धृतराष्ट्रः-
अजितो द्रोणराधेयविकर्णकृतवर्मभिः
यश्चैवोत्सहते जेतुं समस्तं मामकं बलम्
तीर्णस्सेनार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे
स कथं कौरवेयेण समरेष्वनिवर्तिना
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः
सञ्जयः-
शृणु राजन्यथोत्पत्तिं शैनेयस्य महात्मनः
यथा च भूरिश्रवसो यत्र ते संशयो नृप
ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः
अत्रेः पुत्रोऽभवत्सोमस्सोमस्य तु बुधस्स्मृतः
बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः
पुरूरवस्सुतस्त्वायुर्नहुषस्त्वायुषस्सुतः
नहुषस्य ययातिस्तु राजर्षिर्देवसम्मितः
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः
यदोरभूदन्ववाये आजमीढ इति स्मृतः
यादवस्य सुतस्तस्य शूरस्त्रैलोक्यविश्रुतः
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः
धनुष्यनवमश्शूरः कार्तवीर्यसमो युधि
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृप
एतस्मिन्नेव काले तु देवकस्य महात्मनः।
तां दृष्ट्वा नीयमानां तु वासुदेवाय देवकीम्
दुहितुस्स्वयंवरे राजन्सर्वक्षत्रसमागतम्
नामृष्यत महाराज सोमदत्तश्शिनिं नृपम्
तत्र वै देवकीं देवीं वसुदेवार्थमात्मवान्
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभ
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः
कृपया च पुनस्तेन स जीवेति च विसर्जितः
तदवस्थः कृतस्तेन सोमदत्तो नरर्षभः
प्रासादयन्महादेवममर्षवशमास्थितः
तस्य तुष्टो महादेवो वरदानां वरो विभुः
वरेण च्छन्दयामास स तु वव्रे वरं नृप
पुत्रमिच्छामि भगवन्शिनेर्नप्तारमाहवे
मध्ये राजसहस्राणां यो निर्जित्य पदा हनेत्
तस्य तद्वचनं श्रुत्वा भगवान्नीललोहितः
सशिरःकम्पमाहेदं नैतदेवं भवेन्नृप
स पूर्वमेव तपसा मामाराध्य जगत्त्रये
कस्याप्यवध्यतां मत्तः प्राप्तवान्वरमुत्तमम्
तवाप्ययं प्रयासस्तु निष्फलो न भविष्यति
तस्य पौत्रं तु समरे त्वत्पुत्रो मोहयिष्यति
न तु मारयितुं शक्यः कृष्णसंरक्षितो ह्यसौ
अहमेव तु कृष्णोऽस्मि नावयोरन्तरं क्वचित्
इति तस्मै वरं दत्त्वा तत्रैवान्तरधीयत
नातिहृष्टमनास्सोऽपि पुरमागान्महीपतिः
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्
अपातयच्च समरे सौमदत्तिश्शिनेस्सुतम्
पश्यतां सर्वसैन्यानां पदा चैनमताडयत्
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभः
लब्धलक्षाश्च समरे बहुशश्चित्रयोधिनः
देवदानवगन्धर्वान्विजेतारो व्यवस्थिताः
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः
न तुल्यं वृष्णिभिरिह दृश्यते भुवि किञ्चन
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ
न ज्ञातिमवमन्यन्ते वृद्धानां वचने रताः
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे
ब्रह्मस्वे च सुहृत्स्वे च ज्ञातिस्वे चाप्यहिंसकाः
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्यास्सत्यवादिनः
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः
तेन तद्वृष्णिवीराणां चक्रं न प्रतिहन्यते
अपि मेरुं वहेत्कश्चित्तरेद्वा वरुणालयम्
न हि वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो
कुरुराज नरश्रेष्ठ तवैवापनयो महान्