धृतराष्ट्रः-
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय
सञ्जयः-
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत
वासुदेवं महाबाहुमर्जुनस्समचूचुदत्
अर्जुनः-
चोदयाश्वान्द्रुतं कृष्ण यतो राजा जयद्रथः
अस्तमेति महाबाहो त्वरमाणो दिवाकरः
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः
यथा नात्येति मां सूर्यो यथा सत्यं भवेद्वचः
चोदयाश्वान्हृषीकेश यथा हन्यां जयद्रथम्
सञ्जयः-
ततः कृष्णो महाबाहुरश्वान्रजतसन्निभान्
हयज्ञश्चोदयामास जयद्रथवधं प्रति
तं प्रयान्तममोघेषुमुत्पतन्तमिवाशुगैः
त्वरमाणा महाराज सेनामुख्यास्समाद्रवन्
दुर्योधनश्च कर्णश्च वृषसेनश्च मद्रराट्
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः
समासाद्य तु बीभत्सुस्सैन्धवं प्रमुखे स्थितम्
नेत्राभ्यां क्रोधताम्राभ्यां प्रेक्षते स्म दहन्निव
यथाऽग्निरिन्धनेद्धो वै क्रोधेन्धनसमीरितः
सैन्धवस्य मुखं त्यक्त्वा कर्णस्सात्वतमभ्ययात्
तत्राभियान्तं राधेयं दृष्ट्वा पार्थोऽपि सत्यकम्
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत्
अर्जुनः-
एष प्रयात्यातिरथिस्सात्यकस्य रथं प्रति
नामृष्यत हतं मन्ये भूरिश्रवसमाहवे
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन
सौमदत्तेस्तु पदवीं गमयेत्सात्यकिं वृषा
सञ्जयः-
एवमुक्तो महाबाहुः केशवस्सव्यसाचिना
तमब्रवीन्महाराज पाण्डुपुत्रमिदं वचः
श्रीभगवान्-
अलमेष महाबाहो कर्णस्यैकोऽपि पाण्डव
किं पुनर्द्रौपदेयाभ्यां सहितस्सात्वतर्षभः
न हि तावत्क्षमः पार्थ कर्णेन तव सङ्गमः
प्रज्वलन्ती महोल्केव तिष्ठत्यस्मिन्हि वासवी
त्वदर्थं पूज्यमाना च शक्तिश्शत्रुप्रमाथिनी
ततः कर्णः प्रयात्वद्य सात्वताय यथातथम्
अहं जानामि कौन्तेय कालमस्य दुरात्मनः
तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना
धृतराष्ट्रः-
यत्तत् कर्णेन वीरेण सात्त्वतस्य महारणे
सौमदत्तिं हतं दृष्टस्तद्युद्धमभवत्कथम्
सात्यकिश्चापि विरथः कं समारूढवान्रथम्
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय
सञ्जयः-
हन्त ते कथयिष्यामि तयोः प्राणदुरोदरम्
पश्यतां सर्वसैन्यानां केशवार्जुनयोरपि
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो
विजेतव्यो यथा वीरस्सौमदत्तेन सात्यकिः
अनागतमतीतं च सर्वं वेद जनार्दनः
व्यपदेशेन तं रात्रौ दारुकं सन्दिदेश ह
रथो मे युज्यतां कल्यमिति राजन्महाबालः
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः
मानवाश्च विजेतारः कृष्णयोस्स्यन्दनस्थयोः
पितामहपुरोगाश्च देवास्सिद्धाश्च तं विदुः
प्रभावं वासुदेवस्य शृणु युद्धं तु तद्यथा
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे
दध्मौ शङ्खं महाघोषममर्षेणेव पूरितम्
दारुकः कृष्णसन्देशं रहस्युक्तं हृदा वहन्
रथमन्वानयत्तस्मै स तार्क्ष्योच्छ्रितकेतनम्
स केशवस्यानुमते रथं दारुकसंयुतम्
आरुरोह शिनेर्नप्ता ज्वलनादित्यसन्निभम्
कामगैस्सैन्यसुग्रीवमेघपुष्पबलाहकैः
हयैर्युक्तं महावेगैर्हेमाभरणभूषितैः
स तं दिव्यं समारुह्य विमानप्रतिमं रथम्
अभ्यद्रवत्स राधेयं प्रवपन्वै शरान्बहून्
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
जयद्रथरथं प्राप्य राधेयं प्रत्युदीयतुः
राधेयोऽपि महाराज शरवर्षं समुत्सृजन्
अभ्यद्रवत्स शैनेयं कर्णोऽपि रणकोविदः
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम्
तादृशं भुवि नो युद्धं दृष्टं नासीन्नच श्रुतम्
सर्वं ह्युपारमत् सैन्यं सरथाश्वनरद्विपम्
तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतसः
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च
गतप्रत्युद्गतावृत्तैर्मण्डलैस्सन्निवर्तनैः
सारथेश्चरितं दृष्ट्वा केशवस्येव विस्मिताः
नभस्तलगताश्चैव देवगन्धर्वदानवाः
अतीवावहिता द्रष्टुं कर्णशैनेयविक्रमम्
मित्रार्थे तु पराक्रान्तौ शुष्मिणौ स्पर्धिनौ तदा
