धृतराष्ट्रः-
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय
पश्यतां सर्वसैन्यानां मामकानां महारणे
अहन्यत कथं युद्धे सैन्धवस्सव्यसाचिना
कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे
फल्गुनाग्निमुखं घोरं प्रविष्टस्साधु सैन्धवः
तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः
भ्रातृभिस्सहितस्सूत किमकार्षीदनन्तरम्
सञ्जयः-
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत
अमर्षवशमापन्नः कृपश्शारद्वतस्ततः
महता शरवर्षेण पाण्डवं समवाकिरत्
द्रौणिश्चाभ्यद्रवद्राजन्पश्चादागत्य पाण्डवम्
तावेव रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ
उभावुभयतस्तीक्ष्णैर्विशिखैस्समवर्षताम्
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः परामार्तिमगमद्रथिनां वरः
अजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः
अस्त्रैरस्त्राणि संवार्य द्रौणेश्शारद्वतस्य च
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्
तेन नातिभृशं त्रस्तौ विशिखैरवलोढितौ
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्
अथ शारद्वतो राजन्कौन्तेयशरपीडितः
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह
विह्वलं तमभिज्ञाय रथमध्यगतं कृपम्
मृत इत्येव मन्वानस्सारथिस्तमपावहत्
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि
अश्वत्थामाऽप्यपायासीत्पाण्डवेयाद्रथान्तरम्
दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम्
धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत्
अर्जुनः-
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्
कुलान्तकरणे पापे जातमात्रे सुयोधने
नीयतां परलोकाय साध्वयं कुलपांसनः
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्
तदिदं समनुप्राप्तं वचनं सत्यवादिनः
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम्
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्
को हि ब्राह्मणमाचार्यमनुद्रुह्येत मादृशः
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितस्सखा
एष शेते रथोपस्थे मद्बाणबलपीडितः
अकामयानेन मया विशिखैरर्दितो भृशम्
अवसीदद्रथोपस्थे प्राणान्पीडयतीव मे
शरार्दितस्स हि मया प्रेक्षमाणो महाद्युतिः
अभ्यस्तो बहुभिर्बाणैर्दशाधर्मगतेन वै
शोचयत्येष निपतन्भूयः पुत्रवधादिव
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्
उपाहरन्ति ये विद्यामाचार्येभ्यो नरोत्तमाः
प्रयच्छन्ति हि ये कामान्वै देवत्वमुपयान्ति ते
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः
घ्नन्ति तानेव दुष्प्रज्ञास्ते वै निरयगामिनः
तदिदं निरयायैव कृतं कर्म सुदुष्करम्
आचार्यं शरवर्षेण रथे सादयता कृपम्
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः
न कथञ्चन कौन्तेय प्रहर्तव्यं गुराविति
तदिदं वचनं साधोराचार्यस्य तथा कृतम्
नैवानुष्ठितमेवाजौ विशिखैरभिवर्षता
नमस्तस्मै सुपूज्याय गौतमायापलायिने
धिगस्तु मम वार्ष्णेय योऽद्यास्मै प्रहराम्यहम्
सञ्जयः-
तथा तं विलपन्तं तु सव्यसाचिनमाहवे
ततो राजन्हृषीकेशस्सङ्ग्रामशिरसि स्थितम्
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत्
श्रीभगवान्-
दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः
धार्तराष्ट्रबलं प्राप्य देवसेनाऽपि पाण्डव
सीदेत समरे जिष्णो नात्र कार्या विचारणा
न तं पश्यामि लोकेषुऽस्मिन् चिन्तयन्पुरुषं क्वचित्
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्
महाप्रभावा बहवस्त्वया तुल्याधिकाऽपि वा
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्
नैवं हि शक्तिमान्कश्चिद्रणे कर्तुं पराक्रमम्
यादृशं कृतवानद्य त्वमेकश्शत्रुतापन
एवमेव हते कर्णे सानुबन्धे दुरात्मनि
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्
सञ्जयः-
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि केशव
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः
तवैष भारो वार्ष्णेय तव चैष जयः प्रभो
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान्
दर्शयामास पार्थाय क्रूरं विशसनं महत्
श्रीभगवान्-
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
सञ्छिन्नभिन्नमर्माणो वैक्लब्यं परमं गताः
ससत्वा गतसत्वाश्च प्रभया परया युताः
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः
तेषां शरैस्स्वर्णपुङ्खैश्शस्त्रैश्च विविधैश्शितैः
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम्
वर्मभिश्चर्मभिर्हारैश्शिरोभिश्चारुकुण्डलैः
उष्णीषैर्मकुटैस्स्रग्भिश्चूडामणिभिरम्बरैः
