धृतराष्ट्रः-
तथा गतेषु शूरेषु तेषां मम च सञ्जय
किंस्विद्भीमार्जुनौ चैव सात्यकिश्चाकरोत्तदा
सञ्जयः-
भीमसेनोऽब्रवीदेनं कर्णवाक्शल्यपीडितः
अमर्षवशमापन्नः पाण्डवं सव्यसाचिनम्
भीमः-
पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर
इति मामब्रवीत्कर्णश्शृण्वतस्ते धनञ्जय
एवं वक्ता च मे वध्यस्तेन चोक्तस्तथा ह्यहम्
एतद्व्रतं महाबाहो त्वया सह कृतं मया
तथैतन्मम कौन्तेय यथा तव न संशयः
तं वराय नरश्रेष्ठ स्मरैतद्वचनं मम
यथा भवति तत्सत्यं तथा कुरु धनञ्जय
सञ्जयः-
वचनं भीमसेनस्य श्रुत्वा त्वमरविक्रमः
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे
अर्जुनः-
कर्ण कर्ण मृषादृष्टे सूतपुत्र सुदुर्मते
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि साम्प्रतम्
द्वावेव कर्ण शूराणां रणे दृष्टौ जयाजयौ
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः
रणमुत्सृज्य निर्लज्ज गच्छसे च पुनः पुनः
माहात्म्यं पश्य भीमस्य कर्म जन्म कुले तथा
नोक्तवान्परुषं यत्त्वा पलायनपरायणम्
भूयस्त्वमपि सङ्गम्यं सकृदेव यदृच्छया
विरथं कृतवान्वीरं पाण्डवं सूतदायद
कुलस्य सदृशं चापि राधेय कृतवानसि
त्वमिदानीं नरश्रेष्ठ प्रस्तुतं नावबुध्यसे
सृगाल इव वन्येन क्षत्रं त्वमवमन्यसे
पित्र्यं कर्मास्य सङ्ग्रामस्तव तस्य कुलोचितम्
अहं त्वमपि राधेय ब्रवीमि रणमूर्धनि
सर्वशस्त्रभृतां मध्ये कुरु कार्याणि सर्वशः
नैकान्तसिद्धिसङ्ग्रामे वासवस्यापि विद्यते
मुमूर्षुर्वृष्णिवीरेण विरथोऽसि विनिर्जितः
स त्वया भीमसेनस्य जयः प्राप्तो यदृच्छया
अधर्मेण च राधेय स त्वं भीममवोचथाः
युद्धधर्ममजानन्वै युद्ध्यन्तमपलायिनम्
पूरयन्तं यथाशक्ति शूरकर्माहवे स्थितम्
पश्यतां सर्वसैन्यानां केशवस्य च सन्निधौ
विरथो भीमसेनेन कृतो युधि पुनः पुनः
सर्वशस्त्रभृतां मध्ये गुरुकार्यं त्वया कृतम्
परोक्षं मम सौभद्रो युष्माभिर्बहुभिर्हतः
तस्मात्तस्यावलेपस्य सद्यः फलमवाप्नुहि
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते
तस्माद्वध्योऽसि मे मूढ सभृत्यसुतबान्धवः
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम्
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे
ये च तत्रापि हन्तारं उपयास्यन्ति मां युधि
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे
मौण्डिनं तं वधिष्यामि त्वां च कर्णातिमानिनम्
सञ्जयः-
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु
महान्सुतुमुलश्शब्दो बभूव रथिनां तदा
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने तथाविधे
मन्दरश्मिस्सहस्रांशुरस्तङ्गिरिमुपाद्रवत्
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्
अमानुषाणि कर्माणि कुर्वन्तौ पुरुषर्षभौ
सात्यकिं भीमसेनं च यत्तौ तौ दर्शयन्निव
दुर्योधनः-
अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन्
यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व
अल्पावशेषो दिवसो हि साम्प्रतं निवारयेहाद्य रिपुं शरौघैः
दिनक्षयं प्राप्य नरप्रवीर ध्रुवो हि नः कर्ण जयो भविष्यति
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्
अनर्जुनायां च भुवि मुहूर्तमपि मानद
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः
पाण्डवेषु च नष्टेषु सशैलवनकाननाम्
कर्णेमां वसुधां कृत्स्नां भोक्ष्यामो हतकण्टकाम्
दैवेनोपहतः पार्थो विपरीतश्च मानद
कार्याकार्यमजान्वै प्रतिज्ञां कृतवान्रणे
नूनमात्मविनाशाय पाण्डवेन किरीटिना
मिथ्याप्रतिज्ञैव कृता जयद्रथवधं प्रति
कथं जीवति मसार्षे त्वयि राधेय फल्गुनः
अनस्तमित आदित्ये हन्यात्सैन्धवं नृपम्
रक्षितं मद्रराजेन कृपेण च महात्मना
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः
द्रौणिना रक्ष्यमाणं च मया दुश्शासनेन च
कथं प्राप्स्यति बीभत्सुस्सैन्धवं कालचोदितः
युध्यन्ते बहवश्शूरा लम्बते च दिवाकरः
शङ्के जयद्रथं पार्थो नैनं प्राप्स्यति मानद
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे
सञ्जयः-
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्
कर्णः-
दृढलक्ष्येण वीरेण भीमसेनेन धन्विना
दृढमुद्वेजितस्सङ्ख्ये शरजालैरनेकधा
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद
नाङ्गमिङ्गति मे किञ्चित्सन्तप्तस्य रथेषुभिः
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं हि मे
तत्तथा प्रयतिष्येऽहं परं शक्त्या सुयोधन
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम्
न हि मे युध्यमानस्य सायकांश्चास्यतश्शितान्
सैन्धवं प्राप्नुयाद्वीरस्सव्यसाची धनञ्जयः
यत्तु शक्तिमता कार्यं सततं हितकारिणा
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः
अद्य योत्स्येऽर्जुनमहं पौरुषे स्वे व्यवस्थितः
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः
पश्यन्तु सर्वभूतानि दारुणं रोमहर्षणम्
सञ्जयः-
कर्णकौरवयोरेवं रणे सम्भाषमाणयोः
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्
चिच्छेद निशितैर्बाणैश्शूराणामनिवर्तिनाम्
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे
शिरांसि च महाबाहुश्चिच्छेद निशितैश्शरैः
हस्तिहस्तान्द्विपस्कन्धान्रथाक्षांश्च समन्ततः
बाहूंश्चकर्त वै नॄणां गृहीतप्रासतोमरान्
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च
हयान्वारणमुख्यांश्च प्रापतंश्च सहस्रशः
ध्वजांश्छत्राणि चापानि चामराणि शिरांसि च
कक्षमग्निरिवोद्धूतः प्रादहत्तव वाहिनीम्
अचिरेण महीं पार्थश्चकार रुधिरोक्षिताम्
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली
आससाद दुराधर्षस्सैन्धवं सत्यविक्रमः
बीभत्सुर्भीमसेनेन सात्यकेन च रक्षितः
बभूव भरतश्रेष्ठ ज्वलन्निव हुताशनः
तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीरसम्मताः
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभम्
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः
सन्नद्धास्सैन्धवस्यार्थे समावव्रुः किरीटिनम्
नृत्यन्तं रथमास्थाय धनुर्ज्यातलनादितैः
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः
अभीताः पर्यवर्तन्त व्यात्ताननमिवान्तकम्
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान्
मुमुचुस्सूर्यरश्म्याभाञ्छतशः फल्गुनं प्रति
ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः
द्विधा त्रिधाऽष्टधा च्छित्त्वा सद्यो विव्याध तान्रथी
