सञ्जयः-
एतस्मिन्नेव काले तु त्वरमाणे दिवाकरे
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः
श्रीभगवान्-
पार्थ पार्थ शिरो ह्येतद्यत्कृते न पतेद्भुवि
अस्तं गिरिमिहासाद्य त्वरते वै दिवाकरः
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं प्रति
वृद्धक्षत्रः पिता ह्यस्य बभूव भुवि विश्रुतः
स च घोरेण तपसा सैन्धवं प्राप्तवान्सुतम्
जयद्रथममित्रघ्नं तं चोवाच तदा नृपम्
अन्तर्हिता पुरा वाणी मेघदुन्दुभिनिस्स्वना
आकाशवाक्-
तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः
शत्रुभिर्युध्यमानस्य सङ्ग्रामे सहधन्विनः
शिरश्छेत्स्यति सङ्क्रुद्धश्शत्रुश्चालक्षितो भुवि
श्रीभगवान्-
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः
वृद्धवृक्षः-
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम्
धरण्यां मम पुत्रस्य पातयिष्यति यश्शिरः
तस्यापि शतधा मूर्धा फलिष्यति न संशयः
यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा
श्रीभगवान्-
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः
स एष तप्यते राजा तपो घोरं सनातनम्
स्यमन्तपञ्चकादस्माद्बहिरेव धनञ्जय
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज
उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले
तवापि शतधा मूर्धा फतिष्यति न संशयः
यथा चेदं न जानीयात्स राजा पृथिवीपतिः
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः
न ह्यसाध्यमकार्यं वा विद्यते भुवि किञ्चन
अस्त्रस्यास्य प्रमुक्तस्य पशुभर्तुः कथञ्चन
यथैतत्सैन्धवशिरश्शरैरेव धनञ्जय
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम्
सञ्जयः-
एतच्छ्रुत्वा तु वचनं वासुदेवस्य भारत
अर्जुनस्त्वरया युक्तस्तदस्त्रं समुपाश्रितः
वृद्धक्षत्राश्रमद्वारमहरत्तदरेश्शिरः
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः
सन्ध्यामुपास्ते विधिवज्जपयुक्तस्समाहितः
उपासीनस्य सन्ध्यां तु वृद्धक्षत्रस्य पाण्डवः
तच्छिरस्सिन्धुराजस्य उत्सङ्गे समपातयत्
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्
वृद्धक्षत्रस्य नृपतेरलक्षितमभूत्तदा
ततो भीतस्य तस्याथ वृद्धक्षत्रस्य पश्यतः
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम्
ततस्तस्मिन्नरेन्द्रस्य क्षितिं प्राप्ते शिरस्यथ
तच्छिरश्शतधा राजन्पपात पृथिवीतले
ततस्सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम्
वासुदेवश्च बीभत्सुं प्रशशंस महारथम्
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्
कर्मणा तेन पार्थस्य विस्मितास्सर्वदेवताः
सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः
कथं तस्य जयो न स्यादिति भूतानि मेनिरे
एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम्
कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम्
अस्त्रं पाशुपतं पार्थस्संहर्तुमुपचक्रमे
संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत
ववौ शीतस्सुगन्धश्च पवनो ह्लादयन्निव
संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम्
एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः
जयद्रथशिरः पश्चाच्च्यावयामास पाण्डवः
तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना
शिरसि च्याविते तस्य शरैराशीविषोपमैः
पश्चात्कायोऽपतद्भूमौ शोचयन्सर्वपार्थिवान्
दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम्
पुत्राणां तव नेत्रेभ्यो दुःखादास्रमवर्तत
तस्मिंस्तु निहते वीरे सैन्धवे लोकविश्रुते
प्रहर्षमतुलं लेभे कृष्णः पार्थश्च भारत
भीमसेनस्तु प्राक्रोशद्बोधयन्निव पाण्डवान्
सिंहनादेन महता पूरयन्निव रोदसी
तस्य तं निनदं श्रुत्वा धर्मराजो युधिष्ठिरः
सैन्धवं निहतं मेने फल्गुनेन महात्मना
ततो वादित्रघोषेण सह दुन्दुभिनिस्वनः
उपपद्यत सैन्यस्य पाण्डूनां हृष्टचेतसाम्
अथ प्रववृते राजन्लोहितायति भास्करे
द्रोणस्य सोमकैस्सार्धं सङ्ग्रामो रोमहर्षणः
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः
निहते सैन्धवे राजन्नयुध्यन्त महारथाः
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च
अयोधयंस्तु रणे द्रोणं जयोऽन्मत्तास्सहस्रशः
अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान्
योधयामासबहुधा हत्वा सिन्धुपतिं भृशम्
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्सपत्नान्
यथा तमांस्यभ्युदिस्तमोघ्नः कृतां प्रतिज्ञां च समाप्य वीरः