सञ्जयः-
स बाहुर्न्यपतद्भूमौ सखड्गस्सशुभाङ्गदः
आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः
यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा
प्रहरिष्यन्हृतो बाहुरदृष्टेन किरीटिना
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन पार्थिवः
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास चार्जुनम्
स विबाहुर्महाराज एकपक्ष इवाण्डजः
एकचक्रो रथो यद्वद्धरणीमास्थितो नृपः
भूरिश्रवाः-
उवाच पाण्डवं चैव सर्वक्षत्रस्य शृण्वतः
नृशंसं बत कौन्तेय कर्मेह कृतवानसि
अपश्यतो विषक्तस्य व्यासक्तस्य च सात्त्वते
अनागसोऽन्यमनसो यन्मे त्वं बाहुमच्छिनः
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्
किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः
अयुध्यमानस्य रणे कथं प्रहृतवानसि
न प्रमत्ताय भीताय विरथाय प्रयाचते
व्यसने वर्तमानाय प्रहरन्ति मनीषिणः
इदं तु नीचाचरितमसत्पुरुषसेवितम्
कथमाचरितं पार्थ त्वया कर्म सुदुष्करम्
आर्येण सुकरं प्राहुरार्यकर्म धनञ्जय
अनार्यकर्म त्वार्येण सुदुष्करतमं विदुः
कथं हि राजवंशस्थः कौरवस्सन्विशेषतः
क्षत्रधर्मादपक्रान्तो दुर्वृत्तश्चलितव्रतः
अल्पस्तवापराधोऽत्र न त्वां तात विगर्हये
वार्ष्णेयापशदं प्राप्य क्षुद्रं कृतमिदं त्वया
येषु येषु नरः पार्थ वर्तते सुसमहितः
आशु तच्छीलतामेति तदिदं दृश्यते त्वयि
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते
को हि नाम प्रमत्ताय युध्यमानाय शत्रुणा
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत्
व्रात्यास्सङ्क्लिष्टकर्माणः प्रकृत्या क्षत्रगर्हिताः
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः
सञ्जयः-
एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत्
अर्जुनः-
व्यक्तमेव हि जीर्णस्सन्बुद्धिं सञ्जयसे नृप
अनर्थकमिदं सर्वं यत्त्वया व्याहृतं प्रभो
हृषीकेशेन सम्बन्धं गर्हसे मां च मूढवत्
रणानामस्मि धर्मज्ञस्सर्वशास्त्रार्थपारगः
न चाधर्ममहं कुर्यामजानंश्चैव मुह्यसि
युध्यन्ते क्षत्रियाश्शत्रून्स्वैस्स्वैः परिवृता नराः
भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः
वयस्यैरथ मित्रैश्च स्वबाहुबलमाश्रिताः
अहं हि सात्यकिं शिष्यं सहायं बन्धवं तथा
मदर्थे युध्यमानं च त्यक्त्वा प्राणान्सुदुस्त्यजान्
मम बाहुं रणे राजन्दक्षिणं युद्धदुर्मदम्
निकृष्यमाणं तं दृष्ट्वा कथं शत्रुवशं गतम्
त्वया विकृष्यमाणं च दृष्टवानस्मि निष्क्रियम्
न चैव रक्षितव्यो हि एको रणगतेन वै
यो यस्य युध्यतेऽर्थाय स संरक्ष्यो नराधिप
तै रक्ष्यमाणैस्स नृपो रक्षितव्यो महामृधे
यद्यहं सात्यकिं दृष्ट्वा तूष्णीमासिष्य आहवे
ततस्तेन वियोगश्च प्राप्यं नरकमेव च
रक्षितश्च मया यस्मात्तस्माल्लब्धो मया स च
यशश्चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात्
यच्च मां गर्हसे राजन्कृष्णेन सह सङ्गतम्
कस्तेन सङ्गमं नेच्छेत्तत्र ते बुद्धिविभ्रमः
आबद्धकवचस्येह रथमारुह्य तिष्ठतः
सर्वायुधैरुपेतस्य प्रतियोद्धृप्रतीक्षिणः
अस्मिन्रथगजानीके हयपत्तिसमाकुले
सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे
स्वैश्चापि समुपेतस्य विक्रान्तस्य तथा रणे
सात्यकेन कथं योग्यः सङ्ग्रामस्ते भविष्यति
