न च द्वौ समधावताम्
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली
ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः
वृकोदरं भृशमनुपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः
ततस्सुतास्तव वरुणात्मजोपमा रुषान्वितास्सह गुरुणा महात्मना
वृकोदरं सरथपदातिकुञ्जरा महारथा भृशमभिपर्यवारयन्
ततो यमौ द्रुपदसुतास्ससैनिका युधिष्ठिरद्रुपदविराटसात्वताः
घटोत्कचो जयविजयौ द्रुमो वृकस्ससृञ्जयास्तव तनयानवारयन्
ततोऽभवत्तिमिरघनैरिवावृतं महारवं भयदमतीव दारुणम्
निशामुखे बलवृकगृध्रमोदनं महात्मना नृपवर युद्धमद्भुतम्