अन्योन्यं समरे राजन् शरवर्षैरवर्षताम्
कर्णस्त्वमितविक्रान्तस्तव पुत्रहिते रतः
प्रममाथ शिनेः पौत्रं शरैराशीविषोपमैः
जलसन्धं हतं दृष्ट्वा भूरिश्रवसमेव च
कर्णो रोषसमाविष्टो विषं सर्प इवोद्वमन्
स शैनेयं रणे क्रुद्धः सर्वतश्शरवृष्टिभिः
अभ्यर्दयन्महाबाहुस्सर्वक्षत्रस्य पश्यतः
तं तु सम्प्रेक्ष्य संरब्धं विसृजन्तं शराञ्शितान्
शरैरेव प्रजग्राह सत्यको वृष्णिपुङ्गवः
तत्राश्चर्यं तदा राजनकरोच्छिनिनन्दनः
कर्णं च प्रतिविव्याध शरांस्तत्प्रहिताञ्शितान्
ततस्तौ स्पर्धया वीरावुभौ युद्धविशारदौ
अक्षतामथान्योन्यमुभौ विजयकाङ्क्षिणौ
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ
बाणसङ्कुलयुद्धैश्च स्पर्धिनौ युद्धदुर्मदौ
अयुध्येतामथान्योन्यं रणेऽनुपमविक्रमौ
ततः कर्णं शिनेर्नप्ता सर्वपारशवैश्शरैः
बिभेद सर्वगात्रेषु पुनःपुनररिन्दमः
सारथिं चास्य भल्लेन रथनीडादपाहरत्
अश्वांश्च चतुरश्श्वेतान्निजघान शितैश्शरैः
ध्वजं चिच्छेद भल्लेन रथं च शतधाऽकरोत्
चकार विरथं कर्णं पुत्राणां तव पश्यताम्
ततो विमनसो राजंस्तावका वै महारथाः
कृपश्च मद्रराजश्च वृषसेनश्च संयुगे
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्
ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन
तथा सात्यकिना वीरे विरथे सूतजे कृते
हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान्
कर्णोऽपि विह्वलो राजन्सात्वतेनाचितश्शरैः
दुर्योधनरथं तूर्णमारुरोह विनिश्श्वसन्
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन्
तथाऽपि विरथं कर्णं पुत्रांश्च तव पार्थिव
दुश्शासनमुखान्सङ्ख्ये नावधीत्सात्यकिर्वशी
रक्षन्प्रतिज्ञां च पुनर्भीनसेनकृतां पुरा
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्
भीमसेनेन हि वधः पुत्राणां ते प्रतिश्रुतः
पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा
नाशक्नुवंश्च तं हन्तुं सात्वतप्रवरं तदा
सात्यकिस्तु सुतांस्ते वै व्यधमल्लीलया शरैः
द्रौणिश्च कृतवर्मा च तथाऽन्ये प्रवरा रथाः
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः
काङ्क्षता च परं लोकं धर्मराजस्य च प्रियम्
कृष्णयोस्सदृशो वीर्ये सात्यकिश्शत्रुतापनः
कृष्णो वाऽपि भवेल्लोके पार्थो वाऽपि धनुर्धरः
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते
अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः
चकार विरथं कर्णं सर्वसैन्यस्य पश्यतः
पार्थेन सदृशो युद्धे वासुदेवसमो युवा
सर्वक्षत्रियवीरामेकवीरस्तु सूतजः
धृतराष्ट्रः-
दारुकेण समायुक्तमौरसेन बलेन च
असह्यं सात्यकिं मन्ये रथमेघौघनिस्स्वनम्
सञ्जयाचक्ष्व भूयो मे यच्चक्राते पुनश्च तौ
सञ्जयः-
शृणु राजन्यथा तस्य रथमन्यं महाद्युतिः
दारुकस्यानुजस्तूर्णं सद्यो दृढतरं ततः
आयसैः काञ्चनैः पट्टैस्सन्नद्धं चित्रकूबरम्
तारासहस्ररचितं सिंहध्वजपताकिनम्
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः
पाण्डरैरिन्दुसङ्काशैस्सर्वशब्दातिगैर्दृढैः
चित्रकाञ्चनसन्नद्धैरष्टवर्षैस्तुरङ्गमैः
घण्टाजालपरिक्षिप्तं शक्तितोमरसङ्कुलम्
चित्रं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम्
रथं सम्पादयामास मेघगम्भीरनिस्स्वनम्
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्
कर्णस्यापि सुता राजञ्शङ्खगोक्षीरपाण्डरैः
चित्रकाञ्चनसन्नाहैस्सदश्वैर्वेगवत्तरैः
हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम्
अग्र्यं रथं सयन्तारं बहुशस्त्रपरिच्छदम्
उपाजह्रुस्तमासाद्य कर्णोऽप्यभ्यद्रवद्रिपून्
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
भूयोऽपि च निबोधेमं तवापनयजं क्षयम्
एकत्रिंशत्तव सुता भीमसेनेन पातिताः
दुर्मुखं प्रमुखे कृत्वा बहुशश्चित्रयोधिनः
शूराभ्यां निहताश्शूरास्सात्यकेनार्जुनेन च
भीष्मोऽपि निहतश्शूरो भगदत्तश्च भारत
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव