महानपनयस्सूत ममैवात्र विशेषतः
इदानीं समतिक्रान्तः प्राप्तस्सञ्जय शोचतः
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय
यथा त्वेष क्षयो वृत्तो ममापनयसम्भवः
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय
सञ्जयः-
कर्णभीमौ महाराज पराक्रान्तौ महारणे
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ
भीमनामाङ्किता बाणास्स्वर्णपुङ्खाश्शिलाशिताः
विविशुः कर्णमासाद्य कर्षन्त इव जीवितम्
तथैव कर्णनिर्मुक्तैस्ससविषैरिव पन्नगैः
अकीर्यत रणे भीमश्शतशोऽथ सहस्रशः
तयोश्शरैर्महाराज सम्पतद्भिस्समन्ततः
बभूव तव सैन्यानां सङ्क्षोभस्सागरोपमः
भीमचापच्युतैर्बाणैस्तव सैन्यमरिन्दम
अवध्यत चमूमध्ये शरैराशीविषोपमैः
वारणैः पतितै राजन्वाजिभिश्च नरैस्सह
अदृश्यत मही कीर्णा वातनुन्नैरिव द्रुमैः
ते वध्यमानास्समरे भीमचापच्युतैश्शरैः
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन्
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्
प्रोत्सारितं महावेगैः कर्णपाण्डवयोश्शरैः
ते शूरा हतभूयिष्ठाः पत्त्यश्वरथवारणाः
उत्सृज्य भीमं कर्णं च प्राद्रवन्सर्वतो दिशः
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः
यत्कर्णभीमप्रभवैर्बलं वध्यति नश्शरैः
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षया
ततः प्रावर्तत नदी घोररूपा विशां पते
बभूव च विशेषेण भीरूणां भयवर्धिनी
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः
जातरूपपरिष्कारैश्शक्तिभिः परिघैरपि
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च समन्ततः
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
प्रासतोमरनिर्घातैस्सशक्त्यष्टिपरश्वथैः
सुवर्णविकृतैश्चापि गदामुसलपट्टसैः
वज्रैश्च विविधाकारैश्शङ्कुभिः परिघैरपि
शतघ्नीभिश्च चित्राभिर्बभौ भारतमेदिनी
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिश्शुभैः
तनुत्रैस्सतलत्राणैर्हारैर्निष्कैश्च भारत
वस्त्रैश्छत्रैश्च विविधैश्चामरव्यजनैरपि
गजाश्वमनुजैर्भिन्नैश्शस्त्रैश्शोणितभूषणैः
तैस्तैश्च विविधैर्भिन्नैस्तत्र तत्र वसुन्धरा
पतितैरपविद्धैश्च सम्बभौ द्यौरिव ग्रहैः
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्
दृष्ट्वा चारणसिद्धानां विस्मयस्समपद्यत
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे
आसीद्भीमसहायस्य रौद्रमातिरथेर्गतम्
निपातितध्वजरथं हतवाजिनरद्विपम्
गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नलवनं यथा
तथाभूतं महत्सैन्यमासीद्भारत संयुगे
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे