धृतराष्ट्रः-
दातव्यमद्य मन्येऽहं पाण्डवानां स्वकं पुनः
न विग्रहो हि बलिना श्रेयसे स्याद्यथातथम्
पादयोः प्रणतेनापि भुक्त्वाऽप्युच्छिष्टमप्यरेः
अतोऽन्यद्वाऽपि कृत्वैव जीव्यं लोके नरेण वै
जीवतैव परो लोकस्साध्यते चैव सर्वथा
अजीवतस्तथैवासीन्न सुखं न परा गतिः
विनाशे सर्वथोत्पन्ने न बालो बुध्यते क्रियाम्
मिथ्याभिमानदग्धो हि न बुद्ध्येत कृताकृते
अहन्यहनि मे दीप्तं यशः पतति सञ्जय
हता मे बहवो योधा मन्ये कालस्य पर्ययम्
धनञ्जयो यदा क्रुद्धः प्रविष्टो मामकं बलम्
रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च
तदाप्रभृति मां शोको दहत्यग्निरिवाश्रयम्
ग्रस्तान्हि प्रति पश्यामि भूमिपालान्ससैन्धवान्
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः
चक्षुर्विषयमापन्नः कथं मुच्येत जीवितात्
अनुमानाच्च पश्यामि नास्ति सैन्धवजीवितम्
क्रुद्धस्य देवराजस्य शक्रस्येव महाद्युतेः
युद्धं त्वेतद्यथावृत्तं तन्ममाचक्ष्व पृच्छतः
यच्च विक्षोभ्य महतीं सेनामालोक्य चासकृत्
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः
तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम्
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय
सञ्जय उवाच
तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम्
समीक्ष्य राजन्रथमुख्यमग्रे शिनिप्रवीरोऽनुययौ स प्रययौ
वर्षन्यथा वारिधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः
निघ्नन्नमित्रान्धनुषा दृढेन प्रकम्पयंस्तव पुत्रस्य सेनाम्
तं यान्तमश्वै रजतप्रकाशैरायोधने नरवीरं चरन्तम्
नाशक्नुवन्वारयितुं त्वदीयास्सर्वे रथा भारत माधवाग्र्यम्
अमर्षपूर्णस्त्वनिवृत्तयोधी शरान्किरन्काञ्चनवर्मधारी
अलम्बुसस्सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य
तयोरभूद्भारत सम्प्रहारस्तथा यथा नैव कश्चित् पुराऽभूत्
प्रेक्षन्त सर्वाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे
आविध्यदेनं दशभिः पृषत्कैरलम्बुसो राजवरः प्रसह्य
अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैश्शिनिपुङ्गवोऽपि
पुनस्स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः प्रसह्य
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुश्शरीरम्
तैः कायमस्यावनिपालपुत्रस्सन्धाय बाणैरपरैर्ज्वलद्भिः
आजघ्निवांस्तान्रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य
तथा स तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः
अलम्बुसस्योत्तमवेगवद्भिर्जघान वाहान्निशितैस्ससूतान्
अथास्य सूतस्य शिरो निकृत्य भल्लेन शक्रासनिसन्निभेन
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात्
निहत्य तं पार्थिवपुत्रमग्र्यं सङ्ख्ये मधूनामृषभः प्रमाथी
ततोऽन्वयादर्जुनमेव वीरस्सैन्यानि राजंस्तव सन्निवार्य
अन्वागतं वृष्णिवीरं समीक्ष्य तथाऽरिमध्ये परिवर्तमानम्
घ्नन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वारयितुं न शेकुः
ततोऽवहन्सिन्धुभवास्सुदान्ता गोक्षीरशङ्खेन्दुहिमप्रकाशाः
सुवर्णजालावततास्सदश्वा यतो यतः कामयते नृसिंहः
अथात्मजास्ते सहिता नितुरन्ये च योधास्त्वरितास्तमाजौ
कृत्वा मुखं भारतयोधमुख्यं दुश्शासनं त्वत्सुतमाजमीढ
ते सर्वतस्सम्परिवार्य सङ्ख्ये शैनेयमाजघ्नुरनीकसाहम्
स चापि तान्प्रवरस्सात्वतानां न्यवारयद्बाणबलेन वीरः
निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः
दुश्शासनस्याभिजघान वाहाञ्जवीयसस्तान्मनसोऽपि बाणैः
तमुद्यतं महाबाहुं दुश्शासनरथं प्रति
त्वरितं त्वदनीकेषु धनञ्जयजयैषिणम्
त्रिगर्तानां रथोदारास्सुवर्णविकृतध्वजाः
सेनासमुद्रमाविष्टं समन्तात्पर्यवारयन्
अथैनं रथवंशेन मण्डलीकृत्य सर्वतः
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः
अभ्यघ्नद्राजपुत्रांस्तु त्वरमाणो महारथः
एकः पञ्चाशतं शत्रून्सात्यकिस्सत्यविक्रमः
सम्प्राप्तो भारतीमध्यं तलघोषसमाकुलम्
असिशक्तिगदापूर्णमप्लवं सागरं यथा
अथैनमनुवृत्तास्तु त्रिगर्तास्सहिताः पुनः
तीव्रेण रथवंशेन महता पर्यवारयन्
विकर्षन्तोऽतिमात्राणि चापानि भरतर्षभ
तत्राद्भुतमपश्याम शैनेयचरितं रणे
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात्
उदीच्यां दक्षिणस्यां च प्रतीक्षामः पुनः पुनः
पुनर्मध्यगतो वीर आहवे युद्धदुर्मदः
एकः पर्यचरन्रङ्गे बहुधा स महारथः
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
त्रिगर्तास्सन्न्यवर्तन्त सन्तप्तास्स्वजनं प्रति
तमन्ये शूरसेनानां शूरास्सङ्ख्ये न्यवारयन्
नियच्छन्तश्शरव्रातैर्मत्तद्विपमिवाङ्कुशैः
तैर्व्यवाहरदार्यात्मा मुहूर्तमिव सात्यकिः
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत्
तरन्निव जलश्रान्तो यथा स्थलमुपेयिवान्
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानस्समाश्वसत्
तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत्
श्रीभगवान्-
असावायाति शैनेयस्तव पार्थ पदानुगः
एष शिष्यस्सखा चैव तव सत्यपराक्रमः
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः
एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः
एष द्रोणं तथा भोजं कृतवर्माणमेव च
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनमन्विच्छन्पार्थागच्छति सात्यकिः
बहूनेकरथेनाजौ योधयित्वा महारथान्
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः
स्वबाहुबलवीर्येण विदार्य च वरूथिनीम्
प्रेषितो धर्मराजेन पार्थं याहीति सात्यकिः
प्रियश्शिष्यश्च ते पार्थ त्वया तुल्यपराक्रमः
विद्राव्य महतीं सेनामेष आयाति सात्यकिः
यस्य नास्ति समो योद्धा कौरवेषु कथञ्चन
सोऽयमायाति कौन्तेय सात्यकिस्सत्यविक्रमः
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव
निहत्य बहुश्स्सेनां बाणैर्विक्षोभ्य सात्यकिः
एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः
एष दुर्योधनं जित्वा भ्रातृभिस्सहितं रणे
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः
सञ्जयः-
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
अर्जुनः-
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः
नाभिजानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनस्स सत्यं जीवति वा न वा
एतेन हि महाबाहो रक्षितव्यस्स पार्थिवः
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः
राजा द्रोणाय चोत्सृष्टस्सैन्धवश्च न पातितः
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे
सोऽयं गुरुतरो भारस्सैन्धवार्थे समाहितः
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः
श्रान्तश्च हि महाबाहुरल्पप्राणश्च साम्प्रतम्
परिरुद्धा हयाश्चास्य हययन्ता च माधव
न च भूरिश्रवाश्श्रान्तस्ससहायश्च केशव
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे
कच्चिन्न सागरं तीर्त्वा सात्यकिस्सत्यविक्रमः
गोष्पदं प्राप्य सीदेत महौजाश्शिनिनन्दनः
अपि कौरवमुख्येन कृतास्त्रेण महात्मना
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्
अतिक्रममिमं मन्ये धर्मराजस्य केशव
आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम्
ग्रहणं धर्मराजस्य वेगाच्छ्येन इवामिषम्
नित्यमाकाङ्क्षते द्रोणः कच्चित्स्यात्कुशली नृपः
सञ्जयः-
तमापतन्तं सम्प्रेक्ष्य माधवं युद्धदुर्मदम्
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत्
तमब्रवीन्महाराज कौरव्यश्शिनिपुङ्गवम्
भूरिश्रवाः-
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमच्युत
चिराभिलषितं काममहं प्राप्स्यामि संयुगे
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया
सव्रीडो भविता सद्यो येनासीह प्रवेशितः
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः
त्वयि भूमौ निपतिते शयाने रुधिरोक्षिते
चिराभिलषितो ह्यद्य त्वया सह समागमः
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा
अद्य युद्धं महाघोरं तव दास्यामि सात्वत
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्
अद्य संयमनीं तात यायास्त्वं निहतो मया
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः
तत्स्त्रियो नन्दयिष्यामि त्वया ये निहता रणे
मच्चक्षुर्विषयं प्राप्तो न त्वं माधव मोक्ष्यसे
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा
सञ्जयः-
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव
सात्यकिः-
कौरवेय न सन्त्रासो विद्यते मम संयुगे
न तं पश्यामि सङ्ग्रामे यो मां हन्यात्सहायुधम्
स तु मां शाश्वतं हन्याद्यो मां हन्यादसङ्गरे
किं चिरोक्तेन बहुना कर्मणा तत्समाचर
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते
श्रुत्वथतद्गर्जितं वीर हास्यं हि मम जायते
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव
त्वरते मे मनस्तात त्वयि युद्धाभिकाङ्क्षिणी
नाहत्वा विनिवर्तिष्ये त्वामद्य भरतर्षभ
सञ्जयः-
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे
तौ समेतौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे
द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ
तावुभौ शरवर्षाभ्यामन्योन्यमभिवर्षताम्
भूरिश्रवास्सात्यकिश्च ववर्षतुररिन्दमौ
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैश्शरैः
दशभिस्सात्यकिं विद्ध्वा सौमदत्तिरथापरान्
मुमोच निशितान्बाणाञ्जिघांसुश्शिनिपुङ्गवम्
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो
तौ पृथक्शस्त्रवर्षाभ्यामवर्षेतां परस्परम्
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम्
निर्भिन्दन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ
ततःपरमयुध्येतां वारणाविव यूथपौ
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ
गमिष्यन्तौ परं स्थानमन्योन्यं सन्ततक्षतुः
सात्यकिस्सौमदत्तिश्च शरवृष्ट्या परस्परम्
वृष्टिं तामभिवर्षन्तौ शराणां महतीं तदा
तौ प्रैक्षन्त जनास्ते च युध्यमानौ युधां पती
यूथपौ वािशताहेतोः प्रयुद्धाविव कुञ्जरौ
भूयो भूयश्शरै राजंस्तक्षन्तौ क्रोधमूर्च्छितौ
अयुध्येतां महारङ्गे वने केसरिणाविव
मर्मज्ञाविव सङ्क्रुद्धौ जिघांसन्तौ जगर्जतुः
विमर्दन्तावथान्योन्यं बलिवज्रधराविव
अथान्योन्यं पताकाश्च रथोपकरणानि च
सञ्चिच्छिदतुरायत्तौ बाणैस्सन्नतपर्वभिः
पुनश्च शरवर्षाभ्यामन्योन्यमभिवर्षताम्
उभौ तु जघ्नतुस्तूर्णमितरेतरसारथी
अन्योन्यं च हयान्हत्वा धनुषी विनिकृत्य च
विरथावसियुद्धाय समेयातां महारणे
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे
विकोशौ चाप्यसी कृत्वा समरे चारु चेरतुः
चरन्तौ विविधान्मार्गान्मण्डलानि च भारत
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ
रणोत्कटौ महावेगावन्योन्यं पर्यकर्षताम्
मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम्
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिस्समसज्जेतामायसैः परिघैरिव
तयो राजन्भुजाघाता निग्रहावग्रहास्तथा
शिक्षाबलविशेषाश्च सर्वयोधप्रहर्षणाः
तयोर्नृवरयो राजन्समरे युध्यमानयोः
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव
द्विपाविव विषाणाग्रैश्शृङ्गैरिव महर्षभौ
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ
श्रीभगवान्-
क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः
सम्पश्यैनं विरथं युध्यमानं योऽसौ केतुस्सर्वधनुर्धराणाम्
सञ्जयः-
श्रीभगवान्-
सिन्धुराजवधे सक्तं पार्थं कृष्णोऽब्रवीत्पुनः
सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च