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथैर्द्विपैः
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः
ईषाभिश्च विचित्राभिर्वरूथैश्च महाधनैः
सङ्कीर्णां वसुधां पश्य चित्रपट्टैरिवाचिताम्
नागांश्च पतितान्नागैः कल्पितान्पश्य फल्गुन
सिंहान्वप्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान्
संस्तूयान्वाजिभिस्सार्धं धरण्यां पश्य चापरान्
पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान्
सञ्जयः-
एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने
तैस्समेतः समुदितैः पाञ्चजन्यं व्यनादयत्
सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः
युधामन्युश्चोत्तमौजाः पाञ्चालस्यात्मजावुभौ
ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः
विमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम्
युधिष्ठिरः-
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ
दिष्ट्या विनिहतः पापः सैन्धवः पुरुषाधमः
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे
न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन
त्वत्प्रसादाद्गोविन्द विजेष्यामो वयं रिपून्
यथा पुरा प्रसादात्ते दानवान्पाकशासनः
पृथिव्या विजयो वापि त्रैलोक्यविजयोऽपि वा
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि मानद
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः
त्रिदशेश्वर नाथस्त्वं येषां तुष्टोऽसि माधव
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वराः
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान्
त्वत्प्रसादसमृद्धेन विक्रमेणारिसूदन
सुरेशत्वं गतश्शक्रो हत्वा दैत्यान्सहस्रशः
त्वत्प्रसादान्महाबाहो जगत्स्थावरजङ्गमम्
स्वे वर्त्मनि स्थितं वीर जपहोमेषु वर्तते
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्
त्वत्प्रकाशात्परकाशत्वं जगत्प्राप्तं नरोत्तम
स्रष्टारं सर्वभूतानां परमात्मानमच्युतम्
ये प्रपन्ना हृषीकेश न ते मुह्यन्ति कर्मसु
पुराणं परमं देवं देवदेवं सनातनम्
ये प्रपन्नास्सुरगुरुं न ते मुह्यन्ति कर्हिचित्
अनादिनिधनं देवं लोककर्तारमव्ययम्
ये भक्तास्ते हृषीकेश दुर्गाण्यतितरन्ति ते
परं पुराणं पुरुषं पराणानां पुरातनम्
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते
यं गान्ति चतुरो वेदा यश्च देवेषु गीयते
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम्
धनञ्जयसखा यश्च धनञ्जयहितश्च यः
धनञ्जयगोप्तारं प्रपद्य सुखमेधते
सञ्जयः-
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ
तावब्रूतां रणे हृष्टौ राजानं पृथिवीपतिम्
कृष्णधनञ्जयौ-
तव रोषाग्निना दग्धः पापो राजञ्जयद्रथः
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे
युधिष्ठिरः-
हन्यन्ते निहताश्चैव विनङ्क्ष्यन्ति च केशव
तव क्रोधहता ह्येते कौरवाश्शत्रुसूदन
त्वां हि चक्षुर्हणं वीर कोपयित्वा सुयोधनः
समित्रबन्धुस्समरे प्राणांस्त्यक्ष्यति दुर्मतिः
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः
शरतल्पगतश्शेते भीष्मः कुरुपितामहः
दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन
यान्ति मृत्युवशं ते वै येषां क्रुद्धोऽसि मानद
राज्यं प्राणाश्श्रियः पुत्रास्सौख्यानि विविधानि च
अचिरादेव नश्यन्ति येषां क्रुद्धोऽसि माधव
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान्
श्रीभगवान्-
एवमेतन्महाबाहो विनष्टाः कौरवा मृधे
राजन्धर्मभृतां श्रेष्ठ त्वयि क्रुद्धे युधिष्ठिर
सञ्जयः-
ततो युधिष्ठिरं भीमस्सात्यकिश्च महारथः
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविग्रहौ
क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ
दृष्ट्वा प्रमुदितौ वीरौ प्राञ्जली समुपस्थितौ
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी
युधिष्ठिरः-
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात्
द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात्
दिष्ट्या विनिर्जितास्सङ्ख्ये पृथिव्यां सर्वपार्थिवाः
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे
दिष्ट्या द्रोणो जितस्सङ्ख्ये हार्दिक्यश्च महाबलः
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चाक्षयौ
समरे श्लाघिनौ वीरौ समरेष्वपराजितौ
मम प्राणसमौ वीरौ दिष्ट्या पश्यामि चाव्ययौ
सञ्जयः-
इत्युक्त्वा पाण्डवो राजन्युयुधानवृकोदरौ
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह
ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते
पाण्डवानां महद्धृष्टं युद्धाय च मनो दधे