बहुभिस्सह सङ्गम्य निर्जित्य च महारथान्
श्रान्तश्च श्रान्तवाहश्च क्षीणसर्वायुधस्त्वया
समेतस्सात्यकिस्सङ्ख्ये निर्जितश्च महारथः
अधिकं त्वां विजानामि तथाऽप्यन्यमना भवान्
इच्छसि त्वं शिरस्तस्य असिना हर्तुमाहवे
तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति
त्वं तु गर्हय चात्मानं स्वधर्मं यो न रक्षसि
कथं रक्षिष्यसे वीर ये वै त्वां संश्रिता जनाः
आत्तशस्त्रस्य हि रणे वृष्णिपुत्रं जिघांसतः
छिन्नवान्यदहं बाहुं नैतल्लोकविगर्हितम्
न्यस्तशस्त्रस्य हि पुनर्विरथस्य विवर्मणः
अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत्
सञ्जयः-
एवमुक्तो महाराज यूपकेतुर्महायशाः
धनञ्जयेन वीरेण विनिश्वस्य मुहुर्मुहुः
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत्
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्
सूर्ये चक्षुस्समाधाय प्रसन्नं सलिले मनः
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः
ततस्तु सर्वसेनासु जनाः कृष्णधनञ्जयौ
गर्हयामासुरप्येतौ शशंसुर्भूरिदक्षिणम्
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम्
प्रशस्यमानं च तथा नामृष्यद्यूपकेतनम्
तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः
अमृष्यमाणश्च तदा तेषां तस्य च भाषितम्
असङ्क्रुद्धमना वाचस्स्मारयन्निव भारत
उवाच पाण्डुतनयस्साक्षेपमिव फल्गुनः
अर्जुनः-
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम्
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे
यूपकेतुं समीक्ष्यैतन्न मां गर्हितुमर्हथ
अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते
न हि धर्ममविज्ञाय युक्तं गर्हयितुं च माम्
ये मे प्रत्यक्षतो वीरा हन्येरन्निति मे मतिः
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः
सात्यकश्च वशं नीतः कौरवेण महात्मना
यदहं बाहुमच्छैत्सं स धर्मो न विगर्हितः
ततो मयैतच्चरितं प्रतिज्ञारक्षणं प्रति
सञ्जयः-
न्यस्तशस्त्रस्य हि पुनो विरथस्य विवर्मणः
पुनश्च कृपयाऽऽविष्टो बहु तत्तद्विचिन्तयन्
नाभिमन्योर्वधं यूयं गर्हयध्वं कुतस्तदा
उवाच चैनं कौरव्यमर्जुनश्शोकपीडितः
दुर्योधनस्य क्षुद्रस्य अप्रमाणेऽवतिष्ठतः
सौमदत्तेर्वधस्साधुः स वै साहाय्यकारिणः
अर्जुनः-
धिगस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः
अवस्थामीदृशीं प्राप्तश्शरण्यश्शरणप्रदः
नातिभारः कृतान्तस्य विद्यते कुरुनन्दन
यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापामिमां दशाम्
न नूनं सुकृतस्यास्य फलं वै नृपसत्तम
यत्र त्वं कुरुशार्दूल पाप्तः पापामिमां दशाम्
रौरवं नरकं भीमं गमिष्यति सुयोधनः
यत्कृते नरशार्दूलः प्राप्तः पापामिमां दशाम्
को हि नाम पुमाँल्लोके मादृशः पुरुषोत्तम
प्रहरेत्त्वद्विधं त्वद्य प्रतिज्ञा यदि नो भवेत्
सञ्जयः-
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत्
पाणिना चैव सव्येन प्राहिणोद्दक्षिणे भुजे
एतत्पार्थस्य तु वचस्तत्र श्रुत्वा महाद्युतिः
युपकेतुर्महाराज तूष्णीमासीत्पराङ्मुखः
अर्जुनः-
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे
नकुले सहदेवे च सा मे त्वयि शलाग्रज
मया त्वं समनुज्ञातः कृष्णेन च महात्मना
गच्छ पुण्यकृताँल्लोकाञ्छिबिरौशीनरो यथा
सञ्जयः-
धनञ्जये ब्रुवत्येवं घृणया च परिप्लुते
अवाङ्मुखा बभूवुश्च सैनिकास्सर्व एव ते
मुहूर्तादिव विश्राम्य सात्यकिः क्रोधमूर्च्छितः
अमर्षवशमापन्नः सौमदत्तिनिराकृतः
तत उत्थाय शैनेयो विमुक्तस्सौमदत्तिना
खड्गमादाय चिच्छित्सुश्शिरस्तस्य महात्मनः
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम्
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्
क्रोशतां सर्वसैन्यानां निन्द्यमानस्सुदुर्मनाः
वार्यमाणस्स कृष्णेन पार्थेन च महात्मना
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च
कर्णेन वृषसेनेन सैन्धवेन तथैव च
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम्
प्रायोपविष्टस्य रणे पार्थेन च्छिन्नबाहुनः
सात्यकिः कौरवेयस्य खड्गेनापाहरच्छिरः
नाभ्यनन्दन्त तं सैन्यास्सात्यकिं तेन कर्मणा
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम्
समाश्रयन्त तं तत्र सिद्धचारणमानवाः
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्
अपूजयंश्च तं देवास्सात्यकिं पूर्वकर्मणा
पक्षपातांश्च बहुशः प्रावदंस्तत्र सैनिकाः
देवाः-
न वार्ष्णेयेऽपराधोऽस्ति भवितव्यं हि तत्तथा
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम्
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे
सञ्जयः-
मर्तव्यमेव सर्वेण चरमं पूर्वमेव वा
तान् प्रत्युवाच विजयश्शोकमोहसमन्वितान्
अर्जुनः-
मन्यध्वं मृत इत्येष मा भूद्वो बुद्धिलाघवम्
सञ्जयः-
तस्मिन्हते महाबाहौ यूपकेतौ महात्मनि
धिगेनमिति चाक्रन्दन्क्षत्रियाः क्रोधमूर्च्छिताः
अन्ये न युक्तमित्येव भवितव्यं तथेति च
केचिदासन्विमनसः केचिद्दुःखसमन्विताः
सात्यकिः-
न हन्तव्यो न हन्तव्य इति मन्दाः प्रभाषत
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमाश्रिताः
यदा बालस्सुभद्रायास्सुतश्शस्त्रविनाकृतः
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदाहवे
श्रुत्वा तत्सर्वभावेन गर्हयध्वं न चार्जुनम्
शृणुध्वं सर्वमेवेह श्रुत्वा गर्हथ मानवाः
यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यान्नरो रुषा
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः
चेष्टमानं प्रतीघाते सभुजं मां सुचक्षुषः
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम्
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः
यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञां परिरक्षता
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः
भवितव्यं हि यद्भावि दैवं चेष्टयते हि तत्
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम्
अपि चेदं पुरा गीतमेवं वाल्मीकिना भुवि
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत्
अनुष्ठितं मया तच्च कस्माद्गर्हथ मूढवत्
सञ्जयः-
एवमुक्ता महाराज सर्वे कौरवपुङ्गवाः
न किञ्चित्प्रत्यभाषन्त मनसाऽपूजयंश्च तम्
मन्त्राभिपूतस्य महाध्वरेषु यशस्विनः कामस्रदस्य
मुनेरिवारण्यगतस्य कश्चिन्न यूपकेतोर्वधमभ्यनन्दत्
सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम्
अश्वस्य मेध्यस्य शिरः प्रकृत्तं न्यस्तं हविर्धानमिवोत्तरेण
स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्त्य धर्मेण परेण रोदसी