प्रविष्टो भारतीं तीर्त्वा तव पाण्डव पृष्ठतः
योधितश्च महाबाहुस् सर्वैर्भारत भारतैः
धार्तराष्ट्राश्च ये मुख्या ये च मुख्या महारथाः
निहता वृष्णिवीरेण शतशोऽथ सहस्रशः
परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः
युद्धाकाङ्क्षी समासीनो नैतत्सममिवार्जुन
सञ्जयः-
ततो भूरिश्रवाः क्रुद्धस्सात्यकिं युद्धदुर्मदः
उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम्
ततो जलदनिर्घोषस्समीपे नृपसत्तम
हाहाकारो महानासीत्सैन्यानां भरतर्षभ
यदुद्यम्य महाबाहुस्सात्यकिं न्यहनद्भुवि
रथस्थयोर्द्वयोस्सङ्ख्ये क्रुद्धयोर्योधमुख्ययोः
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत
श्रीभगवान्-
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम्
सञ्जयः-
न वशं यज्ञशीलस्य गच्छेत्पाण्डव माधवः
त्वत्कृते पुरुषव्याघ्र तदाऽऽशु क्रियतां प्रभो
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः
अर्जुनः-
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्
महाद्विपेनेव वने मत्तेन हरियूथपम्
सञ्जयः-
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः
व्यरोचत कुरुश्रेष्ठस्सात्त्वतप्रवरं युधि
अर्जुनः-
मामेव च महाबाहो परियान्ति महारथाः
यथाशक्ति यतन्तो मां योधयन्तो जनार्दन
ध्रुवं च योधयाम्येताञ्छिद्रान्वेषणतत्परान्
रक्षामि सात्यकिं चैव सौमदत्तिवशं गतम्
अप्राप्तोऽयं मया कृष्ण हन्तुं भूरिश्रवा रणे
अन्येन तु समासक्तं मम नोत्सहते मनः
अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम्
मदर्थं युध्यमानस्य कार्यं प्राणैरपि प्रभो
अधर्मो वाऽस्तु धर्मो वा मम माधव माधवः
परेण निहतो मा स्म प्राणान्हासीन्महारथः
सञ्जयः-
एवमुक्त्वाऽर्जुनः कृष्णं परानाशु शितैश्शरैः
छादयामास सङ्क्रुद्धः परे चापि धनञ्जयम्
एवं स्म युध्यते वीरस्सात्यकिं च मुहुर्मुहुः
प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसमेव च
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः
व्यरोचत कुरुश्रेष्ठस्सात्तवतप्रवरं युधि
तथा तु कृष्यमाणं तं दृष्ट्वा सात्यकिमाहवे
वासुदेवस्तदा राजन् भूयोऽप्यर्जुनमब्रवीत्
श्रीभगवान्-
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
तव शिष्यं महाबाहो धनुष्यनवमं त्वया
अनित्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
अन्यैर्महारथैरेष पराक्रान्तैर्युयुत्सुभिः
युद्ध्वा भृशं परिश्रान्तः क्षीणायुधरपरिच्छदः
सञ्जयः-
एवमुक्तो महाराज वासुदेवेन पाण्डवः
मनसा पूजयामास भूरिश्रवसमाहवे
अर्जुनः-
विकर्षन्सात्वतां श्रेष्ठं क्रीडमान इवाहवे
स हर्षयति मां भूयः कुरूणां नन्दिवर्धनः
प्रवरं वृष्णिवीराणां यन्निहन्त्येष सात्यकिम्
महाद्विपमिवारण्ये कर्षन्निव हरिर्भृशम्
सञ्जयः-
एवं तु मनसा राजन्पार्थस्सम्पूज्य कौरवम्
अयुध्यतारिभिर्वीरस्तं च सम्प्रेक्षते मुहुः
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवाश्शितम्
मूर्धजेषु च जग्राह पदा चोरस्याताडयत्
आक्रम्य चाप्यथोद्यम्य सहासिं सुभुजो भुजम्
शुशुभे स भुजस्तस्य तपनीयविभूषणः
मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः
हाहाकृतमभूत्सर्वं पाण्डवानां महद्बलम्
तावकाश्च मुदा युक्तास्सिंहनादं विचुक्रुशुः
निमीलिताक्षास्त्वभवञ्जनास्सङ्ग्रामभीरवः
तथा भूरिश्रवोग्रस्ते सात्वते नष्टविक्रमे
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत
अर्जुनः-
सैन्धवे सक्तदृष्टित्वान्नैनं पश्यामि माधवम्
एष त्वसुकरं कर्म यादवार्थे करोम्यहम्
मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः
तं कृष्ण मोक्षयिष्यामि दावात्सिंहशिशुं यथा
सञ्जयः-
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत्
पार्थबाहुविसृष्टस्स महोल्केव नभश्च्युता
सखड्गं यज्ञशीलस्य बाहुं दक्षिणमच्छिनत्