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः
शारद्वतीसुतो राजन्नर्जुनं प्रत्ययोधयत्
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन्
अथैनं कौरवश्रेष्ठास्सर्व एव समन्ततः
महता रथवंशेन सर्वतः प्रत्यवारयन्
विष्फारयन्तश्चापानि विसृजन्तश्च सायकान्
सैन्धवं पर्यरक्षन्तश्शासनात्तनयस्य ते
ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत
इषुधेरक्षयत्वं च धनुषो गाण्डिवस्य च
अस्त्रैरस्त्राणि संवार्य द्रौणेश्शारद्वतस्य च
एकैकं दशभिर्बाणैस्सर्वानेव समार्पयत्
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः
दुर्योधनश्च सप्तत्या कर्णश्च दशभिश्शरैः
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः
विधून्वन्तश्च चापानि सर्वतः प्रर्यवारयन्
क्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशुगैः
सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च
सिषिचुर्मार्गणैर्वीरा गिरिं मेघा इवाम्बुभिः
ते समेता महास्त्राणि तत्र राजन्व्यदर्शयन्
धनञ्जयस्य गात्षु शूराः परिघबाहवः
निवार्य ताञ्शरव्रातैर्दिव्यान्यस्त्राणि दर्शयन्
हतभूयिष्ठयोधं तत्कृत्वा तव बलमर्जुनः
आससाद दुराधर्षस्सैन्धवं सत्यविक्रमः
तं कर्णस्संयुगे राजन्प्रत्यवारयदाशुगैः
मिषतो भीमसेनस्य सात्वतस्य च भारत
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे
सूतपूत्रं महाबाहुस्सर्वसैन्यस्य पश्यतः
सात्वतोऽपि त्रिभिर्बाणैः कर्णं विव्याध मारिष
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः
तद्युद्धमभवद्राजन्कर्णस्य बहुभिस्सह
तत्राद्भुतमपश्याम सूतजस्य च विक्रमम्
यदेकस्समरे क्रुद्धांस्तांश्च त्रीन्पर्यवारयत्
फल्गुनश्च महाबाहुः कर्णं वैकर्तनं रणे
सायकानां शतेनैव सर्वमर्मस्वताडयत्
रुधिरोक्षितसर्वाङ्गस्सूतपुत्रः प्रतापवान्
शरैः पञ्चाशता राजन्प्राविध्यत्फल्गुनं रणे
तस्य तल्लाघवं दृष्ट्वा सव्यसाची नमृष्यते
तस्य पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः
वधार्थं तस्य समरे सायकं सूर्यवर्चसम्
चिक्षेप त्वरया राजंस्त्वरकाले धनञ्जयः
तमापतन्तं भल्लेन द्रौणिश्चिचछेद सायकम्
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भुवि
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ
सायकौघप्रतिच्छन्नौ चक्रतुः खमजिह्मगैः
अदृश्यौ च शरौघैस्तौ निघ्नन्तावितरेतरम्
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तु परस्परम्
विध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च
प्रेक्षणीयतमावस्तां सर्वयोधसमागमे
प्रशस्यमानौ समरे सिद्धचारणवादिकैः
अयुध्येतां महाराज परस्परवधैषिणौ
ततो दुर्योधनो राजा तावकानभ्यभाषत
दुर्योधनः-
यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम्
निवर्तिष्यति राधेयो न वाऽजित्वाऽद्य फल्गुनम्
सञ्जयः-
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्
अनयन्मृत्युलोकाय चतुर्भिस्सायकोत्तमैः
सारथिं चास्य भल्लेन रथनीडादपातयत्
छादयामास स शरैस्तव पुत्रस्य पश्यतः
सञ्छाद्यमानस्समरे हताश्वो हतसारथिः
मोहितश्शरजालेन कर्तव्यं नाभ्यपद्यत
तं तथा विरथं दृष्ट्वा आरोप्य स्वरथं तदा
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत्
मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः
आवव्रेऽर्जुनमार्गं च शरजालेन भारत
शारद्वतस्तु विंशत्या वासुदेवं समार्पयत्
धनञ्जयं द्वादशभिराजघान शिलीमुखैः
चतुर्भिस्सिन्धुराजश्च वृषसेनश्च सप्तभिः
पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम्
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः
द्रोणपुत्रं चतुष्षष्ट्या मद्रराजं शतेन च
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिश्शरैः
शारद्वतं च विंशत्या विद्ध्वा पार्थस्समानदत्
ते प्रतिज्ञाप्रतीघातमिच्छन्तस्सव्यसाचिनः
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम्
ततोऽर्जुनस्सर्वतोदारमस्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्
तं प्रत्युदीयुः कुरवः पाण्डुपुत्रं रथैर्महार्हैश्शरवर्षं सृजन्तः
ततस्तु तस्मिंस्तुमले समुत्थिते सुदारुणे भारत मोहनीये
न सम्मुमोहाथ स राजपुत्रः किरीटमाली विसृजञ्शरौघान्
वधं प्रेप्सुस्सव्यसाची कुरूणां स्मरन्क्लेशान्द्वादशवर्षवृत्तान्
गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदन्तरिक्षम्
प्रदीप्तोल्कमभवच्चान्तरिक्षं देहेषु भूरीण्यपतन्वयांसि
यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनुग्रजवेन हन्ति
किरीटमाली महता महायशाश्शरासनेनास्य शराननीकजित्
हयप्रवेकोत्तमनागघूर्णितान्कुरुप्रवीरानिषुभिर्व्यपातयत्
गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः
महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः
स तानुदीर्णान्सरथाश्ववारणान्पदातिसङ्घांश्च महाधनुर्धरः
विपन्नसर्वायुधजीवितान्रणे चकार वीरो यमराष्ट्रवर्धनान्
मध्यन्दिनगतं सूर्यमापतन्तमिवाम्बरे
न शेकुस्सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्
स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राण्यदर्शयत्
आददानं महाराज सन्दधानं च पाण्डवम्
उत्कर्षन्तं विकर्षन्तं नाभ्यपश्याम लाघवात्
स्रवन्त इव गाण्डीवाच्छरव्राता महात्मनः
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः
अवारयत्स वीराणामस्त्रैरस्त्राणि सर्वतः
दर्शयन्रौद्रमात्मानमुग्रमुग्रपराक्रमः
स तान्रथवरान्राजन्न ह्यतिक्रामदर्जुनः
मोहयन्निव नाराचैर्जयद्रथवधेप्सया
विसृजन्दिक्षु सर्वासु शरानच्युतसारथिः
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः
भ्रमन्त इव शूरस्य शरव्राता महात्मनः
अदृश्यन्तान्तरिक्षस्थाश्शतशोऽथ सहस्रशः
आददानं महेष्वासं सन्दधानं च सायकम्
विसृजन्तं च कौन्तेयं नानुपश्याम हे तदा
ततस्सर्वा दिशो राजन्सर्वांश्च रथिनो रणे
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्
विव्याध च चतुष्षष्ट्या शराणां नतपर्वणाम्
सैन्धवस्तु तथा विद्धश्शरैर्गाण्डीवधन्वना
न चक्षमे सुसङ्क्रुद्धस्तोत्रार्दित इव द्विपः
स वराहध्वजस्तूर्णं गृध्रपक्षानजिह्मगान्
आशीविषसमप्रख्यान्कर्मारपरिमार्जितान्
मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिने
त्रिभिस्तु विद्ध्वा गोविन्दं नाराचैष्षड्भिरर्जुनम्
अष्टभिर्वाजिनो विध्वा ध्वजं चैकेन पत्रिणा
भूयश्चैवार्जुनं सङ्ख्ये शरवर्षैरवाकिरत्
