सञ्जयः-
भीमसेनस्य राधेयश्श्रुत्वा ज्यातलनिस्स्वनम्
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्
उपक्रम्य स भीमस्य मुहूर्तं शरगोचरात्
तव चातिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान्
भीमसेनेन निहतान्विमना दुःखितोऽभवत्
निश्श्वसन्दीर्घमुष्णं च कर्णः पाण्डवमभ्ययात्
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः
बभौ कर्णश्शरानस्यन्रश्मिमानिव भास्करः
रश्मिजालैरिवार्कस्य विहितैर्भरतर्षभ
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः
कर्णचापच्यताश्चित्राश्शरा बर्हिणवाससः
विविशुस्सर्वतः पार्थं वासायेवाण्डजा द्रुमम्
कर्णचापच्युता बाणास्सम्पतन्तस्ततस्ततः
रुक्मपुङ्खा व्यराजन्त हंसाश्श्रेणीकृता इव
चापध्वजोपस्करेभ्यश्चक्रादीषाद्युगादपि
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेश्शराः
खं पूरयन्तः खचराः खगमाः खगवाससः
सुवर्णविकृतांश्चित्राचेरुरातिरथेश्शराः
तमन्तकमिवायन्तमापतन्तं वृकोदरम्
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैश्शरैः
तस्य वेगमसह्यं तु दृष्ट्वा कर्णस्य पाण्डवः
अविचिन्त्य शरौघांस्तान्नैवाव्यधत वीर्यवान्
ततो विध्वंस्यतिरथेश्शरजालानि पाण्डवः
विव्याध कर्णं विंशत्या पुनर्भिमश्शिलाशितैः
यथैव स्वशरैः पार्थस्सूतपुत्रेण छादितः
तथैव समरे कर्णं छादयामास पाण्डवः
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः
उत्तमौजा युधामन्युस्सात्यकिः केशवार्जुनौ
कुरुपाण्डवपक्षस्था दश राजन्महारथाः
साधुसाध्विति वेगेन सिंहनादमथानदन्
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे
अभ्यभाषत पुत्रस्ते राजन्दुर्योधनस्तदा
दुर्योधनः-
राजानो राजपुत्राश्च सोदर्याश्च विशेषतः
कर्णं रक्षत भद्रं वः परीप्सन्तो वृकोदरात्
पुरा निघ्नन्ति राधेयं भीमचापच्युताश्शराः
ते यतध्वं महेष्वासास्सूतपुत्रस्य रक्षणे
सञ्जयः-
दुर्योधनसमादिष्टास्सोदर्यास्सप्त मारिष
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन्
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः
तेऽपीडयन्भीमसेनं क्रुद्धास्सप्त महारथाः
प्रजासंहरणे घोरास्सोमं सप्त ग्रहा इव
ततो वामेन कौन्तेयः पीडयित्वा शरासनम्
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम्
अमानुषं कर्म कृत्वा सप्त सन्धाय सायकान्
स तेभ्योऽवासृजद्रक्तान्सूर्यरश्मिनिभान्प्रभुः
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव
भीमसेनो महाराज पूर्ववैरमनुस्मरन्
ते क्षिप्ता भीमसेनेन शरा भारत भारतान्
विदार्य प्राविशन्भूमिं हेमपुङ्खाश्शिलाशिताः
तेषां विदार्य देहांस्ते शरा हेमविभूषिताः
भित्त्वा भित्त्वा क्षितिं जग्मुस्तेषामेवासुभिस्सह
ते व्यराजन्महाराज सुपर्णा इव खेचराः
शोणितादिग्धवाजाग्रैस्तप्तहेमविभुषितैः
पुत्राणां तव सङ्ग्रामे पीतं शोणितमुत्तमम्
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ
गिरिसानुरुहा भग्ना वायुनेव महाद्रुमाः
शत्रुञ्जयश्शत्रुसहश्सुबाहुर्मदनो द्रुमः
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः
सिंहनादरवं घोरमानदत्पाण्डुनन्दनः
स रवस्तस्य शूरस्य धर्मराजस्य संयुगे
आचख्याविव तद्युद्धं विजयं चात्मनो महत्
तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः
बभूव परमा प्रीतिर्धर्मराजस्य संयुगे
ततो हृष्टो महाराज वादित्राणां महास्वनैः
भीमसेनरवं पार्थः प्रतिजग्राह सर्वतः
अभ्ययाच्चैव समरे द्रोणमस्त्रविदां वरम्
हर्षेण महता युक्तः कृतसञ्ज्ञो वृकोदरः॥
एकत्रिंशन्महाराज पुत्रांस्तव महारथान्
हतान्दुर्योधनो दृष्ट्वा क्षत्तुस्सस्मार तद्वचः
तदिदं समनुप्राप्तं क्षत्तुर्नैश्श्रेयसं वचः
इति सञ्चिन्त्य राजाऽसौ नोत्तरं प्रत्यपद्यत
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते
कौरवाणां च सर्वेषामाचार्यस्य च सन्निधौ
विनष्टाः पाण्डवाः कृष्णे शाश्वतं निरयं गताः
पतिमन्यं वृणीष्वेति तस्येदं कर्मणः फलम्
यां स्म तां परुषाणायाहुस्सभामानाय्य द्रौपदीम्
पाण्डवानुग्रधनुषः कोपयन्तस्तवात्मजाः
तं भीमसेनः क्रोधाग्निं त्रयोदश समा हितम्
विसृजंस्तव पुत्राणामन्तं गच्छति कौरवः
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि
सपुत्रो भरतश्रेष्ठ तस्य पश्य फलोदयम्
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान्
सुतानां प्रवरौ तौ ते हताश्चान्ये महारथाः
यानन्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान्
पुत्रांस्तव महाराज त्वरया सञ्जहार तान्
एवं स्म वर्तते रौद्रस्सङ्ग्रामो भरतर्षभ
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्
सहस्रशश्शरैर्मुक्तैः पाण्डवेन वृषेण च