स विधूयार्जुनस्सङ्ख्ये सैन्धवस्य शरान् बहून्
युगपत्सम्प्रचिच्छेद शराभ्यां सैन्धवस्य ह
सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम्
स च्छिन्नयष्टिस्सुमहाञ्शीर्यमाणश्शराहतः
वराहस्सिन्धुराजस्य पपातेन्दुसमप्रभः
आदित्यं प्रेक्षमाणस्तु बीभत्सुः सृक्विणी लिहन्
अपश्यन्नान्तरं तस्य रक्षिभिः संवृतस्य वै
अभवक्त्रोधरक्ताक्षो व्यात्तानन इवान्तकः
अथाब्रवीद्वासुदेवः कुन्तीपुत्रं धनञ्जयम्
श्रीभगवान्-
नैष शक्यस्त्वया हन्तुं निर्व्याजं भरतर्षभ
स्रक्ष्याम्यहमुपायं तमादित्यस्यापवारणे
ततोऽस्तं गतमादित्यं मंस्यते सिन्धुराडिह
ततोऽस्य विस्मयात्पार्थ हर्षश्चैव भविष्यति
आत्मजीवितलाभाच्च प्रतिज्ञायाश्च नाशनात्
अस्तङ्गतमिवादित्यं दृष्ट्वा मोहेन बालिशः
न हि शक्ष्यत्यथात्मानं रक्षितुं हर्षसम्भवात्
एतस्मिन्नेव काले तु प्रहर्तव्यं धनञ्जय
जयद्रथस्य क्षुद्रस्य सवितुर्दर्शनार्थिनः
सञ्जयः-
तथेत्युक्त्वा तदा पार्थं क्षिप्रमेवाहरत्प्रभाम्
पार्थस्तु बलवान्ज्ञात्वा तमो दृष्ट्वाऽतिदुःखितः
जनार्दनेन सृष्टं वै तम आदित्यनाशनम्
अभवंस्तावका दृष्ट्वा हर्षसङ्कुलचेतनाः
अनस्तमित आदित्ये एतान्निर्त्य सैन्धवः
न सक्यो हन्तुमित्येवं मन्यमानो जनार्दनः
सस्मार चक्रं दैत्यारिर्हरिश्शत्रुविनाशनम्
तदादिदेश भगवान्स्मृतमात्रमुपस्थितम्
अस्तं गतमिवादित्यं तमसा च्छादयेति वै
तत्तथोक्तं भगवता तमो भूत्वा विशां पते
अन्धं तम इवाज्ञानमादित्यस्याहरत्प्रभाम्
उन्नमय्य शिरो ग्रीवामपश्यत्सैन्धवो रविम्
अथार्जुनं हृषीकेशश्शोकपूर्णमथाब्रवीत्
श्रीभगवान्-
पश्य कौन्तेय सिन्धूनामधिपं पापकारिणम्
एष तिष्ठति मध्ये वै स्यन्दनस्य धनञ्जय
उन्नमय्य शिरो ग्रीवां वीक्षते सूर्यमण्डलम्
तस्य शीघ्रं पृषत्केन कायाच्छीर्षमपाहर
सञ्जयः-
केशवेनैवमुक्तस्सन्नमर्षाद्रक्तलोचनः
समुद्वहच्छरं तीक्ष्णममरैरपि दुस्सहम्
एकं तूणीशयं घोरमिन्द्राशनिसमप्रभम्
सर्वभेदिनमत्यर्थं गन्धमाल्यार्चितं सदा
विससर्ज ततस्तूर्णं सैन्धवस्य रथं प्रति
स तु गाण्डीवनिर्मुक्तश्शरश्श्येन इवाशुगः
शकुन्तमिव वृक्षाग्रात्सैन्धवस्याहरच्छिरः
प्रपतिष्यति शीर्षे तु कृष्णोऽर्जुनमथाब्रवीत्
श्रीभगवान्-
पार्थ पार्थ शिरो ह्येतद्यथा नेयान्महीतलम्
तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम्
सञ्जयः-
श्रुत्वा तु वचनं तस्य त्वरमाणोऽस्त्रमायया
तथाऽहरच्छिरस्तस्य शरैरूर्ध्वं धनञ्जयः
दुर्हृदामपहर्षाय सुहृदां हर्षणाय च
तिर्यगूर्ध्वमधश्चैव पुनरूर्ध्वमथापि च
दीर्घकालमवाक्चैव सम्प्रक्रीडन्निवार्जुनः
तत्सैन्यं सर्वतोऽपश्यन्महदाश्चर्यमद्भुतम्
प्रापयत्स शिरो यस्माद्योधयन्नेव पार्थिवान्
शरैः कन्दुकवत्कृत्वा तस्यालोकाय पाण्डवः
स्यमन्तपञ्चकाद्बाह्ये शिरस्तदहरच्छरैः
जयद्रथस्यार्जुनबाणनालं मुखारविन्दं रुधिराम्बुसिक्तम्
दृष्टं नरैश्चोपरि वर्तमानं विद्याधरोत्सृष्टमिवैकपद्मम्
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्सपत्नान्
यथा तमांस्यभ्युदितस्तमोघ्नः पूर्णां प्रतिज्ञां स समवाप्य वीरः
अथाब्रवीत्केशवं पाण्डवेयः कियन्तमध्वानमिदं हरामि
किमर्थमेतन्न निपात्यमुर्व्यां क्व च प्रयातव्यमिदं च शंस
शक्नोम्यहं यत्र भवान्ब्रवीति तं भूमिदेशं च शिरो विनेतुम्